|| श्रीप्रणवाष्टकस्तोत्रम् ||
अचतुराननमुस्वभुवं हरिं
महरमेव सुनादमहेश्वरम् ।
परममुज्वलबिन्दुसदाशिवम् ॥
प्रणवकारमहं प्रणमामितम् ॥ १॥
अरचनाख्यकलामुसुपाकलां
मकृतिनाशकलां लयनादगाम् ।
परमबिन्दुरनुग्रहगां कलां
प्रणवकारमहं प्रणमामितम् ॥ २॥
अगणनाथमुकारजनार्दनं
मरविमेव सुनादपराम्विकाम् ।
परमबिन्दुशिवं परमेश्वरं
प्रणवकारमहं प्रणमामि तम् ॥ ३॥
अपृथिवीमुजलं मकृशानुजं
परमनादमयं परबिन्दुखम् ।
भुवनबीजमहापरमेश्वरं
प्रणवकारमहं प्रणमामि तम् ॥ ४॥
अनिनदं क्षितिचक्रसमुद्भवं
हृदयचक्रजमुध्वनिमुज्वलम् ।
मखमेवसहस्रदले गतं
प्रणवकारमहं प्रणमामि तम् ॥ ५॥
पुनरमातृमयं तदुमानगं
शुभममेयमयं त्रिगुणात्मकम् ।
परमनादपरां परबैन्दवं
प्रणवकारमहं प्रणमामि तम् ॥ ६॥
त्रिपुरधाममयं परमात्मकं
परमहंसमयं लयमोक्षदम् ।
सुनिगमागमतत्वयुतं प्रभुं
प्रणवकारमहं प्रणमामि तम् ॥ ७॥
ॐकारं परमात्मकं त्रिगुणकं चाम्बाम्बिकाम्बालिका-
रूपं नादमनादिशक्तिविभवाविद्यासुविद्यायुतम् ।
बिन्दुं ब्रह्ममयं तदन्तरगतां श्रीसुन्दरीं चिन्मयीं
साक्षाच्छ्रीप्रणवं परं च धनशंशेरः सदा नौम्यहम् ॥ ८॥
इति श्रीधनशंशेर जङ्गवर्म्मणाविरचितं वीरेन्द्रकेसरिन्
शर्म्मणा संशोधितं श्रीप्रणवाष्टकम्तोत्रम् ॥
Found a Mistake or Error? Report it Now