Download HinduNidhi App
Misc

तुङ्गभद्रा स्तुतिः

Tungabhadra Stuti Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

|| तुङ्गभद्रा स्तुतिः ||

श्रीविभाण्डक उवाच ।
वराहदेहसम्भूते गिरिजे पापभञ्जिनि ।
दर्शनान्मुक्तिदे देवि महापातकिनामपि ॥ १ ॥

वाग्देवी त्वं महालक्ष्मीः गिरिजासि शची तथा ।
प्रभा सूर्यस्य देवेशि मरीचिस्त्वं कलानिधेः ॥ २ ॥

पर्जन्यस्य यथा विद्युद्विष्णोर्माया त्वमेव हि ।
तृणगुल्मलतावृक्षाः सिद्धा देवा उदीरिताः ॥ ३ ॥

दृष्टा स्पृष्टा तथा पीता वन्दिता चावगाहिता ।
मुक्तिदे पापिनां देवि शतकृत्वो नमो नमः ॥ ४ ॥

माण्डव्य उवाच ।
नमस्ते तुङ्गभद्रायै नमस्ते हरिदेहजे ।
नमस्ते वेदगिरिजे श्रीशैलपदभाजिनि ॥ १ ॥

विष्णुमाये विष्णुरूपे विष्वक्सेनप्रियेऽनघे ।
विश्वम्भरे विशालाक्षि विलसत्कूलसम्युते ।
विलोकय विनोदेन कुरु मां विगतैनसम् ॥ २ ॥

त्वद्वातवीजिता भूता विमलाघा भवन्ति हि ।
दर्शनात् स्पर्शनात् पानाद्वक्तव्यं किं नु विद्यते ॥ ३ ॥

दृष्ट्वा जन्मशतं पापं स्पृष्ट्वा जन्मशतत्रयम् ।
पीत्वा जन्मसहस्राणां पापं नाशय मङ्गले ॥ ४ ॥

पुत्रान् दारान् धनं धान्यं पशुवस्त्राणि ये नराः ।
कामान्मज्जनशीलास्ते यान्ति तत्फलमञ्जसा ।
भुक्त्वा यान्ति हरेः स्थानं यावदाचन्द्रतारकम् ॥ ५ ॥

इति ब्रह्माण्डपुराणे तुङ्गभद्रामाहात्म्ये श्री तुङ्गभद्रा स्तुतिः ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download तुङ्गभद्रा स्तुतिः PDF

तुङ्गभद्रा स्तुतिः PDF

Leave a Comment