|| श्रीयोगिजीमहाराज वन्दनाष्टकम् ||
(शार्दूलविक्रीडितम्)
श्रीजीश्रीपदपङ्कजेन पुनिता सौराष्ट्र-देशस्थ भूः
यस्यां प्रादुरभूत् स्वयं मुनिगुणातीतश्च मुक्ताः क्षितौ ।
तस्मिन् धारिपुरे त्वजायत यतिर्वैराग्यमूर्तिः स्वयं
तं श्रीज्ञानजियोगिनं गुरुवरं वन्दे सदा भक्तितः ॥ १॥
रत्वा बाल्यवयः प्रियं स्वसदनं त्यक्तं त्वयैकादशे
सम्मृग्यातिशुचं गुरुं प्रमुदतः श्रीजीर्णदुर्गेऽवसत् ।
दीक्षां भागवतीं प्रधाय विमलां स्वस्थानमध्ये स्थितस्
तं श्रीज्ञानजियोगिनं गुरुवरं वन्दे त्वहो सर्वदा ॥ २॥
आकर्षन्ति सुलोहकान्तमणयो लोहं यथागत्य वै
स्थानं शाश्वतमाप्य सन् स्थिरतमः कृत्वाच वृत्तिं स्थिराम् ।
ध्येयं श्रीगुरुराज-यज्ञपुरुषस्यासेवनं धार्यते
तं श्रीज्ञानजियोगिनं गुरुवरं वन्दे सदा भावतः ॥ ३॥
धर्मे प्रेम धरन् हरेस्सुवचने श्रद्धां चरन् शाश्वतं
प्रज्ञानेन च पूर्णजीवितमपि प्रकृष्ट-निर्मानिता ।
वैराग्ये रतिरस्य तीव्रसबला त्यागं सदा शोभितुं
तं श्रीज्ञानजियोगिनं गुरुवरं भावेन वन्दे सदा ॥ ४॥
स्वामि-श्रीहरिभक्तिमेव नवधा प्रेम्णा विधत्ते सदा
मिष्टान्नं परिवेषयन्वदति यः स्वामिन् हरे खादतात् ।
भोज्यं शीतजलं ददाति समये सेवां करोत्यादरात्
तं श्रीज्ञानजियोगिनं गुरुवरं वन्देऽनिशं भावतः ॥ ५॥
वाणी दिव्यसुधाभर मधुसमा सञ्जीवनी संक्षितौ
द्रष्टावस्ति सुदिव्यता हरिजनान् द्रष्टुं च दिव्यं समान् ।
स्नेहो मातृसमः प्रियश्च हृदये हास्यं मुखे राजते
तं श्रीज्ञानजियोगिनं गुरुवरं भावेन वन्दे सदा ॥ ६॥
लब्ध्वा ब्रह्मपदं दधाति सततं वृत्तिं द्रढां श्रीहरौ
ध्याने मत्त इहात्मनि प्ररमते भावेन मत्तेन यः ।
धत्ते श्रीहरिकृष्णमेव हृदये दासत्व-भावेन वै
तं श्रीज्ञानजियोगिनं गुरुवरं वन्दे सदा भावतः ॥ ७॥
साक्षादक्षर-मन्दिरे प्रतिदिनं धत्ते महापूजनं
प्रेम्णा गायति सद्यशो भगवतः प्रत्यक्षमूर्तेर्मुदा ।
भावं योऽभिनवं दधत् स्वहृदये गुर्विन्द्रसेवाकृते
तं श्रीज्ञानजियोगिनं गुरुवरं भक्त्या भगो वन्दते ॥ ८॥
भावेन नत्वा गुरुयोगिराजं
शृणोति गात्यष्टक-मेकचेताः ।
धर्मप्रभृतीन् चतुरो गुणान् द्राक्
ब्राह्मीं स्थितिं प्रैति जनः स नूनम् ॥ ९॥
इति श्रीविवेकसागरस्वामिविरचितं श्रीयोगिजीमहाराजवन्दनाष्टकं सम्पूर्नम् ।
श्री भगवतीप्रसाद पण्ड्या (अमदावाद) (वसन्ततिलका)
तालिप्रदान-रणितैर्गमितान्धकारं
स्निग्ध-प्रसन्नवचनैर्मुदितान्तरालम् ।
दिव्यं प्रसन्नविभवं च विशालभालं
योगीश्वरं प्रणुत हे मनुजाः सतालम् ॥ १॥
योऽसावमान्यपि ददाति परस्य मानं
तापं सहिष्णुरपि हन्ति जनस्य तापम् ।
लोकान् नमन्नपि समुन्नमयन् स लोकान्
स्वीयैर्गुणैरचकितश्चकितान् करोति ॥ २॥
(उपजातिवृत्तम्)
पर्याप्तकामोऽपि विधूतकामो, विशालचित्तोऽपि निरुद्धचित्तः ।
सन्न्यस्तकर्मापिच कर्मयोगी, योगी परं मोहतमोवियोगी ॥ ३॥
(शार्दूलविक्रीडितम्)
पूज्य काशिकानन्दजी महाराज (मुम्बई) (शार्दूलविक्रीडितम्)
दृष्टिर्यस्य शिशोरिवातिसरला वाणी पुनर्निश्छला
भावोऽगाधतलः परात्मनि परा भक्तिः सदा निर्मला ।
निष्ठा चाविकला सतां पथि तथा कीर्तिः शुभानाविला
शीलः संयमिनां वरः स विदितो योगी गुणैरुज्ज्वलः ।
भक्तिज्ञानविराग-धर्मनिलयं, स्मेराननं शान्तिदं
श्रीमद्यज्ञपुरुष-कुष्णजिप्रियं, पूजारतं श्रीहरौ ।
श्रीजीवाक्यगरिष्ठ-स्वामिवचनै,र्भक्तार्तिबन्धापहं
योगेन्दुं ननु ज्ञानजीवनमुनिं, वन्दे मनोज्ञं मुदा ॥
Found a Mistake or Error? Report it Now