|| श्रीभैरवीहृदयम् ||
॥ श्रीगणेशाय नमः ॥
॥ श्रीउमामहेश्वराभ्यां नमः ॥
॥ अथ श्रीभैरवीहृदय प्रारम्भः ॥
मेरौ गिरिवरेशानी शिवन्ध्यानपरायणम् ।
पार्वती परिपप्रच्छ परानुग्रहवाञ्छया ॥ १॥
श्रीपार्वत्युवाच
भगवंस्त्वन्मुखाम्भोजाच्छ्रुता धर्मा अनेकशः ।
पुनह्स्श्रोतुं समिच्छामि भैरवीस्तोत्रमुत्तमम् ॥ २॥
श्रीशङ्कर उवाच
शृणु देवि प्रवक्ष्यामि भैरवीहृदयाह्वयम् ।
स्तोत्रन्तु परमम्पुण्यं सर्वकल्याणकारणम् ॥ ३॥
यस्य श्रवणमात्रेण मङ्गलम्भवति ध्रुवम् ।
विना ध्यानादिना वापि भैरवी परितुष्यति ॥ ४॥
ॐ अस्य श्रीभैरवीहृदयमन्त्रस्य दक्षिणामूर्त्ति ऋषिः ।
पङ्क्ति छन्दः । भयविध्वंसिनी भैरवी देवता ।
हकारो बीजम् । रीं शक्तिः । रैः कीलकम् ।
सर्वभयविध्वंसनार्थे जपे (पाठे) विनियोगः ॥
॥ अथ करन्यासः ॥
ॐ ह्रीं अङ्गुष्ठाभ्यां नमः ।
ॐ श्रीं तर्जनीभ्यां नमः ।
ॐ ऐं मध्यमाभ्यां नमः ।
ॐ ह्रीं अनामिकाभ्यां नमः ।
ॐ श्रीं कनिष्ठिकाभ्यां नमः ।
ॐ ऐं करतलकरपृष्ठाभ्यां नमः ॥
॥ इति करन्यासः ॥
॥ अथ हृदयादिषडङ्गन्यासः ॥
ॐ ह्रीं हृदयाय नमः ।
ॐ श्रीं शिरसे स्वाहा ।
ॐ ऐं शिखायै वषट् ।
ॐ ह्रीं कवचाय हुम् ।
ॐ श्रीं नेत्रत्रयाय वौषट् ।
ॐ ऐं अस्त्राय फट् ॥
॥ इति हृदयादिषडङ्गन्यासः ॥
॥ अथ ध्यानम् ॥
देवैर्ध्द्ये यान्त्रिनेत्रामसुरदलघनारण्यरोराग्निरूपां
रौद्रीं रक्ताम्बराढ्यां रतिघटिघटितोरोजयुग्मोग्ररूपाम् ।
चन्द्रार्द्धभ्राजिभव्याभरणकरलसद्भालबिम्बाम्भवानीं
सिन्दूरापूरिताङ्गीं त्रिभुवनजननीं भैरवीं भावयामि ॥
भवभ्रमत्समस्तभूतवेदमार्गदायिनी-
न्दुरन्तदुःखदारिणींविदारिणीं सुरद्रुहाम् ।
भवप्रदाम्भवान्धकारभेदनप्रभाकरा-
मितप्रभाम्भवच्छिदाम्भजामि भैरवीं सदा ॥ १॥
उरः प्रलम्बिताहिमाल्यचन्द्रभालभूषणान्-
नवाम्बुदप्रभां सरोजचारुलोचनत्रयाम् ।
सुपर्ववृन्दवन्दितां सुरापदन्तकारिका-
म्भवानुभावभाविनीं भजामि भैरवीं सदा ॥ २॥
अखण्डभूमिमण्डलैकभारधीरधारिणीं
सुभक्तिभावितात्मनां विभूतिभव्यदायिनीम् ।
भवप्रपञ्चकारिणीं विहारिणीं भवाम्बुधौ
भवस्यहृदयभाविनीं भजामि भैरवीं सदा ॥ ३॥
शरच्चमत्कृतार्च्यचन्द्रचन्द्रिकाविरोधिक-
प्रभावतीमुखाब्जमञ्जुमाधुरीमिलद्गिराम् ।
भुजङ्गमालया नृमुण्डमालया च मण्डितां
सुभक्तिमुक्तिभूतिदां भजामि भैरवीं सदा ॥ ४॥
सुधांशुसूर्यवह्निलोचनत्रयान्विताननान्-
नरान्तकान्तकप्रभूतिपर्वदत्त दक्षिणाम् ।
समुण्डचण्डखण्डनप्रचण्डचन्द्रहासिनी-
न्तमोमतिप्रकाशिनीं भजामि भैरवीं सदा ॥ ५॥
त्रिशूलिनीं त्रिपुण्ड्रिनीं त्रिखण्डिनीं त्रिदण्डिनीं
गुणत्रयातिरक्तमत्यचिन्त्यचित्स्वरूपिणीम् ।
सवासवादितेयवैरिवृन्दवंशभेदिनीं
भवप्रभावभाविनीं भजामि भैरवीं सदा ॥ ६॥
सुदीप्तकोटिबालभानुमण्डलप्रभाङ्गमा-
दिगन्तदारितान्धकारभूरिपुञ्जपद्धतिम् ।
द्विजन्मनित्यधर्म्मनीतिवृद्धिलग्नमानसां
सरोजरोचिराननां भजामि भैरवीं सदा ॥ ७॥
चलत्सुवर्णकुण्डलप्रभोल्लसत्कपोलरुक्-
समाकुलाननाम्बुजस्थशुभ्रकीर नासिकाम् ।
सचन्द्रभालभैरवस्य दर्शनस्पृहच्चकोर-
नीलकञ्जदर्शनां भजामि भैरवीं सदा ॥ ८॥
इमं हृदाख्यसङ्गतस्तवम्पठन्ति येऽनिश-
म्पतन्ति ते कदापिनान्धकूपरूपवद्भवे ।
भवन्ति च प्रभूतिभक्तिमुक्तिमन्त उज्ज्वला-
स्ततः प्रसीदति प्रमोदमानसा च भैरवी ॥ ९॥
यशोजगत्यजस्रमुज्ज्वलञ्जयत्यलं समे
न तस्य जायते पराजयोञ्जसा जगत्त्रये ।
सदा स्तुतिं शुभामिमाम्पठत्यनन्यमानसो
भवन्ति तस्य सम्पदोऽपिसन्ततं सुखप्रदाः ॥ १०॥
जपपूजादिकास्सर्वाः स्तोत्रपाठादिकाश्च याः ।
भैरवीहृदयस्यास्य कलान्नार्हन्ति षोडशीम् ॥ ११॥
किमत्र बहुनोक्तेन शृणु देवि महेश्वरि ।
नातः परतरङ्किञ्चित्पुण्यमस्ति जगत्त्रये ॥ १२॥
॥ इति श्रीभैरवीकुलसर्वस्वे श्रीभैरवीहृदयस्तोत्रं समाप्तम् ॥
Found a Mistake or Error? Report it Now