Misc

श्रीवेङ्कटेश्वराष्टोत्तरशतनामस्तोत्रम् ३

Venkatesha3 Stotram Sanskrit Lyrics

Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीवेङ्कटेश्वराष्टोत्तरशतनामस्तोत्रम् ३ ||

॥ श्रीः ॥

॥ सिद्धाः ऊचुः॥

भगवन् वेङ्कटेशस्य नाम्नामष्टोत्तरं शतम् ।
अनुब्रूहि दयासिन्धो क्षिप्रसिद्धिप्रदं नृणाम् ॥ १॥

॥ नारद उवाच॥

सावधानेन मनसा श‍ृन्वन्तु तदिदं शुभम् ।
जप्तं वैखानसैः पूर्वं सर्वसौभाग्यवर्धनम् ॥ २॥

ओङ्कारपरमार्थश्च नरनारायणात्मकः ।
मोक्षलक्ष्मीप्राणकान्तो वेङ्कटाचलनायकः ॥ ३॥

करुणापूर्णहृदयः टेङ्कारजपसौख्यदः ।
शास्त्रप्रमाणगम्यश्च यमाद्यष्टाङ्गगोचरः ॥ ४॥

भक्तलोकैकवरदो वरेण्यो भयनाशनः ।
यजमानस्वरूपश्च हस्तन्यस्तसुदर्शनः ॥ ५॥

रमावतारमङ्गेशो णाकारजपसुप्रियः ।
यज्ञेशो गतिदाता च जगतीवल्लभो वरः ॥ ६॥

रक्षस्सन्दोहसंहर्त्रा वर्चस्वी रघुपुङ्गवः ।
दानधर्मपरो याजी घनश्यामलविग्रः ॥ ७॥

हरादिसर्वदेवेड्यो रामो यदुकुलाग्रणीः ।
श्रीनिवासो महात्मा च तेजस्वी तत्त्वसन्निधिः ॥ ८॥

त्वमर्थलक्ष्यरूपश्च रूपवान् पावनो यशः ।
सर्वेशो कमलाकान्तो लक्ष्मीसल्लापसम्मुखः ॥ ९॥

चतुर्मुखप्रतिष्टाता राजराजवरप्रदः ।
चतुर्वेदशिरोरत्नं रमणो नित्यवैभवः ॥ १०॥

दासवर्गपरित्राता नारदादिमुनिस्तुतः ।
यादवाचलवासी च खिद्यद्भक्तार्तिभञ्जनः ॥ ११॥

लक्ष्मीप्रसादको विष्णुः देवेशो रम्यविग्रः ।
माधवो लोकनाथश्च लालिताखिलसेवकः ॥ १२॥

यक्षगन्धर्ववरदः कुमारो मातृकार्चितः ।
रटद्पालकपोषी च शेषशैलकृतस्थलः ॥ १३॥

षाड्गुण्यपरिपूर्णश्च द्वैतदोषनिवारणः ।
तिर्यग्जन्त्वर्चिताङ्घ्रिश्च नेत्रानन्दोत्सवः ॥ १४॥

द्वादशोत्तमलीलश्च दरिद्रजनरक्षकः ।
शत्रुकृत्यादिभीतिघ्नो भुजङ्गशयनप्रियः ॥ १५॥

जाग्रद्रहस्यावासश्च यः शिष्टपरिपालकः ।
वरेण्यः पूर्णबोधश्च जन्मसंसारभेषजम् ॥ १६॥

कार्तिकेयवपुर्धारी यतिशेखरभावितः ।
नरकादिभयध्वंसी रथोत्सवकलाधरः ॥ १७॥

लोकार्चामुख्यमूर्तिश्च केशवाद्यवतारवान् ।
शास्त्रश्रुतानन्तलीलो यमशिक्षानिबर्हणः ॥ १८॥

मानसंरक्षणपरः इरिणाङ्कुरधान्यदः ।
नेत्रहीनाक्षिदायी च मतिहीनमतिप्रदः ॥ १९॥

हिरण्यदानग्राही च मोहजालनिकृन्तनः ।
दधिलाजाक्षतार्च्यश्च यातुधानविनाशनः ॥ २०॥

यजुर्वेदशिखागम्यो वेङ्कटो दक्षिणास्थितः ।
सारपुष्करणीतीरे रात्रौदेवगणार्चितः ॥ २१॥

यत्नवत्फलधाता श्रीञ्जपाद्धनवृद्धिकृत् ।
क्लीङ्कारजापी काम्यार्थप्रदानदयान्तरः ॥ २२॥

स्वसर्वसिद्धिसन्धाता नमस्कर्तुरभीष्टदः ।
मोहिताखिललोकश्च नानारूपव्यवस्थितः ॥ २३॥

राजीवलोचनो यज्ञवराहो गणवेङ्कटः ।
तेजोराशीक्षणस्स्वामी हार्दाविद्यादिवारणः ॥ २४॥

इति श्रीवेङ्कटेशस्य नाम्नामष्टोत्तरं शतम् ।
प्रातःप्रातस्समुत्ताय यः पटेद्भक्तिमान्नरः ॥ २५॥

सर्वेष्टार्थानवाप्नोति वेङ्कतेशप्रसादतः ॥ २६॥

॥ इति श्रीसनत्कुमारसंहितान्तर्गतं
श्रीवेङ्कटेशाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥

Found a Mistake or Error? Report it Now

Download श्रीवेङ्कटेश्वराष्टोत्तरशतनामस्तोत्रम् ३ PDF

श्रीवेङ्कटेश्वराष्टोत्तरशतनामस्तोत्रम् ३ PDF

Leave a Comment

Join WhatsApp Channel Download App