Download HinduNidhi App
Misc

श्री पुण्डरीकाक्ष स्तोत्रम्

Sri Pundarikaksha Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री पुण्डरीकाक्ष स्तोत्रम् ||

वराह उवाच ।
नमस्ते पुण्डरीकाक्ष नमस्ते मधुसूदन ।
नमस्ते सर्वलोकेश नमस्ते तिग्मचक्रिणे ॥ १ ॥

विश्वमूर्तिं महाबाहुं वरदं सर्वतेजसम् ।
नमामि पुण्डरीकाक्षं विद्याऽविद्यात्मकं विभुम् ॥ २ ॥

आदिदेवं महादेवं वेदवेदाङ्गपारगम् ।
गम्भीरं सर्वदेवानां नमस्ये वारिजेक्षणम् ॥ ३ ॥

सहस्रशीर्षिणं देवं सहस्राक्षं महाभुजम् ।
जगत्संव्याप्य तिष्ठन्तं नमस्ये परमेश्वरम् ॥ ४ ॥

शरण्यं शरणं देवं विष्णुं जिष्णुं सनातनम् ।
नीलमेघप्रतीकाशं नमस्ये चक्रपाणिनम् ॥ ५ ॥

शुद्धं सर्वगतं नित्यं व्योमरूपं सनातनम् ।
भावाभावविनिर्मुक्तं नमस्ये सर्वगं हरिम् ॥ ६ ॥

नान्यत्किञ्चित्प्रपश्यामि व्यतिरिक्तं त्वयाऽच्युत ।
त्वन्मयं च प्रपश्यामि सर्वमेतच्चराचरम् ॥ ७ ॥

इति श्रीवराहपुराणे षष्ठोऽध्याये श्रीपुण्डरीकाक्ष स्तोत्रम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री पुण्डरीकाक्ष स्तोत्रम् PDF

श्री पुण्डरीकाक्ष स्तोत्रम् PDF

Leave a Comment