|| सुधालहरी ||
उल्लासः फुल्लपङ्केरुहपटलतन्मत्तपुष्पंधयानां
निस्तारः शोकदावानलविकलहृदां कोकसीमन्तिनीनाम् ।
उत्पातस्तामसानामुपहतमहसां चक्षुषां पक्षपातः
संघातः कोऽपि धाम्नामयमुदयगिरिप्रान्ततः प्रादुरासीत् ॥ १॥
पद्मद्रोहोद्धुराणां धवलितहरितामैन्दवीनां द्युतीनां
दर्पं द्राग्द्रावयन्तो विदलदरुणिमोद्रेकदेदीप्यमानाः ।
दूरादेवान्धकारान्धितधरणैतलद्योतने बद्धदीक्षा-
स्ते दैन्यध्वंसदक्षा मुदमुदयदिनोद्वेलदुस्रा दिशन्तु ॥ २॥
त्रातामीवार्तलक्षाः प्रतिदिनविहितानेकगीर्वाणरक्षा
भक्तानां कल्पवृक्षाः स्फुरदनलगतस्वर्णभासां सदृक्षाः ।
लोकक्षेमात्तदीक्षा नलिनपरिषदां दत्तसौभाग्यलाक्षा
दुर्वृत्तध्वंसदक्षा मम रविकिरणाः सन्त्वघानां विपक्षाः ॥ ३॥
प्रालेयानां करालाः कवलितजगतीमण्डलध्वान्तजालाः
स्त्रातस्वर्लोकपाला विदलदरुणिमक्षिप्तबालप्रवालाः ।
विश्लिष्यत्कोकबालाज्वरहरणभवत्कीर्तिजालैर्जटाला
व्योमव्याप्तौ विशालास्त्वयि दधतु शिवं भास्वतो भानुमालाः ॥ ४॥
निर्भिद्ये क्ष्मारुहाणामतिघनमुदरं येषु गोत्रां गतेषु
द्राधिष्ठस्वर्णदण्डभ्रमभृतमनसः संनिधित्सन्ति पादान् ।
यैः संभिन्ने दलाग्रप्रचलहिमकणे दाडिमीबीजबुद्ध्या
चञ्चूचाञ्चल्यमञ्चन्ति च शुकशिशवस्तेंऽशवः पान्तु भानोः ॥ ५॥
अह्नि क्रीडोचितानां सरसिरुहलसन्मन्दिराणां प्रभाते
प्रोद्घाट्य द्राक्कपाटान्यथ कुमुदगृहान्मुद्रयन्तो विमुक्तान् ।
सिञ्चन्तः किं च भूमीतलमखिलमपि क्षुण्णकाश्मीरनीरैः
पायासुः श्रीसपर्याविरचनपटवः पद्मबन्धोः करा नः ॥ ६॥
आलेपा हिङ्गुलानामिव धरणिभुजामच्छसौधाग्रमौलि-
ष्वग्रेषु क्ष्मारुहाणामभिनवविदलत्पल्लवोल्लासलीलाः ।
प्रौढप्रालेयपुञ्जोपरि चितस्वदिराङ्गारभारा इवारा-
त्पारावारात्प्रयान्तो दिनकरकिरणा मङ्गलं नः कृषीरन् ॥ ७॥
कीलालैः कुङ्कुमानां निखिलमपि जगज्जालमेतन्निषिक्तं
मुक्ताश्चोन्मत्तभृङ्गाविदलितकमलक्रोडकारागृहेभ्यः ।
उत्सृष्टं गोसहस्रं बहलकलकलः श्रूयते च द्विजानां
भाग्यैर्वृन्दारकाणां हरिहयहरिता सूयते पुत्ररत्नम् ॥ ८॥
या सूते सवभूतेष्वनुदिनमुदये चेतनाया विलासा-
न्यान्ती सायं निकायं जलनिधिजठरं संजरीहर्ति सद्यः ।
अत्यर्थं वर्धयन्ती मणिगणसुषमासम्पदं रत्नसानोः
सा नो भानोः प्रभा नो नयनसरणितो दूरतो जातु यातु ॥ ९॥
नीहारैर्नीरजानां निबिडतमतमोराशिभिर्लोचनानां
श्रौतस्मार्तक्रियाणामपि खलु निशया नाशमालक्ष्य दूरात् ।
सद्यः सिन्धोः सकाशादधिकतरजवेनागता वासवाशा-
माशापाशानशेषानपहरतुतरां तीक्ष्णभानोः प्रभा नः ॥ १०॥
शीते शोकं शशाङ्के कृशतमरुचितामाशुनाशं निशायां
धिक्कारं ध्वान्तवर्गे कुमुदपरिषदि प्रोद्गमं दीनतायाः ।
पाण्डित्यं पुण्डरीकेष्वनुदिनमधिकां कान्तिमाशासु तन्व-
न्नन्वञ्चत्यन्वहं द्यामुषसि करुणया विश्ववन्द्यो विवस्वान् ॥ ११॥
स्वापं स्वापाकुलानां गदमथ गदिनामन्धकारं त्रिलोक्याः
पापं पापाविलानां सपदि परिहरन्नागतो वासवाशाम् ।
नित्यप्रस्थानलीलाकुपितकमलिनीनर्मनिर्माणकर्मा
विश्वार्तित्राणधर्मा गगनमणिरसौ पातु शर्मानिशं वः ॥ १२॥
अन्तर्नीरं नदीनामनुदिनमुदये बिम्बिता ये समन्ता-
द्गीर्वाणाद्रेरुदञ्चन्मणिगणजटिलां मेदिनीं दर्शयन्ति ।
विप्रप्रोत्क्षिप्तसंध्याञ्जलिजलकणिकाजालमाकाशमध्ये
माणिक्यव्रातयन्तो मम मिहिरकरा मान्द्यमुन्मूलयन्तु ॥ १३॥
प्रत्यग्रोढाः प्रगल्भा युवतिपरिषदः प्रोषितप्राणनाथा
यस्मिन्नस्ताद्रिमौलेरुपरिमणिमयच्छत्रलीलां दधाने ।
सत्रासं सप्रसादं परिणतकरुणं लोचनान्युत्क्षिपन्ति
स्थेमानं स प्रियाणां घटयतु भगवान्पद्मिनीवल्लभो वः ॥ १४॥
अन्तर्द्यावापृथिव्योरधिरजनि भृतानन्धकारानुदारा-
न्विद्राव्य द्राक्तदीयैरिव जयदरुणं शोणितैर्यद्विधते ।
सायं प्रातश्च संध्याञ्जलिमवनिसुराः सम्प्रयच्छन्ति यस्मै
तस्मै कस्मैचिदेतन्मम परमहंसे देवतायै नमोऽस्तु ॥ १५॥
त्राणं त्रैविष्टपानां तरणमथ पयस्तोमताम्यत्तनूनां
नद्यन्तानामतर्क्यं त्रिगुणमयतया यत्त्रयाणां तुरीयम् ।
तत्तादृक्तुन्दिलायास्तरुणतरतमःसंततेरन्तकृत्त्वां
तेजस्त्रैलोक्यताम्रीकरणचतुरिम त्रायतां तीक्ष्णभानोः ॥ १६॥
गीर्वाणग्रामणीभिर्गगनतलगतैर्गीर्भिरुद्गीथगाभि-
र्गन्धर्वैश्चापि गीता गुणगणगारमोद्गारिगाथासहस्रैः ।
गाहं गाहं गृहालीरगतिकगदिनां गन्धयन्तो गदार्तिं
ग्लानिग्रामं ग्रसन्तां ग्रहरुचिगुरवो गोपतेर्गोविलासाः ॥ १७॥
जीवातुर्जाड्यजालाधिकजनितरुजां तप्तजाम्बूनदाभं
जङ्घालं जाङ्घिकानां जलधिजठरतो जृम्भमाणं जगत्याम् ।
जीवाधानं जनानां जनकमथ रुचो जीवजैवातृकादे-
र्ज्योतिर्जाज्वल्यमानं जलजहितकृतो जायतां वो जयाय ॥ १८॥
प्रातर्निर्गत्य गोभिः सह रुचिविषये संचरन्त्योऽह्नि ताभिः
साकं सायं निकायं प्रति पुनरपि याः सम्प्रयातुं त्वरन्ते ।
यासां दिव्यप्रभावस्त्रिजगदघवनश्रेणिदाहैकदावः
क्षेमं तन्वन्तु ता वः शिवमयवपुषो वासरेशस्य गावः ॥ १९॥
वृन्दैर्वृन्दारकाणां दनुतनुजनुषां रक्षसां च क्षपान्ते
गन्धर्वाणां धुरीणैः प्रणतमहिवरैः किंनरैर्यन्नरैश्च ।
विद्यां हृद्यां निजेभ्यो वितरदविरतं दीप्तिभिर्दीपयद्द्या-
मद्यादाद्यामविद्यामिदमुदयगिरेरुद्यदर्कस्य बिम्बम् ॥ २०॥
आ पाथोजासनायुः क्षणलवघटिकाद्यात्मकं कालचक्रं
प्राहुः पूर्वे पुराणागमविषयविदो यस्य लीलाविलासम् ।
भावानां षड्विकारानथ खलु गतिभिर्यश्च नित्यं प्रसूते
स प्रातः पौरुहूते परिलसति हरिन्मण्डले चण्डभानुः ॥ २१॥
अङ्गानि ब्राह्मणानामुषसि हिमभरासङ्गतो भङ्गुराणि
व्यालक्ष्य द्राक्प्रपाता रिपुजनितरुषेवारुणा वासवाशाम् ।
धर्मध्वंसोद्धुराणामखिलमपि कुलं जक्षतः शोभितक्ष्मा
यक्ष्माणं मे हरन्तु त्वरितमघभिदो भानवश्चण्डभानोः ॥ २२॥
विश्रान्तिं ब्राह्मणानां सुखमतिशयितं कामिनां स्थायिलीला-
मम्भोजानां प्रबोधं कुमुदपरिषदां यश्चिकीर्षन्दयार्द्रः ।
निर्यात्यन्तःसमुद्रं सकलमपि नृणां भारमाधाय वह्ना-
वह्नायाह्नामधीशः स भवतु भवतां भूयसे मङ्गलाय ॥ २३॥
द्रागाहत्य प्रभाते रजनिहिमवतः कौमुदीः कौतुकेन
प्रोद्यत्प्रौढानुकम्पाः पुनरपि खलु ये सायमुज्जीवयन्ति ।
आरुण्ये पल्लवानामथ गुरुचरणाः शक्रगोपावलीनां
ते युष्मद्भावलीनां दिनकरकिरणाः क्लान्तिमुन्मूलयन्तु ॥ २४॥
द्रागद्वैतं वितन्वंस्त्रिभुवनमभितः कौङ्कुमीनां द्युतीनां
न्यक्कुर्वन्मान्द्यमुद्रामथ रजनिरुजां कोकसीमन्तिनीनाम् ।
तन्द्रान्धानान्ध्यसिन्धोरिह वितततरैरुद्दधानं कराग्रैः
स्वान्तध्वान्तं धुनीतामुदयगिरिशिरश्चुम्बि मार्तण्डबिम्बम् ॥ २५॥
शुद्धं ब्रह्मालवालं प्रकृतिशबलितं यस्य मूलं करास्त-
द्द्राधिष्टस्वर्णशाखा विकसदरुणिमा पल्लवानां विलासः ।
नीलं व्योमालिमाला सुरसफलभरो धर्मकामार्थमोक्षाः
स श्रीमान्वाञ्छितार्थं वितरतु सततं सूर्यकल्पद्रुमो वः ॥ २६॥
नीहारं निम्नगाभ्यो निखिलनयनतो नीरजेभ्यश्च निद्रां
नीडेभ्यो नीडजानां निकरमुषसि ये नित्यमुद्वासयन्ति ।
सायं तेष्वेव तेषां पुनरपि घृणया कल्पयन्ते च वासं
ते वः सन्तु प्रयासं घृणिघनघृणयो हन्तुमाबद्धकक्षाः ॥ २७॥
संहृत्य द्राग्बहिःस्थं तिमिरकुलमथाभ्यन्तरं हर्तुकामा
रन्ध्रालीभिर्गृहाणामुदरमनुदिनं ये विशङ्कं विशन्ति ।
भानोस्तेऽमी हृषीकाण्यखिलतनुभृतां हर्षयन्तो हितेहा
हृद्रोगं संहरन्तां हिममहिमहृतो हेमहृद्याः करा नः ॥ २८॥
ब्रह्माण्डं मण्डयन्तो वियति वलयिनो मण्डलैरण्डजानां
पाखण्डान्दण्डयन्तो दनुतनुजनुषां शोभिताखण्डालाशाः ।
ये खण्डान्पौण्डरीकान्विदलयितुमथोद्दण्डपाण्डित्यभाज-
स्ते चण्डांशोरचण्डास्त्वरितमिह कराः पाण्डुतां खण्डयन्तु ॥ २९॥
ऊर्ध्वं पापावलिभ्यः स्थित इति जगदे यस्य वेदैरुदाख्या
निन्युः केऽप्यासनार्थं खलु सहचरतां नेत्रयोः पुण्डरीकम् ।
ओष्ठावृक्साम यस्य द्रुतकनकनिभश्मश्रुकेशाखिलाङ्गः
सोऽयं सर्वान्तरात्मा तव दिशतुतरां वासरेशः शिवानि ॥ ३०॥
इति पण्डितराजश्रीजगन्नाथविरचिता सुधालहरी समाप्ता ।
Found a Mistake or Error? Report it Now