Misc

तारा प्रत्यङ्गिराकवचम्

Tarapratyangirakavacham Sanskrit Lyrics

MiscKavach (कवच संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| तारा प्रत्यङ्गिराकवचम् ||

ॐ प्रत्यङ्गिरायै नमः ।
ईश्वर उवाच
ॐ तारायाः स्तम्भिनी देवी मोहिनी क्षोभिनी तथा ।
हस्तिनी भ्रामिनी रौद्री संहारण्यापि तारिणी ॥ १॥

शक्तयोहष्टौ क्रमादेता शत्रुपक्षे नियोजिताः ।
धारिता साधकेन्द्रेण सर्वशत्रु निवारिणी ॥ २॥

ॐ स्तम्भिनी स्त्रें स्त्रें मम शत्रुन् स्तम्भय स्तम्भय ॥ ३॥

ॐ क्षोभिणी स्त्रें स्त्रें मम शत्रुन् क्षोभय क्षोभय ॥ ४॥

ॐ मोहिनी स्त्रें स्त्रें मम शत्रुन् मोहय मोहय ॥ ५॥

ॐ जृम्भिणी स्त्रें स्त्रें मम शत्रुन् जृम्भय जृम्भय ॥ ६॥

ॐ भ्रामिनी स्त्रें स्त्रें मम शत्रुन् भ्रामय भ्रामय ॥ ७॥

ॐ रौद्री स्त्रें स्त्रें मम शत्रुन् सन्तापय सन्तापय ॥ ८॥

ॐ संहारिणी स्त्रें स्त्रें मम शत्रुन् संहारय संहारय ॥ ९॥

ॐ तारिणी स्त्रें स्त्रें सर्वपद्भ्यः सर्वभूतेभ्यः सर्वत्र
रक्ष रक्ष मां स्वाहा ॥ १०॥

य इमां धारयेत् विद्यां त्रिसन्ध्यं वापि यः पठेत् ।
स दुःखं दूरतस्त्यक्त्वा ह्यन्याच्छ्त्रुन् न संशयः ॥ ११॥

रणे राजकुले दुर्गे महाभये विपत्तिषु ।
विद्या प्रत्यङ्गिरा ह्येषा सर्वतो रक्षयेन्नरम् ॥ १२॥

अनया विद्यया रक्षां कृत्वा यस्तु पठेत् सुधी ।
मन्त्राक्षरमपि ध्यायन् चिन्तयेत् नीलसरस्वतीम् ।
अचिरे नैव तस्यासन् करस्था सर्वसिद्धयः
ॐ ह्रीं उग्रतारायै नीलसरस्वत्यै नमः ॥ १३॥

इमं स्तवं धीयानो नित्यं धारयेन्नरः ।
सर्वतः सुखमाप्नोति सर्वत्रजयमाप्नुयात् ॥ १४॥

नक्कापि भयमाप्नोति सर्वत्रसुखमाप्नुयात् ॥ १५॥

इति रुद्रयामले श्रीमदुग्रतराया प्रत्यङ्गिरा कवचं समाप्तम् ॥

Found a Mistake or Error? Report it Now

Download तारा प्रत्यङ्गिराकवचम् PDF

तारा प्रत्यङ्गिराकवचम् PDF

Leave a Comment

Join WhatsApp Channel Download App