Misc

श्रीविद्यातीर्थपदारविन्दस्तुतिः

Vidyatirthapadaravindastutih Sanskrit

Misc ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीविद्यातीर्थपदारविन्दस्तुतिः ||

संसाराम्बुधिमग्नलोकविततेः पोतं यदाहुर्विदः
कंसारातिपुरारिभेदमतिहृत्स्वार्चापराणां चिरम् ।
विद्यारण्यमुखैर्महामुनिवरैः सम्पूजितं तन्मुदा
विद्यातीर्थपदारविन्दयुगलं वन्दे जगत्पावनम् ॥ १॥

हृद्या पद्यततिर्मुखाब्जकुहराद्यत्पूजकानां जवा-
न्निर्गच्छत्यमरापगेव सरसा स्वच्छापि तद्भक्तितः ।
तुङ्गाभिख्यनदीतटान्तविलसर्च्छ्रीमन्दिरे संस्थितं
विद्यातीर्थपदारविन्दयुगलं वन्दे जगत्पावनम् ॥ २॥

श‍ृङ्गाभिख्यमहीधरेन्द्रनिवसल्लोकान्वराकानपि
व्याजात्प्राप्तनिजेक्षणात्करुणया पुण्यौघयुक्तांस्तथा ।
कुर्वद्भक्तिभृतान्तरङ्गकमलानप्याशु यत्तन्मुदा
विद्यातीर्थपदारविन्दयुगलं वन्दे जगत्पावनम् ॥ ३॥

यत्प्रीतिप्रतिपित्सुभिर्हरिहराभिख्याद्यभूपालकै-
र्विप्रेभ्यः श्रुतिविद्भ्य एव बहवो ग्रामा विसृष्टाः पुरा ।
तद्राजव्रजवन्द्यमानमनिशं राजाधिराजत्वदं
विद्यातीर्थपदारविन्दयुगलं वन्दे जगत्पावनम् ॥ ४॥

यत्प्रीत्यर्थमतीव सुन्दरतमं श्रीयन्त्रतुल्यं गृहं
बुक्कक्ष्मापतिवंशजेन धरणीशानेन निर्मापितम् ।
तन्नम्राखिलभाग्यदानचतुरं भूदेवभाग्योदयं
विद्यातीर्थपदारविन्दयुगलं वन्दे जगत्पावनम् ॥ ५॥

हंसाद्यैर्यतिभिः स्वधर्मनिरतैः संसेव्यमानं मुदा
निःसारत्वधियं तनोति तरसा सर्वेषु भोग्येषु यत् ।
आम्नायान्तरहस्यबोधनचणं तत्सर्वसिद्धिप्रदं
विद्यातीर्थपदारविन्दयुगलं वन्दे जगत्पावनम् ॥ ६॥

श्रद्धा भक्तिविरक्तिमुख्यसुगुणान्दत्वा चिरात्सेवकान्
सम्प्राप्ताखिलयोगजालजनितानन्दान्प्रकुर्वत्तथा ।
ब्रह्माहं न च दृश्यवस्त्विति महावाक्योत्थबोधान्वितान्
विद्यातीर्थपदारविन्दयुगलं वन्दे जगत्पावनम् ॥ ७॥

यच्चित्ते दधतो मुदा परमया लोकात्समस्तान्नृपाः
सेवन्ते भयभक्तिनम्रवपुषः सर्वस्वमप्यादरात् ।
दत्त्वा यान्ति च दासतां चिरतरां तद्भुक्तिमुक्तिप्रदं
विद्यातीर्थपदारविन्दयुगलं वन्दे जगत्पावनम् ॥ ८॥

घण्टानादपुरःसरं प्रतिदिनं रात्रौ गणानां गणै-
र्भक्त्या पूरितमानसैः सुमवरैः कर्पूरनीराजनैः ।
धूपैर्दीपचयैर्मनोहरतरैः सम्पूज्यमानं मुहु-
र्विद्यातीर्थपदारविन्दयुगलं वन्दे जगत्पावनम् ॥ ९॥

तुङ्गातीरविहारिमानसलसद्धंसायितं सन्ततं
तुङ्गापत्ततिवारणैकनिपुणं श‍ृङ्गारजन्मालयम् ।
गङ्गावारिविनिर्मलं विरचयच्चित्तं नतानां जवा-
द्विद्यातीर्थपदारविन्दयुगलं वन्दे जगत्पावनम् ॥ १०॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीविद्यातीर्थपदारविन्दस्तुतिः सम्पूर्णा ।

Found a Mistake or Error? Report it Now

Download श्रीविद्यातीर्थपदारविन्दस्तुतिः PDF

श्रीविद्यातीर्थपदारविन्दस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App