Download HinduNidhi App
Tulsi Mata

वृन्दादेव्यष्टकम्

Vrindadevya Ashtakam Sanskrit

Tulsi MataAshtakam (अष्टकम निधि)संस्कृत
Share This

|| वृन्दादेव्यष्टकम् ||

विश्वनाथचक्रवर्ती ठकुरकृतम् ।

गाङ्गेयचाम्पेयतडिद्विनिन्दिरोचिःप्रवाहस्नपितात्मवृन्दे ।
बन्धूकबन्धुद्युतिदिव्यवासोवृन्दे नुमस्ते चरणारविन्दम् ॥

बिम्बाधरोदित्वरमन्दहास्यनासाग्रमुक्ताद्युतिदीपितास्ये ।
विचित्ररत्नाभरणश्रियाढ्ये वृन्दे नुमस्ते चरणारविन्दम् ॥

समस्तवैकुण्ठशिरोमणौ श्रीकृष्णस्य वृन्दावनधन्यधामिन् ।
दत्ताधिकारे वृषभानुपुत्र्या वृन्दे नुमस्ते चरणारविन्दम् ॥

त्वदाज्ञया पल्लवपुष्पभृङ्गमृगादिभिर्माधवकेलिकुञ्जाः ।
मध्वादिभिर्भान्ति विभूष्यमाणाः वृन्दे नुमस्ते चरणारविन्दम् ॥

त्वदीयदौत्येन निकुञ्जयूनोः अत्युत्कयोः केलिविलाससिद्धिः ।
त्वत्सौभगं केन निरुच्यतां तद्वृन्दे नुमस्ते चरणारविन्दम् ॥

रासाभिलाषो वसतिश्च वृन्दावने त्वदीशाङ्घ्रिसरोजसेवा ।
लभ्या च पुंसां कृपया तवैव वृन्दे नुमस्ते चरणारविन्दम् ॥

त्वं कीर्त्यसे सात्वततन्त्रविद्भिः लीलाभिधाना किल कृष्णशक्तिः ।
तवैव मूर्तिस्तुलसी नृलोके वृन्दे नुमस्ते चरणारविन्दम् ॥

भक्त्या विहीना अपराधलेशैः क्षिप्ताश्च कामादितरङ्गमध्ये ।
कृपामयि त्वां शरणं प्रपन्नाः वृन्दे नुमस्ते चरणारविन्दम् ॥

वृन्दाष्टकं यः श‍ृणुयात्पठेच्च वृन्दावनाधीशपदाब्जभृङ्गः ।
स प्राप्य वृन्दावननित्यवासं तत्प्रेमसेवां लभते कृतार्थः ॥

इति विश्वनाथचक्रवर्ती ठकुरकृतं वृन्दादेव्यष्टकं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Leave a Comment