|| श्रीस्वामिनारायणध्यानस्तोत्रम् ||
आदौ प्रेमवतीवृषाङ्गजननं सन्नैकतीर्थाटनं
दुष्कर्मोपशमं च साधुशरणं सद्धर्मसंस्थापनम् ।
हिंसावर्जितभूरियज्ञकरणं मूर्तिप्रतिष्ठापनं
आर्यस्थापनमक्षराख्यगमनं सत्सङ्गिसज्जीवनम् ॥ १॥
श्रीमच्छारदपूर्णचन्द्रविलसत्स्मेराननं श्रीहरिं
तुङ्गे पीठवरे स्थितं परिवृतं सद्भक्तवृन्दैर्यथा ।
ताराभिर्विधुमर्च्यमानमुरुधा तैश्चन्दनैः कौसुमै-
हरैः शेखरपङ्किभिश्च हृदये शुक्लाम्बरं चिन्तये ॥ २॥
पातुं धर्ममधर्ममुत्खनयितुं श्रीभक्तिधर्माङ्गतो
जातायोत्तरकोशलेषु दयया सर्वेश्वरेशाय च ।
तृप्तिं वाक्यसुधारसैर्विदधते नैजैर्निजानां मुहु-
तस्मै श्री हरये नमोऽस्तु सहजानन्दाय सद्वर्णिने ॥ ३॥
स्नातं चन्दनचर्चितं निजजनैः पुष्पस्रजालङ्कृतं
प्रातः सूर्यमयूखसेवितमुखं श्रीचन्द्रशालोपरि ।
धृत्वा रोटकमेकपाणितलके भक्त्वान्यहस्तेन तं
नं प्रविलोक्य सेवकगणान् वन्दे सदा स्वामिनम् ॥ ४॥
स्त्रीपुंसैर्जयतल्पपत्तनबहिर्वाटीवटे वेष्टि
दो तूलपटोपबर्हणपटैर्जुष्टे चलन्मूर्तये ।
हस्ते कोमलकर्कटीफलयुगं धृत्वा विलोक्य स्वकान्
दन्तैश्चर्वणचातुरीं विदधते तस्मै नमः स्वामिने ॥ ५॥
श्रीजुष्टे वटपत्तने नृपपथे भूपस्य हर्म्याङ्गणे
नागेन्द्रो परिरूढमीडितपदं भूपेन भक्त्या भृशम् ।
नानारत्नमणीन्द्रमौक्तिकलतं हेमोद्भवं भूषणं
मूर्धाग्रे दधतं दधामि हृदि तं श्रीस्वामिनारायणम् ॥ ६॥
श्री धार्मिः पुरुषोत्तमो गुणनिधिर्यो ब्रह्मधामेश्वरो
मुक्तैर्जुष्टपदाम्बुजो वरतरैश्वर्यैरुपेतः प्रभुः ।
अन्तर्याम्यखिलात्मनां भवहरः सर्वेश्वराधीश्वर-
स्तं ध्यायाम्यवतारिणं मुनिपतिं श्रीस्वामिनारायणम् ॥ ७॥
धर्मस्त्याज्यो न कैश्चित्स्वनिगमविहितो वासुदेवे च भक्ति-
दिव्याकारे विधेया सितघनमहसि ब्रह्मणैक्यं निजस्य ।
निश्चित्यैवान्यवस्तुन्यणुमपि च रतिं सम्परित्यज्य सन्त-
स्तन्माहात्म्याय सेव्या इति वदति निजान् धार्मिको नीलकण्ठः ॥ ८॥
दृष्टाः स्पृष्टा नता वा कृतपरिचरणा भोजिताः पूजिता वा
सद्यः पुंसामघौघं बहुजनुजनितं घ्नन्ति ये वै समूलम् ।
प्रोक्ताः कृष्णेन ये वा निजहृदयसमा यत्पदे तीर्थजातं
तेषां मातः प्रसङ्गात् किमिह ननु सतां दुर्लभं स्यान्मुमुक्षोः ॥ ९॥
नारं सारं शुचिकनकबुट्टे परिदधन्-
निचोलं कौसुम्भं कटितटपटं चारुणरुचिम् ।
बहून् हारान् हैमान् वरवलयकेयूरमुकुटान्
हसद्वक्त्रेन्दुर्मे दृशि जयतु नारायणमुनिः ॥ १०॥
य ईशोऽपि स्वेच्छाधृतनृतनुरानन्दनिलयः
कृपासिन्धुर्बन्धुर्भवजलनिधौ दुःखितनृणाम् ।
सकामैर्निष्कामैरपि सुरनरैः सेव्यचरणं
नमाम्यात्मात्मानं तमहमिह नारायणमुनिम् ॥ ११॥
श्रीमद्ब्रह्मपुराधिपः श्रुतिशिरोभिर्गीयते योऽनिशं
नैकाण्डाधिपतिः क्षराक्षरपरः कारुण्यपाथोनिधिः ।
सर्वात्मा जगतां भवन्ति च यतो जन्मादयः सर्वत-
स्तं ध्यायामि हरिं सदा वृषभुवं श्रीस्वामिनारायणम् ॥ १२॥
यः पाञ्चाख्यपितुर्गृहे वृषपुरे देव्यां दयाशेवधिः
सर्वेशो भगवान् स्वयं सुदयया प्रादुर्बभूव प्रभुः ।
भूमावत्र समानयच्च परमां योऽनादिमुक्तस्थितिं
तं बापाशुभनामधेयमनिशं प्रेष्ठं मुदा चिन्तये ॥ १३॥
सङ्कल्पेन ननु स्वयं भगवतो भूमौ चचारात्र यो
यस्मै स्वीयभरं च धार्मिरखिलं प्रीत्या स्वयं दत्तवान् ।
ज्ञाता यश्च हरेः सदैव निखिलाभिप्रायकस्य स्वयं
वन्दे योगिवरं हि तं गुरुवरं गोपालबापाभिधम् ॥ १४॥
यं गोपालमुनीश्वरः स्वकपदे प्रीत्या समस्थापयद्
येनोपासनमत्र बोधितमतिश्रेष्ठं त्वपूर्वं हरेः ।
बापा श्रीमहिमापि येन परमः कौ बोधितः शर्मदो
वन्दे निर्गुणनामधेयमनिशं श्रीसद्गुरुं तं मुदा ॥ १५॥
यो गोपालमुनीन्द्रतुल्यमहिमा रेजे जगत्यामिह
पाश्रीः स्वमुखेन यं च निखिलाचार्योऽयमित्याह वै ।
बापा श्रीवचसां हि यः करुणया संलेखनं चाकरोद्
वन्दे श्रीश्वरसद्गुरुं गुरुवरं ह्यानन्ददं तं सदा ॥ १६॥
श्रीमद्ब्रह्मपुरेश्वराक्षरपरश्रीस्वामिनारायण-
सङ्कल्पेन भुवस्तले प्रकटितो बापास्वरूपश्च यः ।
सर्वाचार्यशिरोमणिर्गुणनिधिः श्रीस्वामिनारायण-
इति श्रीहरिस्वामिनारायणध्यानस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now