Misc

योगिनीनायिकास्तोत्रम्

Yogininayikastotram Sanskrit Lyrics

Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| योगिनीनायिकास्तोत्रम् ||

श्री उन्मत्तभैरव उवाच
आस्याः स्तोत्रं प्रवक्ष्यामि सावधानावधारय ।
साक्षात्सिद्धिं समाप्नोति योगिनी स्तोत्रपाठतः ॥ १॥

ध्यानम् ।
हृदयाम्भोरुहे ध्याये सुन्दरीं नवयौवनाम् ।
किङ्किणीजालमालाढ्यां त्रिपुरां पद्मलोचनाम् ।
वराभयकरां धन्यां योगिनीं कामचारिणीम् ॥ २॥

वन्दे योगिनी! योगसिद्धिधनदे! बन्धूकपुष्पोज्ज्वले
नानालङ्कृतिविग्रहे! सुरमणि श्रीदेवकन्ये प्रिये! ।
दारिद्र्यं हन मे सुखं प्रियपदं वाञ्छादिसिद्धिं देहि
राज्यं मित्रकलत्रपुत्रधनदे! मातः! समाधेहि मे ॥ ३॥

तवाङ्घ्रिकमलद्वयं तरुणि देवते! दारुणं
महाभयसमाकुलं हर भजामि भूमण्डले ।
कृपां कुरु ममालये सपरिवारदेवैः सह
सदा भव हि भागिनी क्षम कुलापतापं मुदा ॥ ४॥

त्वमेका योगिनी कन्या पिङ्गला युवती रतिः ।
गौरी विद्याधरी श्यामा प्रसन्ना भव सर्वदा ॥ ५॥

त्वं सन्ध्या खेचरी विद्या यक्षिणी भूतिनीप्रिया ।
त्वमेका पातु मां धात्री स्वर्णपात्रकराम्बुजा ॥ ६॥

हिरण्याक्षी विशालाक्षी चपला नागिनी जया ।
प्रसन्ना भव शब्दाख्या कामिनी कामदायिनी ॥ ७॥

सिद्धिदा कुलमन्त्राणां डाकिनी खेचरी भव ।
नमामि वरदे देवि! योगिनीगणसेविते! ॥ ८॥

तवाङ्घ्रियुगलं कान्ते! चन्द्रकान्तिसुमालिनी ।
अमले कमले देवि! दारिद्र्यदोषभञ्जिनी ॥ ९॥

वन्दे त्वां मनसा वाचा प्रसन्ना भव सुन्दरि! ।
कलिकालकृते देवि! खेचरी शतनायिके ॥ १०॥

धनसिद्धिं देहि शीघ्रं समागच्छ गृहे मम ।
सिद्धिदा विधुराणां च अकालमृत्युनाशिनी ॥ ११॥

दशवर्षसहस्राणि स्थिरा भव कुले मम ।
वाक्यसिद्धिप्रदा देवी पद्मरागसुमालिनी ॥ १२॥

सर्वालङ्कारभूषाङ्गी प्रसन्ना भव सर्वदा ।
मायाबीजात्मिका देवी वधूबीजसमाकुले ॥ १३॥

सिद्धिद्रव्यं सदा देहि कान्ता भव ममालये ।
विचित्राम्बरशोभाङ्गी नानालङ्कारवेष्टिते ॥ १४॥

विम्बारमणिसूर्याभे चन्द्रकान्तिप्रभोज्ज्वले ।
स्मेराननाब्जे कामेशि! ममाज्ञापय दुर्लभम् ॥ १५॥

कामेशि! परमानन्दराजभोगप्रदायिनी ।
सिद्धिदा वरदा माता भगिनी च भवप्रिया ॥ १६॥

तवाज्ञाकिङ्करो देवि! पूजयाम्यहमादरात् ।
ममाग्रे संस्थिरा भूत्वा सिद्धिदा भव सर्वदा ॥ १७॥

कौलिनी गगनस्था त्वं मम पार्श्वचरी भव ।
शतवर्षसहस्राणि मायेकं रक्ष सेवकम् ॥ १८॥

त्वामेकं जगतां देवि! सिद्धिविद्यां नमाम्यहम् ।
ममाङ्गे चैव पार्श्वे त्वं कामिनी भव मे सदा ॥ १९॥

दशवर्षसहस्राणि सिद्धे! कमललोचनाम् ।
वनिता भव मे नित्यं नित्यं देहं कुरु प्रिये ॥ २०॥

एतत् स्तोत्रं पठेद् विद्वान् ध्यानाभ्याससमन्वितम ।
पक्वान्नं नारिकेलं वा खण्डमिश्रं निवेदयेत् ।
सिद्धिं यच्छन्ति भूतिन्यः स्तोत्रपूजाप्रभावतः ॥ २१॥

इति बृहद्भूतसन्धानडामरे महातन्त्रे योगिनीनायिकास्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download योगिनीनायिकास्तोत्रम् PDF

योगिनीनायिकास्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App