|| सुवर्णमुक्तावलीस्तुतिः ||
अद्वैतमक्षरमनन्तमभक्तलोकै-
रज्ञेयतत्त्वमनुमेयमतीन्द्रियज्ञैः ।
अव्यक्तमर्चयदनुग्रहणात्तरूप-
मन्तःपुरं पुररिपोररुणं भजामः ॥ १॥
आताम्रमात्तधनुरङ्कुशपाशबाण-
मादर्शनिर्मलकपोलकमायताक्षम् ।
आनन्दचिन्मयमहः स्तुतमागमान्तै-
रार्याख्यमार्तिहरमाशु ममान्तरास्ताम् ॥ २॥
इन्द्रादिदिव्यपददामियतीत्यमेया-
मिन्दीवराक्षियुगलीमितिहासवेद्याम् ।
इन्दुप्रकाशवदनामिभराजयाता-
मिष्टार्थदां भगवतीमिह चिन्तयामि ॥ ३॥
ईशित्वमुख्यफलदां जगदीश्वरीं ता-
मीशानवामनिलयामियतीदृशीति ।
ईक्षावतामविषयं महदीहिताङ्घ्रि-
मीडे परां सुरगवीमहमीप्सितानाम् ॥ ४॥
उन्निद्रपङ्कजमुखीमुदितारुणाभा-
मुद्वृत्तपीवरकुचामुपगीयमानाम् ।
उच्चैस्तरामुपनिषद्भिरूपासकाना-
मुच्चावचेष्टफलहेतुमुमामुपासे ॥ ५॥
ऊरीकृतात्मचरणार्पितचित्तवृत्ति-
मूर्धस्थितां निगममौलिभिरूह्यमानाम् ।
ऊनेतरार्थफलदां परमेश्वरोढा-
मूढत्रिलोकभरणां जननीं प्रपद्ये ॥ ६॥
ऋग्भिर्यजुर्भिरपि सामभिरर्चकाना-
मृद्धिप्रदाननिरतामृतुहूयमानाम् ।
ऋत्विग्भिरध्वरमयीमृतसत्यनेत्रा-
मृज्वीमृभुक्षमहितामनुसन्दधामि ॥ ७॥
एकान्तभक्तिसुलभामतिमात्ररम्या-
मेकात पत्रफलदां सकृदर्चकानाम् ।
एतादृशीत्यविदितां निगमावलीभि-
रेकामनेकजननीं वयमाश्रयामः ॥ ८॥
ऐक्यं त्वया सह महेश्वरि ! लब्धुकामा
नैकाधिपत्यमवनेरपि कामयन्ते ।
ऐश्वर्यसिद्धिमतुलामपि याचमानो
जिह्रेमि केवलमहं सुखमैहिकं त्वाम् ॥ ९॥
ओतं समस्तभुवनं यदमेयशक्ता-
वोजस्वि भाति कलयन्ति तपांसि यस्याम् ।
ओकोऽप्ययातुमनसः समुपास्महे ता-
मोङ्कारदिव्यकमलाकरराजहंसीम् ॥ १०॥
औदार्यमाश्रितजनेषु तवातिमातृ
औपम्यहीनमिति सर्वजगत्यसिद्धम् । (सर्वजगत्प्रसिद्धम्)
औचित्यमम्ब ! किमिदं यदुपेक्षसे मा-
मौर्वाग्निदुर्विषहदैन्यविदूयमानम् ॥ ११॥
कल्याणमावहतु मे कमलाविरिश्च-
कान्ताकरान्तधृतचामरशोभिपार्श्वम् ।
कल्याणशैलनिलयं किमपि स्वरूपं
कोदण्डबाणसृणिपाशकरारविन्दम् ॥ १२॥
खेलन्तु मे मनसि खेचरमौलिमाला-
लोलन्मणीकिरणरञ्जितपादुकायाः ।
पादाब्जरेणुकणिकाः परदेवताया
वोढुं शिवः शिरसि या हि भिनत्ति गोत्रम् ॥ १३॥
गङ्गाधरप्रणयिनी चरणारविन्दे
शृङ्गारकन्दलितकान्तिझरीमरन्दे ।
भृङ्गायतां मम मनः पुरुषार्थकन्दे
तुङ्गानुभाविनि मिलन्मुनिहंसवृन्दे ॥ १४॥
घर्मान्तकालजलमुक्पटलीधुरीणे
घोरामयानिलदवानलतापभाजाम् ।
घस्रागमे प्रणतमोहतमस्ततीना-
मङ्घ्रिद्वये लगतु मे हृदयं शिवायाः ॥ १५॥
ङ्यावन्तवाच्यमितरच्च समस्तमेतद्
यस्था विभाति कलया समनुप्रविष्टम् ।
तस्यामनन्तसुखचिन्मयविग्रहायां
लीये गिरीशगुरुभाग्यपरम्परायाम् ॥ १६॥
चन्द्रार्धशेखरमिनेन्दुहुताशनेत्रं
चारुस्मितास्यमरुणं परमाणुमध्यम् ।
चामीकराभरणमुच्चकुचं मनोज्ञं
चित्ते चकास्तु तरुणं शिवकामि तेजः ॥ १७॥
छायामहीरुहि भवोषरमार्गभाजां (भवोपरमार्ग?)
छायाविधूतकुरुविन्द मणिप्रभायाम् ।
छायेव सज्जतु मणौ मम चेतनेयं
त्रैलोक्यमातरि महेश्वरवल्लभायाम् ॥ १८॥
जन्तोर्ललाटलिखितापि लिपिर्विधात्रा
जन्मान्तराचरितपातकसूचयित्री ।
जायेत दिव्यसुखदा यदपाङ्गदृष्ट्या
जायामुमां पुरभिदो हृदि मन्महे ताम् ॥ १९॥
झञ्झामरुद्भिरिव दुस्सहमेघमेलाः
शीर्यन्ति सर्वविपदः करुणाकटाक्षैः ।
यस्याः सकृत् प्रणतमातृपदाम्बुजाया(?) –
स्तां सर्वलोकजननीं शरणं प्रपद्ये ॥ २०॥
ञिद्यष्फङीष्षु विहितासु कतप्रकृत्या
यद्रूपमुल्लसति तत् खलु नाम यस्याः ।
ज्ञानप्रदं सकलरोगहरं पवित्रं
तां भावयामि मनसा हिमशैलकन्याम् ॥ २१॥
टङ्कायते विपुलपापमहोपलानां
यस्याः सकृच्चरणयोर्विहितः प्रणामः ।
तामाश्रये सुखकरीं जगतां त्रयाणां
निश्शेषदुःखशमनाथ सतीं भवानीम् ॥ २२॥
ठङ्कारकल्पमणिमध्यविराजमान-
ताटङ्करत्नयुगलायितपुष्पवद्भ्याम् ।
देदीप्यमान माणदर्पणतुल्यगण्डां
कामेश्वराङ्कनिलयां प्रणमामि गौरीम् ॥ २३॥
डोलायमानमनसां बहुचिन्तयालं
दारिद्र्यदुःखभवया भविनां यदीये ।
पादाम्बुजन्मनि रतिः सुरशाखिशाखा
सा पार्वती शरणमद्य ममास्तु देवी ॥ २४॥
ढक्काधरस्य नटतो नटनायकस्य
नृत्तानुकारचतुरां चतुरास्यनूताम् ।
आपन्नभक्तजनरक्षणजागरूका-
मम्बां भजे नतमनोरथकल्पवल्लीम् ॥ २५॥
णिङ्प्रत्ययोऽनुवदति प्रकृतेरिवार्थं
सृष्टिस्थितिक्षयकृतो मिलनेन यस्याः ।
सृष्टिस्थितिक्षयविधीन् विदधाति शम्भु-
स्तस्यै नमः प्रकृतये भुवनैकगत्यै ॥ २६॥
तन्वी तटित्तनुलता तरुणेन्दुवक्त्रा
तारुण्ययोगललिता तरलायताक्षी ।
ताम्राधरा तरलहारकुचान्तराला
तापापहा भगवती भवतात् पुरस्तात् ॥ २७॥
थुट् सस्य सन्निव परस्य परोपकाराद्
यत्सेवकस्य निटिलोपरि चन्द्रखण्डः ।
आगच्छति प्रणतवाञ्छित कल्पवल्ली-
माराध्महे मनसि हैमवती कुमारीम् ॥ २८॥
दीनावनैक निरतां भुवनाधिपत्य-
दानप्रवीणचरणाम्बुरुहोपहाराम् ।
देवीं दयार्द्रनयनां दधतीमुपासे
पाशेक्षुचापसुमबाणसृणीन् कराब्जैः ॥ २९॥
धन्यां यशस्यमतिपावनमामयघ्नं (कुन्यं यशस्य)
धैर्यावहं सुखकरं भवरोगहारि ।
धामप्रदं भयहरं चरितं यदीयं
धात्री धराधरसुता मम सा प्रसीदेत् ॥ ३०॥
नामावली नयति कीर्तयतो यदीया
नाकं नरानधिकदुष्कृतकारिणोऽपि ।
नारायणस्य सहजां सहजार्द्रभावां
नाथामि तां शुभगतिं नगराजपुत्रीम् ॥ ३१॥
पञ्चास्यमञ्चनिलयां परमात्मरूपां
पञ्चोपचारसरसां परिपूर्णकामाम् ।
पञ्चायुधाभयकरीं परचित्प्रकाशां
पञ्चापहारिचरितां गिरिजामुपासे ॥ ३२॥
फुल्लारविन्दवदने ! फलदे ! क्रियाणां
फालेक्षणार्जितसुकर्मफलस्वरूपे ! ।
कल्हारगन्धचिकुरे ! कुरुविन्दशोभे !
कारुण्यशालिनि ! विलोकय मामपाङ्गैः ॥ ३३॥
बालामृतांशुकलिकापरिशोभिफाले !
बालारुणारुणशरीरमरीचिमाले ! ।
त्रैलोक्यपालिनि ! विलोकयितुं शिवे ! मां
कालोऽयमेव करुणाशिशिरैः कटाक्षैः ॥ ३४॥
भद्राणि पश्यति भवत्यपिको जगत्यां (भवत्यधिपो)
भग्नो न जातु न बिभेति कुतश्चनायम् ।
भाग्येन योऽत्र भजते तव पादपद्मं
भक्तिर्दृढा भवतु मे त्वयि भक्तवश्ये ! ॥ ३५॥
मातङ्गमञ्जुलगते ! महनीयमूर्ते !
मन्दारवल्लि ! भजतां मनसाधिगम्ये ! ।
माये ! महेश्वरविलासिनि ! मा तनिष्ठा !
मायामहासरिति मज्जति मय्युपेक्षाम् ॥ ३६॥
या विश्वमात्ममहसा समनुप्रविष्टा
यामेव सर्वमनुयाति यया विभाति ।
यस्यै करोति समुदेति यतश्च रूपं
यस्या लयं व्रजति यत्रचसा त्वमेव ॥ ३७॥
राजा विभासति भवानि ! कटाक्षति श्री (राजापि दासति)
राजानति श्रितजनोरधनायि वाणी । (रसनाति वाणी)
रामा रमान्ति खलु देवति देवि गेहं
त्वत्सेवकस्य नहि किं मयि वस्तु किं वा ॥ ३८॥
लक्ष्यीकुरुष्व ललिते ! ललितैः कटाक्षै-
लक्ष्मीकरैर्झटिति मां लघयातु दैन्यम् । (लघयाशु)
लोकप्रसिद्धमहिमावलिलाघवं ते
मा भूदयं तव जनो भुवि सीदतीति ॥ ३९॥
वाचस्पतिर्भवति मृकतमोऽपि पङ्गु-
र्वारान्निधींस्तरन्ति दर्शयतेऽह्नि तारम् ।
अन्तेऽपि नाकमघवानतियाति देही
यत्पात्रमम्ब ! तव तं दिश मय्यपाङ्गम् ॥ ४०॥
शंसन्ति शङ्करि ! शशाङ्ककलावतं से !
शास्त्राणि सर्वजगतां भवतीं सवित्रीम् ।
शङ्कां विनायमघवानतिभक्तवन्मा-
मालोकयाम्ब ! समधीर्हि सुतेषु माता ॥ ४१॥
षड्गोऽपि साधुविमुखोऽपि षडास्यमातः !
षड्वैरिवर्गपरिभूतषडिन्द्रियोऽपि ।
षट्पङ्कजोपरिगते ! भवतीं प्रपन्नः
षट्कर्मगम्यपदमाश्रयते जनुष्मान् ॥ ४२॥
सत्त्वं रजस्तम इति प्रकृतेर्गुणैस्ते
सर्गस्थितिप्रमवसंस्थितहेतुभूतैः । (सर्गस्थितिप्रलय)
स्रष्टाविभुप्रभृतयो न विदुः स्वरूपं
सत्यं तवाम्ब ! नुतये भुवि कोऽलमन्यः ॥ ४३॥
हालामदारुणिमहारिहनुप्रदेशे !
हालाहलाशनसुखावहदिव्यमूर्ते ! ।
हर्यश्वमुख्यहरिदीशनुतेऽम्ब ! मास्मान्
हासीस्त्वदेकशरणानतिदीनभावान् ॥ ४४॥
क्षित्यादिभूतमयि ! किञ्चिदपि त्वदिच्छां
क्षेत्रज्ञरूपिणि ! विना चलितुं न शक्तम् ।
क्षन्तव्यमेव कृतमम्ब ! शुभाशुभं मे
क्ष्माभृत्सुते ! पतिनिदेशकरा हि भृत्याः ॥ ४५॥
एतां मया विरचितां वरदे ! “सुवर्ण-
मुक्तावली” तव मुदे जगदेकमातः ! ।
प्रत्यर्पयामि कृपया परिगृह्य कुर्या
वक्षोजकुङ्कुमरसैः सरसां समग्र्याम् ॥ ४६॥
(स्तुतिरियं आदिक्षान्तवर्णावल्या समारब्धत्वाच्चारुवर्ण-
कलितत्वाच्च द्वेधा सार्थनाम्नी ।)
Found a Mistake or Error? Report it Now