वाराही कवचम् PDF संस्कृत
Download PDF of Varahi Kavach Sanskrit
Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
वाराही कवचम् संस्कृत Lyrics
|| वाराही कवचम् ||
ध्यात्वेन्द्रनीलवर्णाभां चन्द्रसूर्याग्निलोचनाम् ।
विधिविष्णुहरेन्द्रादि मातृभैरवसेविताम् ॥ 1 ॥
ज्वलन्मणिगणप्रोक्तमकुटामाविलम्बिताम् ।
अस्त्रशस्त्राणि सर्वाणि तत्तत्कार्योचितानि च ॥ 2 ॥
एतैः समस्तैर्विविधं बिभ्रतीं मुसलं हलम् ।
पात्वा हिंस्रान् हि कवचं भुक्तिमुक्तिफलप्रदम् ॥ 3 ॥
पठेत्त्रिसन्ध्यं रक्षार्थं घोरशत्रुनिवृत्तिदम् ।
वार्ताली मे शिरः पातु घोराही फालमुत्तमम् ॥ 4 ॥
नेत्रे वराहवदना पातु कर्णौ तथाञ्जनी ।
घ्राणं मे रुन्धिनी पातु मुखं मे पातु जम्भिनी ॥ 5 ॥
पातु मे मोहिनी जिह्वां स्तम्भिनी कण्ठमादरात् ।
स्कन्धौ मे पञ्चमी पातु भुजौ महिषवाहना ॥ 6 ॥
सिंहारूढा करौ पातु कुचौ कृष्णमृगाञ्चिता ।
नाभिं च शङ्खिनी पातु पृष्ठदेशे तु चक्रिणि ॥ 7 ॥
खड्गं पातु च कट्यां मे मेढ्रं पातु च खेदिनी ।
गुदं मे क्रोधिनी पातु जघनं स्तम्भिनी तथा ॥ 8 ॥
चण्डोच्चण्डश्चोरुयुग्मं जानुनी शत्रुमर्दिनी ।
जङ्घाद्वयं भद्रकाली महाकाली च गुल्फयोः ॥ 9 ॥
पादाद्यङ्गुलिपर्यन्तं पातु चोन्मत्तभैरवी ।
सर्वाङ्गं मे सदा पातु कालसङ्कर्षणी तथा ॥ 10 ॥
युक्तायुक्तस्थितं नित्यं सर्वपापात्प्रमुच्यते ।
सर्वे समर्थ्य संयुक्तं भक्तरक्षणतत्परम् ॥ 11 ॥
समस्तदेवता सर्वं सव्यं विष्णोः पुरार्धने ।
सर्वशत्रुविनाशाय शूलिना निर्मितं पुरा ॥ 12 ॥
सर्वभक्तजनाश्रित्य सर्वविद्वेषसंहतिः ।
वाराही कवचं नित्यं त्रिसन्ध्यं यः पठेन्नरः ॥ 13 ॥
तथा विधं भूतगणा न स्पृशन्ति कदाचन ।
आपदः शत्रुचोरादि ग्रहदोषाश्च सम्भवाः ॥ 14 ॥
माता पुत्रं यथा वत्सं धेनुः पक्ष्मेव लोचनम् ।
तथाङ्गमेव वाराही रक्षा रक्षाति सर्वदा ॥ 15 ॥
इति श्रीरुद्रयामलतन्त्रे श्री वाराही कवचम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowवाराही कवचम्

READ
वाराही कवचम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
