Misc

श्रीचामुण्डास्तोत्रम्

Chamundastotram3 Stotram Sanskrit Lyrics

Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीचामुण्डास्तोत्रम् ||

(नवार्ण मन्त्र-गर्भित )
ऐं बीजं परमात्मनिःश्वसितभूवेदादिवर्णात्मकं,
ये भक्त्या मनसा जपन्ति परमं तेषां सुवाक्ज्ञानदाम् ।
अम्बां मद्धृदयाम्बरस्थपरचिद्रूपामनन्तास्पदां,
चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥ १॥

ह्रीङ्काराम्बररङ्गनर्तनकरीमोङ्कारलक्ष्यां परा-
मोङ्कारात्मकवर्णलक्ष्यविभवामाकारहीनां शिवाम् ।
साकारां वरदाभयाङ्कुशमहापाशान् करैर्बिभ्रतीं,
चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥ २॥

क्लीङ्काराख्यमहामणिं रतिपतिः प्राप्याङ्गहीनः परं,
ग्रीवापादविहीनकोऽपि मदनो यस्याः प्रसादान्मुदा ।
त्रीन् लोकान् कुसुमेषुभिर्विजितवान् तां वेदसारात्मिकां
चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥ ३॥

चार्वङ्गीमतिसुन्दरीमभयदामम्भोजमध्यस्थितां,
चार्वङ्गीकृतगानवाद्यरसिकां शास्त्राद्यवाच्याकृतिम् ।
चार्वाकादिसमस्तशास्त्रनिवहप्रोक्तादिशक्त्यात्मिकां,
चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥ ४॥

मुण्डाद्यैः सुरशत्रुभिः कृतमहाकष्टापदां नाशिनीं
मुण्डप्रोतसुमाल्यशोभितगलां मुक्तिप्रदस्वाङ्घ्रिकाम् ।
मूढैर्ज्ञानविहीनकैः पशुनिभैर्ज्ञातुं त्वशक्यां जनैः,
चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥ ५॥

डामर्यादिसमस्तभूतनिवहैः सेव्यां सदानन्ददां,
डाकिन्यादिसुयोगिनीपरिलसत् षट्चक्रसञ्चारिणीम् ।
डम्भोपेतजनैः कृतार्चनविधौ सन्तुष्टिहीनान्तरां
चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥ ६॥

यैर्लोभाद् विहितोऽन्नदानरहितो यज्ञः सगर्वं जनै-
स्तेषामन्तकरूपिणीमरिभयानर्थप्रदात्री रुषा ।
यैर्भक्त्या स्तुतिपूजनादि रचितं तेषामभीष्टार्थदां,
चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥ ७॥

विद्वद्वृन्दकृतार्चनस्तुतिनुतिप्रीतां विधिप्रार्थितां,
विद्वद्वृन्दसुपूजनादिकरणे सन्तुष्टचित्तां सदा ।
विद्यां वीरनुताम्बुजाङ्घ्रियुगलां वीरापवर्गप्रदां,
चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥ ८॥

चेतोम्भोजविहारिणीं मम मनः प्रोद्भूतभीहारिणीं,
चेतोऽतीतपदस्थितां वरचिदानन्दाकृतिं शान्तिदाम् ।
चेतोवृत्त्यनुसारिकर्मफलदां चिन्तामणिं श्रीकरीं,
चामुण्डामहमानतोऽस्मि वरदां सर्वार्थसंसिद्धये ॥ ९॥

श्रीशान्ताचलनायकाम्बुजपदासक्तस्वचित्तैः सदा,
श्रीशान्त्यादिगुणान्वितैर्वरचिदानन्दाख्यनाथात्मभिः ।
दत्तात्मामृतपानमत्तहृदयानन्तस्य वक्त्रोद्भवं,
शान्तिं शं शममातनोतु पठतां स्तोत्रं महानन्ददम् ॥ १०॥

(यहां “चामुण्डा” पद का अर्थ इस प्रकार किया गया है-
चमू अज्ञानकार्यसेनां वियदादिसमूहरूपां डाति डलयोरैक्यात् ।
लाति आदत्ते स्वात्मसाक्षात्कारेण नाशयति इति चामुण्डा ॥

अर्थात् अज्ञान कर्मरूप तथा आकाशादि समूह रूप जो सेना है उसे अपने
आत्मसाक्षात्कार के द्वारा नष्ट करने वाली ।)

इति श्रीरुद्रयामले तन्त्रे श्रीचामुण्डास्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीचामुण्डास्तोत्रम् PDF

श्रीचामुण्डास्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App