|| वरदानदीतत्तीरस्थमधुकेश्वरस्तुतिः ||
वरदानपरा मनोहरा वरदारिद्र्यहरा सदादरा ।
वरदाख्यनदीविशुद्धये वरदा मेऽस्त्वपि मुक्तिसिद्धये ॥ १॥
कृष्णासखी या तुङ्गभद्रया कृष्णां गता कृष्णातनुं सुभद्रया ।
सैषा धुनीयं वरदाह्वयाऽभया भयानकाल्पातु रिपोरघाह्वयात् ॥ २॥
यत्तीरे विहिताः सवाश्च मुनिभिः प्राज्ञैर्वसिष्ठादिभि-
र्यन्नीरेक्षणतोऽप्यशुद्धमतिभिर्लब्धा गतिः पापिभिः ।
सेयं सद्गतिदाख्ययापि वरदा श्रेयस्तपोवृद्धिदा
मन्दानामपि पारदास्तु वरदा मोदास्पदा नः सदा ॥ ३॥
जयन्त्याख्या शुभा तस्या वरीवर्ति तटे पुरी ।
जयन्तीह महेन्द्राद्या मधुकेशपुरःसरा ॥ ४॥
शकिन्त मधुं हन्तुमदादुमाधवः पुरात्र यस्मै खलु चाद्य माधवः ।
संस्थापयामास वसन्पुरः स्वयं लिङ्गं मनोहृन्मधुकेश्वराह्वयम् ॥ ५॥
इन्द्रादयः स्वस्वहरित्सु संस्थिता यत्रावताराश्च मधुद्विषः स्थिताः ।
शम्भोर्गणाश्चाखिललोकमङ्गला वामप्रदेशेऽपि च सर्वमङ्गला ॥ ६॥
प्रत्याहिका यत्र वरार्चनोत्सवा यानादयो यत्र च मासिकोत्सवाः ।
चैत्रे रथाद्या अपि वार्षिकोत्सवा भवन्ति चोर्जे वरदीपकोत्सवाः ॥ ७॥
एवम्भूतो महादेवो नाम्ना यो मधुकेश्वरः ।
त्रिकालमर्चितो भक्तानभीष्टार्थं प्रयच्छति ॥ ८॥
(गोमूत्रिकाबन्धः)भवो मारहरः सोमप्रियोऽवतु सुराघहा ।
शिवो वरकरः सामगेयो जन्तुदरापहा ॥ ९॥
(हारबन्धः) हर सुरवर समस्तमघं मम स्मरहर मामव प्रवरावर ।
वरकर गरलाद शर्वशमीश शङ्करधरवर जडजद्विजभृज्जय ॥ १०॥
इति श्रीवासुदेवानन्दसरस्वतीविरचिता
वरदानदीतत्तीरस्थमधुकेश्वरस्तुतिः समाप्ता ।
Found a Mistake or Error? Report it Now