|| श्रीतनतुलसीदासाचार्याष्टकम् ||
भक्तिप्रपत्तिदातारं जानकीजानकीशयोः ।
श्रीतनतुलसीदास द्वाराचार्यं नमाम्यहम् ॥ १॥
पञ्चसंस्कारकर्त्तारं शिष्याणां वैष्ण्वोत्तमम् ।
श्रीतनतुलसीदासं द्वाराचार्यं नमाम्यहम् ॥ २॥
रहस्यत्रयबोधस्य प्रदातारं महामुनिम्ज्ञ ।
श्रीतनतुलसीदासं द्वाराचार्यं नमाम्यहम् ॥ ३॥
रामानन्दयतीन्द्रस्य धर्माब्धिवर्धकं विधुम् ।
श्रीतनतुलसीदासं द्वाराचार्यं नमाम्यहम् ॥ ४॥
श्रीमदानन्दभाष्यस्य शिक्षकं भक्तरक्षकम् ।
श्रीतनतुलसीदासं द्वाराचार्यं नमाम्यहम् ॥ ५॥
जीवमायेशतत्त्वानां बोधक तत्त्ववित्तमम् ।
श्रीतनतुलसीदासं द्वाराचार्यं नमाम्यहम् ॥ ६॥
रामस्योपासनं दत्त्वा लोकानां मुक्तिदायिनम् ।
श्रीतनतुलसीदासं द्वाराचार्यं नमाम्यहम् ॥ ७॥
वादिसिद्धविजेतार ज्ञानवैराग्यवारिधिम् ।
श्रीतनतुलसीदासं द्वाराचार्यं नमाम्यहम् ॥ ८॥
इति श्रीतनतुलसीदासाचार्याष्टकं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now