Misc

श्रीगोकुलेशशयनाष्टकम्

Gokuleshashayanashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीगोकुलेशशयनाष्टकम् ||

प्रातः स्मरामि गुरुगोकुलनाथसंज्ञं
संसारसागरसमुत्तरणैकसेतुम् ।
श्रीकृष्णचन्द्रचरणाम्बुजसर्वकाल
संशुद्धसेवनविधौ कमलावतारम् ॥ १॥

प्रस्वाप्य नन्दतनयं प्रणयेन पश्चा
दानन्दपूर्णनिजमन्दिरमभ्युपेतम् ।
स्थूलोपधानसहितासनसन्निषण्णं
श्रीगोकुलेशमनिशं निशि चिन्तयामि ॥ २॥

अभ्यग्रभक्तकरदत्तसिताभ्रयुक्तं
ताम्बूलपूर्णवदनं सदनं रसाब्धेः ।
आवेष्टितं परित आत्मजनैरशेषैः
श्रीगोकुलेशमनिशं निशि चिन्तयामि ॥ ३॥

जाते तथा प्रभुकथाकथने तदानी
मुत्थापिते परिचयेण पृथूपधाने ।
गन्तुं गृहाय सुहृदः स्वयमुक्तवन्तं
श्रीगोकुलेशमनिशं निशि चिन्तयामि ॥ ४॥

नित्योल्लसन्नवरसौघनिवासरूपं
सौन्दर्यनिर्जितजगज्जयिकामभूपम् ।
स्वप्रेयसीजनमनोहरचारुवेषं
सञ्चिन्तयामि शयने निशि गोकुलेशम् ॥ ५॥

कस्तूरिकादितनुलेपविसारिगन्धं
पुष्पस्रगन्तरलसत्तनुमौलिबन्धम् ।
संवाहिताङ्घ्रियुगलं निजमुख्यभक्तैः
सञ्चिन्तयामि शयने निशि गोकुलेशम् ॥ ६॥

सप्रेमहास्यवचनैः कतिचित्स्वकीयान्
स्थित्वा क्षणं निजगृहाय निदिष्टवन्तम् ।
शय्योपवेशसमयोचित्तवेषभाजं
सञ्चिन्तयामि शयने निशि गोकुलेशम् ॥ ७॥

निद्रागमात् प्रथमतो निजसुन्दरीभिः
संसेवितं तदखिलेन्द्रियवृत्तिभाग्यम् ।
श‍ृङ्गारसारमधिराजमुदारवेषं
सञ्चिन्तयामि शयने निशि गोकुलेशम् ॥ ८॥

स्वच्छोपरिच्छदलसच्छयनोपविष्टं
सस्नेहभक्तसुखसेवितपादपद्मम् ।
निद्रावधूस्वसमयेप्सितसङ्गसौख्यं
सञ्चिन्तयामि शयने निशि गोकुलेशम् ॥ ९॥

श्रीगोकुलेशशयनाष्टकमादरेण
श्रीकृष्णरायरचितं सरसार्थपद्यम् ।
सञ्चिन्तिताखिलफलप्रदमिष्टसिद्‍ध्यै
सञ्चिन्तयन्तु निशि तच्चरणैकचित्ताः ॥ १०॥

इति श्रीकृष्णरायविरचितं श्रीशयनाष्टकं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download श्रीगोकुलेशशयनाष्टकम् PDF

श्रीगोकुलेशशयनाष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App