योगिनीनायिकास्तोत्रम् PDF संस्कृत
Download PDF of Yogininayikastotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
योगिनीनायिकास्तोत्रम् संस्कृत Lyrics
|| योगिनीनायिकास्तोत्रम् ||
श्री उन्मत्तभैरव उवाच
आस्याः स्तोत्रं प्रवक्ष्यामि सावधानावधारय ।
साक्षात्सिद्धिं समाप्नोति योगिनी स्तोत्रपाठतः ॥ १॥
ध्यानम् ।
हृदयाम्भोरुहे ध्याये सुन्दरीं नवयौवनाम् ।
किङ्किणीजालमालाढ्यां त्रिपुरां पद्मलोचनाम् ।
वराभयकरां धन्यां योगिनीं कामचारिणीम् ॥ २॥
वन्दे योगिनी! योगसिद्धिधनदे! बन्धूकपुष्पोज्ज्वले
नानालङ्कृतिविग्रहे! सुरमणि श्रीदेवकन्ये प्रिये! ।
दारिद्र्यं हन मे सुखं प्रियपदं वाञ्छादिसिद्धिं देहि
राज्यं मित्रकलत्रपुत्रधनदे! मातः! समाधेहि मे ॥ ३॥
तवाङ्घ्रिकमलद्वयं तरुणि देवते! दारुणं
महाभयसमाकुलं हर भजामि भूमण्डले ।
कृपां कुरु ममालये सपरिवारदेवैः सह
सदा भव हि भागिनी क्षम कुलापतापं मुदा ॥ ४॥
त्वमेका योगिनी कन्या पिङ्गला युवती रतिः ।
गौरी विद्याधरी श्यामा प्रसन्ना भव सर्वदा ॥ ५॥
त्वं सन्ध्या खेचरी विद्या यक्षिणी भूतिनीप्रिया ।
त्वमेका पातु मां धात्री स्वर्णपात्रकराम्बुजा ॥ ६॥
हिरण्याक्षी विशालाक्षी चपला नागिनी जया ।
प्रसन्ना भव शब्दाख्या कामिनी कामदायिनी ॥ ७॥
सिद्धिदा कुलमन्त्राणां डाकिनी खेचरी भव ।
नमामि वरदे देवि! योगिनीगणसेविते! ॥ ८॥
तवाङ्घ्रियुगलं कान्ते! चन्द्रकान्तिसुमालिनी ।
अमले कमले देवि! दारिद्र्यदोषभञ्जिनी ॥ ९॥
वन्दे त्वां मनसा वाचा प्रसन्ना भव सुन्दरि! ।
कलिकालकृते देवि! खेचरी शतनायिके ॥ १०॥
धनसिद्धिं देहि शीघ्रं समागच्छ गृहे मम ।
सिद्धिदा विधुराणां च अकालमृत्युनाशिनी ॥ ११॥
दशवर्षसहस्राणि स्थिरा भव कुले मम ।
वाक्यसिद्धिप्रदा देवी पद्मरागसुमालिनी ॥ १२॥
सर्वालङ्कारभूषाङ्गी प्रसन्ना भव सर्वदा ।
मायाबीजात्मिका देवी वधूबीजसमाकुले ॥ १३॥
सिद्धिद्रव्यं सदा देहि कान्ता भव ममालये ।
विचित्राम्बरशोभाङ्गी नानालङ्कारवेष्टिते ॥ १४॥
विम्बारमणिसूर्याभे चन्द्रकान्तिप्रभोज्ज्वले ।
स्मेराननाब्जे कामेशि! ममाज्ञापय दुर्लभम् ॥ १५॥
कामेशि! परमानन्दराजभोगप्रदायिनी ।
सिद्धिदा वरदा माता भगिनी च भवप्रिया ॥ १६॥
तवाज्ञाकिङ्करो देवि! पूजयाम्यहमादरात् ।
ममाग्रे संस्थिरा भूत्वा सिद्धिदा भव सर्वदा ॥ १७॥
कौलिनी गगनस्था त्वं मम पार्श्वचरी भव ।
शतवर्षसहस्राणि मायेकं रक्ष सेवकम् ॥ १८॥
त्वामेकं जगतां देवि! सिद्धिविद्यां नमाम्यहम् ।
ममाङ्गे चैव पार्श्वे त्वं कामिनी भव मे सदा ॥ १९॥
दशवर्षसहस्राणि सिद्धे! कमललोचनाम् ।
वनिता भव मे नित्यं नित्यं देहं कुरु प्रिये ॥ २०॥
एतत् स्तोत्रं पठेद् विद्वान् ध्यानाभ्याससमन्वितम ।
पक्वान्नं नारिकेलं वा खण्डमिश्रं निवेदयेत् ।
सिद्धिं यच्छन्ति भूतिन्यः स्तोत्रपूजाप्रभावतः ॥ २१॥
इति बृहद्भूतसन्धानडामरे महातन्त्रे योगिनीनायिकास्तोत्रं सम्पूर्णम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowयोगिनीनायिकास्तोत्रम्
READ
योगिनीनायिकास्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
