Misc

श्रीविश्वमङ्गलं श्रीवामदेवकवचम्

Vamadevakavacham Sanskrit Lyrics

MiscKavach (कवच संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीविश्वमङ्गलं श्रीवामदेवकवचम् ||

ॐ श्रीगणेशाय नमः ।
ॐ श्रीदेव्यै सदासुफलदायिन्यै नमः ।
श्रीभैरव उवाच
अथ वक्ष्यामि देवेशि कवचं मन्त्रगर्भकम् ।
मूलमन्त्रस्वरूपं च विश्वमङ्गलकाभिधम् ॥ १॥

सर्वसम्पत्प्रदं चैव वामदेवस्य पार्वति ।
गुह्यातिगुह्यं परमं मूलविद्यामयं ध्रुवम् ॥ २॥

परमार्थप्रदं नित्यं भोगमोक्षैककारणम् ।
महाभयहरं देवि महैश्वर्यप्रदं शिवे ॥ ३॥

कवचस्यास्य देवेशि ऋषिर्भैरव ईरितः ।
अनुष्टुप्छन्द इत्युक्तं वामदेवश्च देवता ॥ ४॥

इन्द्रो बीजं पराशक्तिः तारं कीलकमीरितम् ।
धर्मार्थकाममोक्षार्थविनियोग इतीरितः ॥ ५॥

अस्य श्रीवामदेवकवचस्य भैरवऋषिः, अनुष्टुप्छन्दः, श्रीवामदेवोदेवता ।
इन्द्रो बीजं, पराशक्तिः, तारं कीलकृम्म् ।
धर्मार्थकाममोक्षार्थे कवचपाठे विनियोगः ।
भैरवऋषये नमः – शिरसि । अनुष्टुप्छन्दसे नमः – मुखे ।
श्रीवामदेवदेवतायै नमः – हॄदि । इन्द्रो बीजाय नमो – गुह्ये ।
पराशक्तये नमः – पादयोः । तारं कीलकाय नमः – नाभौ ।
कवचपाठे विनियोगः – सर्वाङ्गे ।
अथ ध्यानम् ।
वरक्षमालाऽभयढक्कहस्तः सरोजकिञ्जल्कसमानवर्णः ।
त्रिलोचनश्चारुचतुर्मुखो मां पयादुदीच्यां दिशि वामदेवः ॥

ॐ वां शिरः पातु मे देवो ललाटं ह्रीं सदा मम ।
वामदेवः प्रदेशं मे बीजद्वयस्वरूपिणम् ॥ १॥

हुं पातु लोचनद्वन्द्वं मुखं ह्रीं बीजरूपिणम् ।
ह्रीङ्कारो कण्ठदेलं ह्रीं पातु स्कन्धयोर्मम ॥ २॥

वामदेवो सदा पातु भुजौ सव्येतरौ मम ।
ह्रीङ्कारो हृदयं पातु ह्रीं सोऽव्यादुदरं मम ॥ ३॥

ह्रीं नाभौ पातु सततं देवो ह्रिङ्काररूपकः ।
अव्यान्मे लिङ्गदेशं च ह्रिं रक्षेद्गुददेशके ॥ ४॥

चन्द्रबीजं पातु पादौ नमः पादतलं मम ।
दशाक्षरः पातु नित्यं सर्वाङ्गं मम सर्वदा ॥ ५॥

अन्तर्बहिश्च मां पातु वामदेवश्च भैरवः ।
भगलिङ्गामृतप्रीतो सर्वसन्धिषु रक्षतु ॥ ६॥

शङ्करो मां सदा पातु ममेन्द्रियसमानकम् ।
शिवो ममेन्द्रियार्थेषु रक्षयेदखिलेष्वपि ॥ ७॥

वामदेवःपश्चिमेऽव्यादक्षिणे देवदत्तकः ।
भगलिङ्गामृतप्रीतो भगलिङ्गस्वरूपकः ॥ ८॥

उदीच्यामूर्ध्वगः पातु पूर्वे संहारभैरवः ।
दिगम्बरः श्मशानस्थः पातु दिक्षु विदिक्षु च ॥ ९॥

घोररावाट्टाट्टहासो मे शिवो त्वं सुशोभितः ।
पातु विघ्नेषु घोरेषु जगद्रुधिरभक्षकः ॥ १०॥

करालवदनो घोरः प्रेतकोलाहलप्रियः ।
मुक्तकेशः सुकेशश्च मदिरोन्मत्तभैरवः ॥ ११॥

देवदत्तो महोग्रश्च सदाश्मशानगः परः ।
शिरसः पादपर्यन्तं देवदत्तोऽवतात्सदा ॥ १२॥

इतीदं कवचं दिव्यं साधकानां सुदुर्लभम् ।
मन्त्रसिद्धिकरं साक्षान्महादेवस्य भाषितम् ॥ १३॥

इदं कवचमज्ञात्वा योजयेद्वामदेवकः ।
शतलक्षप्रजप्तोऽपि तस्य देवो न सिद्ध्यते ॥ १४॥

स शस्त्रघातमाप्नोति सोऽचिरन्मृतुमाप्नुयात् ।
मन्त्रेण म्रियते योगी रक्षयेत् कवचं परम् ॥ १५॥

त्रिसन्ध्यं पठनादस्य कवचस्य तु पार्वति ।
सिद्धयोऽष्टौ करे तस्य महेश इव चापरः ॥ १६॥

रूपेण स्मरतुल्योऽसौ कामिनीनां प्रियो भवेत् ।
तस्मादेतत्सुकवचं न देयं यस्यकस्यचित् ।
भक्तियुक्ताय शान्ताय दानशीलाय धीमते ॥ १७॥

यो ददाति सुशिष्येभ्यस्तस्य वश्यं जगद्भवेत् ।
गुह्याद्गुह्यतरं गुह्यं महारुद्रेण भाषितम् ॥ १८॥

यस्य कण्ठगतं तस्य करस्थाः सर्वसिद्धयः ।
श्रीविश्वमङ्गलं नाम कवचं न प्रकाशयेत् ।
रहस्यातिरहस्यं च गोपनीयं स्वयोनिवत् ॥ १९॥

इति श्रीरुद्रयामलेतन्त्रे श्रीविश्वमङ्गलं नाम वामदेवकवचं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download श्रीविश्वमङ्गलं श्रीवामदेवकवचम् PDF

श्रीविश्वमङ्गलं श्रीवामदेवकवचम् PDF

Leave a Comment

Join WhatsApp Channel Download App