Misc

सुमधुराष्टकम्

Sumadhurashtakam Sanskrit

Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| सुमधुराष्टकम् ||

तुलसी मधुरा दयणा मधुरा
रसना मधुरा कविता मधुरा ।
मधुरा नगरी मधुरेशपुरी
बडठाकुर ते पलभा मधुरा ॥ १॥

नेत्रे मधुरे हास्यं मधुरं
यात्रा मधुरा घोषो मधुरः ।
चलनं मधुरं वदनं मधुरं
करुणाकर ते वसनं मधुरम् ॥ २॥

मुकुटो मधुरः कपटं मधुरं
दृष्टिर्मधुरा सृष्टिर्मधुरा ।
रसनं मधुरं वसनं मधुरं
भुवनेश्वर ते निकटं मधुरम् ॥ ३॥

कूलं मधुरं शीलं मधुरं
यवनो मधुरो भुवनं मधुरम् ।
मधुरं मधुरं प्रणमामि सुरं
मधुमाधव ते निखिलं मधुरम् ॥ ४॥

यानं मधुरं मानं मधुरं
वेशो मधुरः केशो मधुरः ।
गृहिणी मधुरा विपणी मधुरा
पुरुषोत्तम ते रमणं मधुरम् ॥ ५॥

लीला मधुरा शाला मधुरा
विमला मधुरा कमला मधुरा ।
अशनं मधुरं शयनं मधुरं
कमलावर ते कवनं मधुरम् ॥ ६॥

हारो मधुरो वेरं मधुरं
चिकुरो मधुरो रसितं मधुरम् ।
विधुरं मधुरं त्वरितं मधुरं
परमेश्वर ते चरितं मधुरम् ॥ ७॥

श्रवणं मधुरं भजनं मधुरं
क्वणितं मधुरं भणितं मधुरम् ।
विषयो मधुरो हृदयं मधुरं
मधुसूदन ते भ्रमणं मधुरम् ॥ ८॥

इति प्रदीप्तनन्दशर्मविरचितं सुमधुराष्टकं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download सुमधुराष्टकम् PDF

सुमधुराष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App