Download HinduNidhi App
Misc

श्रीस्वामिनाथ षट्पदीस्तोत्रम्

Svaminath Shatpadi Stotram Sanskrit

MiscStotram (स्तोत्र निधि)संस्कृत
Share This

|| श्रीस्वामिनाथ षट्पदीस्तोत्रम् ||

श्रीसुब्रह्मण्याय नमः ।

श्रीस्वामिनाथं सुरवृन्दवन्द्यं
भूलोकभक्तान् परिपालयन्तम् ।
श्रीसह्यजातीरनिवासिनं तं
वन्दे गुहं तं गुरुरूपिणं नः ॥

श्रीस्वामिनाथं भिषजां वरेण्यं
सौन्दर्यगाम्भीर्यविभूषितं तम् ।
भक्तार्तिविद्रावणदीक्षितं तं
वन्दे गुहं तं गुरुरूपिणं नः ॥

श्रीस्वामिनाथं सुमनोज्ञबालं
श्रीपार्वतीजानिगुरुस्वरूपम् ।
श्रीवीरभद्रादि गणैस्समेतं
वन्दे गुहं तं गुरुरूपिणं नः ॥

श्रीस्वामिनाथं सुरसैन्यपालं
शूरादि सर्वासुरसूदकं तम् ।
विरिञ्चि विष्ण्वादि सुसेव्यमानं
वन्दे गुहं तं गुरुरूपिणं नः ॥

श्रीस्वामिनाथं शुभदं शरण्यं
वन्दारुलोकस्य सुकल्पवृक्षम् ।
मन्दारकुन्दोत्पलपुष्पहारं वन्दे
गुहं तं गुरुरूपिणं नः ॥

श्रीस्वामिनाथं विबुधाग्र्यवन्द्यं
विद्याधराराधितपादपद्मम् ।
अहोपयोवीवधनित्यतृप्तं वन्दे
गुहं तं गुरुरूपिणं नः ॥

श्रीरामकृष्णाख्ययतीन्द्रशिष्य
श्रीरामचन्द्रेण कृतात्मशुद्ध्यै ।
श्रीस्वामिनाथस्य हि षट्पदीयं
जीयात्तदीयप्रियदायिनी श्रीः ॥

इति श्रीस्वामिनाथषट्पदीस्तोत्रं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्रीस्वामिनाथ षट्पदीस्तोत्रम् PDF

श्रीस्वामिनाथ षट्पदीस्तोत्रम् PDF

Leave a Comment