Download HinduNidhi App
Misc

श्री स्वामिनाथषट्कम्

Svaminath Ashatkam Sanskrit

MiscAshtakam (अष्टकम निधि)संस्कृत
Share This

|| श्रीस्वामिनाथषट्कम् ||

हे स्वामिनाथार्तबन्धो ।
भस्मलिप्ताङ्ग गाङ्गेय कारुण्यसिन्धो ॥

रुद्राक्षधारिन्नमस्ते रौद्ररोगं
हर त्वं पुरारेर्गुरोर्मे ।
राकेन्दुवक्त्रं भवन्तं माररूपं
कुमारं भजे कामपूरम् ॥

मां पाहि रोगादघोरात्
मङ्गलापाङ्गपातेन भङ्गात्स्वराणाम् ।
कालाच्च दुष्पाककूलात्
कालकालस्य सूनुं भजे क्रान्तसानुम् ॥

ब्रह्मादयो यस्य शिष्याः ब्रह्मपुत्रा
गिरौ यस्य सोपानभूताः ।
सैन्यं सुराश्चापि सर्वे
सामवेदादिगेयं भजे कार्तिकेयम् ॥

काषाय संवीतगात्रं कामरोगादि
संहारिभिक्षान्न पात्रम् ।
कारुण्यसम्पूर्णनेत्रं शक्तिहस्तं
पवित्रं भजे शम्भुपुत्रम् ॥

श्रीस्वामिशैले वसन्तं साधुसङ्घस्य
रोगान् सदा संहरन्तम् ।
ओङ्कारतत्त्वं वदन्तं शम्भुकर्णे
हसन्तं भजेऽहं शिशुं तम् ॥

स्तोत्रं कृतं चित्रचित्रं
दीक्षितानन्तरामेण सर्वार्थसिद्ध्यै ।
भक्त्या पठेत् यः प्रभाते
देवदेवप्रसादात् लभेताष्टसिद्धिम् ॥

इति श्रीस्वामिनाथषट्कं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री स्वामिनाथषट्कम् PDF

श्री स्वामिनाथषट्कम् PDF

Leave a Comment