|| श्रीसुरसुरानन्दाचार्याष्टकम् ||
रामानन्दाचार्यशिष्यं चानन्दभाष्यस्य शिक्षकम् ।
वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम् ॥ १॥
सीतारामञ्जनेयानां पूजकं जनपूजितम् ।
वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम् ॥ २॥
सर्वेश्वरस्य रामस्य कथाकीर्त्तनतत्परम् ।
वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम् ॥ ३॥
वादिहस्तिमृगेन्द्रं च सिद्धेन्द्रं सिद्धसेवितम् ।
वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम् ॥ ४॥
रामानन्दकुलोत्तंसं धर्मरक्षणदीक्षितम् ।
वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम् ॥ ५॥
भक्तिभागीरथीं दत्त्वा पापिनामपि मुक्तिदम् ।
वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम् ॥ ६॥
संस्कारैः पञ्जभिश्चाथ वैष्णवत्वविधायकम् ।
वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम् ॥ ७॥
ज्ञापकं सद्रहस्यानां योगीन्द्रं तपसां निधिम् ।
वन्दे सुरसुरानन्दं द्वारचार्यं जगद्गुरुम् ॥ ८॥
इति श्रीसुरसुरानन्दाचार्याष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now