योगशान्तिप्रदं गणाधीशस्तोत्रम् PDF संस्कृत
Download PDF of Yogashantipradam Ganadhiisha Stotram Sanskrit
Shri Ganesh ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
योगशान्तिप्रदं गणाधीशस्तोत्रम् संस्कृत Lyrics
|| योगशान्तिप्रदं गणाधीशस्तोत्रम् ||
श्रीगणेशाय नमः ।
कर्दम उवाच ।
केनोपायेन भो वत्स योगशान्तिः प्रलभ्यते ।
तदर्थं पूजनीयं किं तद्वदस्व जनार्दन ॥ १॥
कपिल उवाच ।
गणेशभजनं मुख्यं शान्तियोगप्रदं मतम् ।
योगाकारस्वरूपं तं ब्रह्मेशं भज मानद ॥ २॥
सर्वादिः सर्वपूज्योऽयं सर्वाधारो महामुने ।
य आदिः प्रलयान्ते स तिष्ठति शास्त्रसंमतम् ॥ ३॥
ज्येष्ठराजं गणेशानं वेदेषु प्रवदन्ति तम् ।
गणाः समूहरूपाश्च तेषां स्वामी प्रकथ्यते ॥ ४॥
नानाजगत्स्वरूपं वैदेहरूपं कृतं मुने ।
नानाब्रह्ममयं तेन शिरः कृतं महात्मना ॥ ५॥
यस्माज्जातमिदं यत्र ह्यन्ते गच्छति महामते ।
तद्वेदे गजशब्दाख्यं शिरस्तेन गजाननः ॥ ६॥
त्रिविधं भेदयुक्तं यदखण्डं वै तुरीयकम् ।
तयोर्योगे गणेशोऽयं देहमस्तकयोर्गतः ॥ ७॥
चित्तं पञ्चविधं प्रोक्तं तत्र मोहश्च पञ्चधा ।
मोहरूपा महासिद्धिर्बुद्धिश्च मोहधारका ॥ ८॥
तयोः स्वामी गणाधीशश्चित्ते नित्यं प्रतिष्ठितः ।
चिन्तामणिर्महाभागो लभ्यते योगसेवया ॥ ९॥
पञ्चधा चित्तमुत्सृज्य तदैश्चर्यं तथैव च ।
योगः शान्तिमयः सद्यः प्राप्यते ब्रह्मणस्पतिः ॥ १०॥
तस्मात्तं भज मन्त्रेणैकाक्षरेण महामुने ।
तेन तुष्टो गणेशानो योगं दास्यति शान्तिदम् ॥ ११॥
इति मुद्गलपुराणान्तर्गतं श्रीगणाधीशस्तोत्रं समाप्तम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowयोगशान्तिप्रदं गणाधीशस्तोत्रम्
READ
योगशान्तिप्रदं गणाधीशस्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
