Misc

श्रीवेणुगोपालस्वामिनः मङ्गलाष्टकम्

Venugopalamangalashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीवेणुगोपालस्वामिनः मङ्गलाष्टकम् ||

ॐ गं गणपतये नमः ।
ॐ श्री वागीश्वर्यै नमः ॥

अथ श्रीमद्धर्मपुरीवासिनः श्री वेणुगोपालस्वामिनः मङ्गळाष्टकम् ।
दक्षिणे सत्यभामा च वामे ते रुक्मिणी विभो!
धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ १॥

वेणुभूषितहस्ताय वेणुगानप्रियात्मने ।
धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ २॥

पीताम्बराञ्चितायास्मै प्रणतः क्लेशनशिने ।
धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ३॥

भास्वत्कौस्तुभवत्साय भक्ताभीष्टप्रदायिने ।
धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ४॥

धृतचक्रगदायास्मै हृतकंसादिरक्षसे ।
धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ५॥

आदिमध्यान्तहीनाय त्रिगुणात्मकरूपिणे ।
धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ६॥

परब्रह्मस्वरूपाय सच्चिदानन्दरूपिणे ।
धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ७॥

विश्वनाथनुतायास्मै विश्वरक्षणहेतवे ।
धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ८॥

इति कोरिडे विश्वनाथ शर्मणाविरचितं श्री वेणुगोपालस्वामिनः मङ्गळाष्टकं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीवेणुगोपालस्वामिनः मङ्गलाष्टकम् PDF

श्रीवेणुगोपालस्वामिनः मङ्गलाष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App