Misc

श्रीतारानन्दगुर्वष्टकम्

Taranandagurvashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीतारानन्दगुर्वष्टकम् ||


श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।

अथ श्रीतारानन्दगुर्वष्टकम् ।
गङ्गातीरसुवासं तं गङ्गालीनतपस्विनम् ।
श्रीदयानन्दशिष्यार्यं तारानन्दगुरुं भजे ॥ १॥

ब्रह्मसूत्रप्रबोधं तं ब्रह्मत्वतत्त्वबोधकम् ।
ब्रह्मप्रकाशरूपं तं तारानन्दगुरुं भजे ॥ २॥

ब्रह्मविद्यासुबोधं तं तारकज्ञानमार्गिणम् ।
ब्रह्मज्ञानस्वलीनं तं तारानन्दगुरुं भजे ॥ ३॥

ब्रह्मनिष्ठापरं शान्तं संयतं यतभाषिणम् ।
ब्रह्मलीनं तपस्तीर्थं तारानन्दगुरुं भजे ॥ ४॥

एकान्तं एकसद्ध्यानं एकान्तध्यानसुव्रतम् ।
एकवस्तुसदालीनं तारानन्दगुरुं भजे ॥ ५॥

मातृप्रेमपरीवाहं बुभुक्षाहरमातरम् ।
आत्मतृष्णाप्रशामं तं तारानन्दगुरुं भजे ॥ ६॥

स्वागतस्मेरवक्त्रं तं हितभाषश्रमापहम् ।
श्रुतश्लोकप्रमोदं तं तारानन्दगुरुं भजे ॥ ७॥

हिमगद्यरसानन्दं गङ्गासहस्रमोदितम् ।
आशीर्वाददयापूरं तारानन्दगुरुं भजे ॥ ८॥

त्यागराजगुरुस्वामिशिष्यापुष्पानुतिस्थिरम् ।
तारानन्दगुरुं वन्दे स्तोत्रमेतत्तदर्पणम् ॥


शुभमस्तु

इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं
श्रीतारानन्दगुर्वष्टकं गुरौ समर्पितम् ।
ॐ शुभमस्तु ।

Found a Mistake or Error? Report it Now

Download श्रीतारानन्दगुर्वष्टकम् PDF

श्रीतारानन्दगुर्वष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App