Misc

श्रीसुदर्शनमालामन्त्रस्तोत्रम्

Sudarshanamalamantrastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीसुदर्शनमालामन्त्रस्तोत्रम् ||

अस्य श्रीसुदर्शनमालामहामन्त्रस्य अहिर्बुध्न्य ऋषिः ।
अनुष्टुप् छन्दः । सुदर्शनचक्ररूपी श्रीहरिर्देवता ।
आचक्राय स्वाहेति बीजम् । सुचक्राय स्वाहेति शक्तिः ।
ज्वालाचक्राय स्वाहेति कीलकम् । श्रीसुदर्शनप्रीत्यर्थे जपे
विनियोगः ।
ॐ आचक्राय स्वाहा । विचक्राय स्वाहा । सुचक्राय स्वाहा ।
धीचक्राय स्वाहा । ज्वालाचक्राय स्वाहा । सुचक्राय स्वाहेति कराङ्गन्यासौ ।
ध्यानम्
कल्पान्तार्कप्रकाशं त्रिभुवनमखिलं तेजसा पूरयन्तं
रक्ताक्षं पिङ्गकेदां रिपुकुलभयदं वज्रदंष्ट्रादृहासम् ।
शङ्खं चक्रं कराग्रैः पृथुतरमुसलं चापपाशाङ्कुशादीन्
बिभ्राणं दोर्भिराद्यं मनसि मुररिपुं भावयेच्चक्रसंज्ञम् ॥

ॐ श्रीं ह्रीं क्लीं सहस्रार हुं फट् स्वाहा ।
ॐ क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय पराय परमपुरुषाय
परमात्मने परमन्त्रपरयन्त्रपरतन्त्रौषधास्त्रशस्त्राणि संहर संहर ।
मृत्योर्मोचय मृत्योर्मोचय । शत्रून्नाशय नाशय ।
ॐ नमो भगवते महासुदर्शनाय दीप्त्रे ज्वालापरीताय
सर्वदिक्शोभनकराय ब्रह्मणे परञ्ज्योतिषे हुं फट् स्वाहा ॥

इति सुदर्शनमालामन्त्रस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीसुदर्शनमालामन्त्रस्तोत्रम् PDF

श्रीसुदर्शनमालामन्त्रस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App