वरदगणेशकवचम् PDF संस्कृत
Download PDF of Varadaganeshakavacham Sanskrit
Shri Ganesh ✦ Kavach (कवच संग्रह) ✦ संस्कृत
वरदगणेशकवचम् संस्कृत Lyrics
|| वरदगणेशकवचम् ||
श्रीगणेशाय नमः ।
श्रीभैरव उवाच ।
महादेवि गणेशस्य वरदस्य महात्मनः ।
कवचं ते प्रवक्ष्यामि वज्रपञ्जरकाभिधम् ॥ १॥
अस्य श्रीमहागणपतिवज्रपञ्जरकवचस्य श्रीभैरव ऋषिः ,
गायत्र्यं छन्दः , श्रीमहागणपतिर्देवता , गं बीजं ,
ह्रीं शक्तिः , कुरुकुरु कीलकं , वज्रविद्यादिसिद्ध्यर्थे
महागणपतिवज्रपञ्जरकवचपाठे विनियोगः ।
ध्यानम् ।
विघ्नेशं विश्ववन्द्यं सुविपुलयशसं लोकरक्षाप्रदक्षं
साक्षात् सर्वापदासु प्रशमनसुमतिं पार्वतीप्राणसूनुम् ।
प्रायः सर्वासुरेन्द्रैः ससुरमुनिगणैः साधकैः पूज्यमानं
कारुण्येनान्तरायामितभयशमनं विघ्नराजं नमामि ॥ २॥
ॐश्रींह्रींगं शिरः पातु महागणपतिः प्रभुः ।
विनायको ललाटं मे विघ्नराजो भ्रुवौ मम ॥ ३॥
पातु नेत्रे गणाध्यक्षो नासिकां मे गजाननः ।
श्रुति मेऽवतु हेरम्बो गण्डौ मोदकाशनः ॥ ४॥
द्वैमातरो मुखं पातु चाधरौ पात्वरिन्दम् ।
दन्तान् ममैकदन्तोऽव्याद् वक्रतुण्डोऽवताद् रसाम् ॥ ५॥
गाङ्गेयो मे गलं पातु स्कन्धौ सिंहासनोऽवतु ।
विघ्नान्तको भुजौ पातु हस्तौ मूषकवाहनः ॥ ६॥
ऊरू ममावतान्नित्यं देवस्त्रिपुरघातनः ।
हृदयं मे कुमारोऽव्याञ्जयन्तः पार्श्वयुग्मकम् ॥ ७॥
प्रद्युम्नो मेऽवतात् पृष्ठं नाभिं शङ्करनन्दनः ।
कटिं नन्दिगणः पातु शिश्नं वीरेश्वरोऽवतु ॥ ८॥
मेढ्रे मेऽवतु सौभाग्यो भृङ्गिरीटी च गुह्यकम् ।
विराटकोऽवतादूरू जानू मे पुष्पदन्तकः ॥ ९॥
जङ्घे मम विकर्तोऽव्याद् गुल्फावन्त्यगणोऽवतु ।
पादौ चित्तगणः पातु पादाधो लोहितोऽवतु ॥ १०॥
पादपृष्ठं सुन्दरोऽव्याद् नूपुराढ्यो वपुर्मम ।
विचारो जठरं पातु भूतानि चोग्ररूपकः ॥ ११॥
शिरसः पादपर्यन्तं वपुः सुप्तगणोऽवतु ।
पादादिमूर्धपर्यन्तं वपुः पातु विनर्तकः ॥ १२॥
विस्मारितं तु यत् स्थानं गणेशस्तत् सदावतु ।
पूर्वे मां ह्रीं करालोऽव्यादाग्रेये विकरालकः ॥ १३॥
दक्षिणे पातु संहारो नैरृते रुरुभैरवः ।
पश्चिमे मां महाकालो वायौ कालाग्निभैरवः ॥ १४॥
उत्तरे मां सितास्युऽव्यादैशान्यामसितात्मकः ।
प्रभाते शतपत्रोऽव्यात् सहस्रारस्तु मध्यमे ॥ १५॥
दन्तमाला दिनान्तेऽव्यान्निशि पात्रं सदावतु ।
कलशो मां निशीथेऽव्यान्निशान्ते परशुस्तथा ॥ १६॥
सर्वत्र सर्वदा पातु शङ्खयुग्मं च मद्वपुः ।
ॐॐ राजकुले हहौं रणभये ह्रींह्रीं कुद्यूतेऽवतात्
श्रींश्रीं शत्रुगृहे शशौं जलभये क्लींक्लीं वनान्तेऽवतु ।
ग्लौंग्लूंग्लैंग्लंगुं सत्वभीतिषु महाव्याध्यार्तिषु ग्लौंगगौं
नित्यं यक्षपिशाचभूतफणिषु ग्लौंगं गणेशोऽवतु ॥ १७॥
इतीदं कवचं गुह्यं सर्वतन्त्रेषु गोपितम् ।
वज्रपञ्जरनामानं गणेशस्य महात्मनः ॥ १८॥
अङ्गभूतं मनुमयं सर्वाचारैकसाधनम् ।
विनानेन न सिद्धिः स्यात् पूजनस्य जपस्य च ॥ १९॥
तस्मात् तु कवचं पुण्यं पठेद्वा धारयेत् सदा ।
तस्य सिद्धिर्महादेवि करस्था पारलौकिकी ॥ २०॥
यंयं कामयते कामं तं तं प्राप्नोति पाठतः ।
अर्धरात्रे पठेन्नित्यं सर्वाभीष्टफलं लभेत् ॥ २१॥
इति गुह्यं सुकवचं महागणपतेः प्रियम् ।
सर्वसिद्धिमयं दिव्यं गोपयेत् परमेश्वरि ॥ २२॥
॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये महागणपतिकवचं समाप्तम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowवरदगणेशकवचम्
READ
वरदगणेशकवचम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
