|| गौरीश्वरस्तुतिः ||
श्रीगणेशाय नमः ॥
दिव्यं वारि कथं यतः सुरधुनी मौलौ कथं पावको
दिव्यं तद्धि विलोचनं कथमहिर्दिव्यं स चाङ्गे तव ।
तस्माद्द्यूतविधौ त्वयाद्य मुषितो हारः परित्यज्यता-
मित्थं शैलभुवा विहस्य लपितः शम्भुः शिवायास्तु वः ॥ १॥
श्रीकण्ठस्य सकृत्तिकाऽऽर्तभरणी मूर्तिः सदा रोहिणी
ज्येष्ठा भाद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता ।
दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कृता
श्रेयो वैश्रवणान्विता भगवतो नक्षत्रपालीव वः ॥ २॥
एषा ते हर का सुगात्रि कतमा मूर्घ्नि स्थिता किं जटा
हंसः किं भजते जटां न हि शशी चन्द्रो जलं सेवते ।
मुग्धे भूतिरियं कुतोऽत्र सलिलं भूतिस्तरङ्गायते
एवं यो विनिगूहते त्रिपथगां पायात्स वः शङ्करः ॥ ३॥
इति गौरीश्वरस्तुतिः समाप्ता ।
Found a Mistake or Error? Report it Now