|| अक्रूरकृतं १ श्रीकृष्णस्तोत्रम् ||
अक्रूर उवाच ।
तन्मात्ररूपिणेऽचिन्त्यमहिम्ने परमात्मने ।
व्यापिने नैकरूपैकस्वरूपाय नमो नमः ॥ ४८॥
शब्दरूपाय तेऽचिन्त्यहविर्भूताय ते नमः ।
नमो विज्ञानरूपाय पराय प्रकृतेः प्रभो ॥ ४९॥
भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् ।
आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः ॥ ५०॥
प्रसीद सर्वधर्मात्मन् क्षराक्षर महेश्वर ।
ब्रह्मविष्णुशिवाद्याभिः कल्पनाभिरुदीरितः ॥ ५१॥
अनाख्येयस्वरूपात्मन्ननाख्येयप्रयोजन ।
अनाख्येयाभिधान त्वां नतोऽस्मि परमेश्वरम् ॥ ५२॥
न यत्र नाथ विद्यन्ते नामजात्यादिकल्पनाः ।
तद्ब्रह्म परमं नित्यमविकारि भवानजः ॥ ५३॥
न कल्पनामृतेऽर्थस्य सर्वस्याधिगमो यतः ।
ततः कृष्णाच्युतानन्त विष्णुसंज्ञाभिरीड्यसे ॥ ५४॥
सर्वात्मंस्त्वमज विकल्पनाभिरेतै-
र्देवास्त्वं जगदखिलं त्वमेव विश्वम् ।
विश्वात्मंस्त्वमतिविकारभेदहीनः
सर्वस्मिन्न हि भवतोऽस्ति किञ्चिदन्यत् ॥ ५५॥
त्वं ब्रह्मा पशुपतिरर्यमा विधाता
त्वं धाता त्रिदशपतिः समीरणोऽग्निः ।
तोयेशो धनपतिरन्तकस्त्वमेको
भिन्नात्मा जगदपि पासि शक्तिभेदैः ॥ ५६॥
विश्वं भवान्सृजति हन्ति गभस्तिरूपो
विश्वं च ते गुणमयोऽयमज प्रपञ्चः ।
रूपं परं सदितिवाचकमक्षरं य-
ज्ज्ञानात्मने सदसते प्रणतोऽस्मि तस्मै ॥ ५७॥
ॐ नमो वासुदेवाय नमःसङ्कर्षणाय च ।
प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥ ५८॥
इति ब्रह्मपुराणे द्विनवत्यधिकशततमाध्यायान्तर्गतं
अक्रूरकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।
Found a Mistake or Error? Report it Now

