Misc

श्रीकलिकृतं धूम्रवर्णस्तोत्रम्

Dhumravarnastotramshrikalikrritam Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीकलिकृतं धूम्रवर्णस्तोत्रम् ||

॥ श्रीगणेशाय नमः ॥

कलिरुवाच ।
धूम्रवर्ण नमस्तुभ्यं सर्वेभ्यः सुखदायक ।
नानारूपधरायैव विघ्नेशाय नमो नमः ॥ ३५॥

अनन्तपादहस्तायानन्तबाहुधराय ते ।
अनन्तमायया गुप्तप्रचारिणे नमो नमः ॥ ३६॥

हेरम्बाय नमस्तुभ्यं भक्तसंरक्षकाय च ।
अभक्तभयदात्रे ते गणेशाय नमो नमः ॥ ३७॥

आदिमध्यान्तहीनायादिमध्यान्तभयाय ते ।
आनन्देभ्यः सदानन्ददायिने वै नमो नमः ॥ ३८॥

मायाहीनाय मायाया आधाराय परात्मने ।
मायिभ्यो मायया मोहदायिने ते नमो नमः ॥ ३९॥

कर्मणां फलदात्रे ते ज्ञानिभ्यो ज्ञानदायिने ।
आनन्देभ्यः सदानन्ददायिने वै नमो नमः ॥ ४०॥

सहजाय नमस्तुभ्यं स्वानन्दाय समाधये ।
योगाय योगनाथाय ब्रह्मेशाय नमो नमः ॥ ४१॥

कस्त्वां स्तोतुं समर्थः स्याद्यत्र शान्तिं गताः प्रभो ।
वेदादयो नमाम्येव तेन तुष्टो भवाधुना ॥ ४२॥

रक्ष मां गणनाथ त्वं दासं शरणमागतम् ।
अज्ञानयुद्धजं दोषं क्षमस्व करुणानिधे ॥ ४३॥

एवमुक्त्वा कलिस्तस्य पादं गृह्य पपात ह ।
तमुवाच गणाध्यक्षः स्वभक्तं शरणार्थिनम् ॥ ४४॥

(फलश्रुतिः)
धूम्रवर्ण उवाच ।
मा भयं कुरु धर्मघ्न न हन्मि त्वां कदाचन ।
शरणं मां प्रपन्नं च श‍ृणु मे वच नोहतम् ॥ ४५॥

स्तोत्रं त्वया कृतं मे यत् कलेर्मलहरं भवेत् ।
पठते श‍ृण्वते नित्यं सर्वकामफलप्रदम् ॥ ४६॥

अन्ते स्वानन्ददं पूर्णं भविष्यति कले परम् ।
दृढभक्तिकरं नित्यं योगिभ्यो योगदायकम् ॥ ४७॥

तिष्ठ त्वं द्वेषमुत्सृज्य धर्मस्य स्वाधिकारतः ।
कृतप्राप्तिं विजानीहि मदाज्ञावशगो भव ॥ ४८॥

तथेति तं नमस्कृत्य कलिः स्वस्थानगोऽभवत् ।
धूम्रवर्णो द्विजान् मुख्यान् वसिष्ठादीन् समानयत् ॥ ४९॥

पुनस्तान् स्थाप्य सर्वेशः कृतं तैः सम्प्रवर्तयत् ।
स्वयमन्तहितो देवः सर्वेभ्यः सुखदायकः ॥ ५०॥

धूम्रवर्णावतारस्य चरितं कथितं मया ।
सर्वसिद्धिप्रदं पूर्णं पठनाच्छ्रवणाद्भवेत् ॥ ५१॥

इति श्रीकलिकृतं धूम्रवर्णस्तोत्रं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download श्रीकलिकृतं धूम्रवर्णस्तोत्रम् PDF

श्रीकलिकृतं धूम्रवर्णस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App