Shri Krishna

श्रीकृष्णस्तुतिर्मङ्गलम्

Krrishnastutirmangalam Sanskrit

Shri Krishna ✦ Stuti (स्तुति संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीकृष्णस्तुतिर्मङ्गलम् ||

नमः परमकल्याण नमस्ते विश्वमङ्गल ।
वासुदेवाय शान्ताय यदूनां पतये नमः ॥ १॥

नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम् ।
यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी ॥ २॥

कृष्णाय वासुदेवाय देवकीनन्दनाय च ।
नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ ३॥

नमः पङ्कजनाभाय नमः पङ्कजमालिने ।
नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ ४॥

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ ५॥

राधिकाऽऽलिङ्गिताङ्गाय नमो रासविहारिणे ।
राजीवायतनेत्राय रसिकेशाय ते नमः ॥ ६॥

मुग्धगोपवधूत्तुङ्गकुचमण्डलमर्दिने ।
मुरलीगानलोलाय मुकुन्दायास्तु मङ्गलम् ॥ ७॥

नित्योत्सवो भवेत्तेषां नित्यश्रीर्नित्यमङ्गलम् ।
येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः ॥ ८॥

लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ।
येषामिन्दीवरश्यामो हृदये सुप्रतिष्ठितः ॥ ९॥

नन्दहस्तमवलम्ब्य पाणिना मन्दमन्दमरविन्दलोचनः ।
सञ्चरन् क्वणितकिङ्किणीरवः सन्ततं मम तनोतु मङ्गलम् ॥ १०॥

इति श्रीकृष्णस्तुतिः – मङ्गलं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीकृष्णस्तुतिर्मङ्गलम् PDF

श्रीकृष्णस्तुतिर्मङ्गलम् PDF

Leave a Comment

Join WhatsApp Channel Download App