Shri Krishna

श्रीकृष्णसहस्रनामस्तोत्रम्

Shrikrrishnasahasranamastotram Sanskrit Lyrics

Shri Krishna ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीकृष्णसहस्रनामस्तोत्रम् ||

ॐ श्री कृष्णाय परमात्मने नमः ।
ध्यानं
अनन्तनामकं कृष्णं कृपावर्षं कृपार्णवम् ।
भक्त्या नामसहस्रेण स्तोतुमिच्छामि सर्वदा ॥ १॥

श्री कृष्णचन्द्र! सर्वेश! स्त्रव्यरूप! स्तुतिप्रिय ।
वेणुगोपाल! राधेश! स्तोतुं त्वां देहि मे वरम् ॥ २॥

प्रेमार्पितमनोबुद्धिं, देहि मे करुणानिधे! ।
नीलसुन्दररूपस्य, देहि मे दिव्यदर्शनम् ॥ ३॥

अथ श्रीकृष्णसहस्रनामस्तोत्रं प्रारभ्यते ।
हरिः ॐ –
ॐ राधिकेशं जगन्नाथं मोहनं वनमालिनम् ।
नन्दसूनुं महाविष्णुं मुकुन्दं मधुसूदनम् ॥ १॥

देवकीनन्दनं श्यामं वासुदेवं जगन्मयम् ।
यशोदातनयं कृष्णं कुण्डलद्वयभूषणम् ॥ २॥

अम्बुजाक्षं कृपापूर्णं वेणुवादनसुन्दरम् ।
नीलवर्णं घनश्यामं नवनीरदसन्निभम् ॥ ३॥

विशालफालं सुमुखं सुन्दरद्युतिपूरितम् ।
श्यामसुन्दरगोपालं लीलामानुषविग्रहम् ॥ ४॥

गोपीनाथं चित्तचोरं सूर्यकोटिसमप्रभम् ।
रासेश्वरं रासलोलं रासमण्डलवर्त्तिनम् ॥ ५॥

गोपिमण्डलमद्ध्यस्थं नृत्तकेलिरसप्रदम् ।
कारुण्यामृतनेत्रं च महनीयगुणान्वितम् ॥ ६॥

सुन्दराङ्गं चारुरूपमिन्दीवरनिभाननम् ।
नीलप्रभं कम्बुकण्ठं कौस्तुभद्युतिशोभितम् ॥ ७॥

नीलवर्णकपोलाभं कस्तूरीतिलकान्वितम् ।
चन्दनालिप्तगात्रं च वक्षःस्थलसुशोभनम् ॥ ८॥

मानिनीमानदं श्रीदं वन्यमालाविभूषितम् ।
रासरम्यं कोमलाङ्गं प्रेमलीलापरं जितम् ॥ ९॥

कामदर्पहरं कान्तं वेणुगानविशारदम् ।
कामदं कामजनकं कामवर्जितमानसम् ॥ १०॥

पीताम्बरधरं सौम्यमानन्दरसवर्धकम् ।
रूपलावण्यसारं च वेणुवादनतत्परम् ॥ ११॥

कोमलाङ्घ्रिसरोजाभं शिञ्जन्नूपुरसुन्दरम् ।
भक्तहृद्पद्मनिलयं सर्वमङ्गलकारकम् ॥ १२॥

नृत्तकेलिरसानन्दं गोपीचित्रप्रमोदकम् ।
सर्वाङ्गसुन्दरं नीलं विकसन्मुखपङ्कजम् ॥ १३॥

चारुनेत्रं चारुवर्णं चारुचन्द्राननप्रभम् ।
चन्दावलीसुपूज्यं च नृत्तमण्डलमद्ध्यगम् ॥ १४॥

वेणुजूष्टमुखाम्भोजं रमणीयाननप्रभम् ।
अत्यन्तकोमलं श्यामसुन्दरं रूपमोहनम् ॥ १५॥

मञ्जीरशिञ्जितं नादं नानारसविवर्धकम् ।
रङ्गरङ्गविशेषाभं विविधस्वरनादनम् ॥ १६॥

विशालाक्षं विश्ववन्द्यं वेणुनादरसप्रियम् ।
मञ्जीरचरणं भव्यं मणिनूपुरशिञ्जितम् ॥ १७॥

अम्भोरुहसमानाभं सर्वसौन्दर्यसारदम् ।
श्यामलाङ्गप्रभापूर्णं दिव्यकोमलविग्रहम् ॥ १८॥

मधुरप्रेमसारं च कृष्णाख्यं जगदीश्वरम् ।
राधेशं राधिकावन्द्यं गोपिकाप्रेमवर्धकम् ॥ १९॥

वृन्दारण्यविहारं च यमुनापुलिनेश्वरम् ।
गोवृन्दचारिणं गोपं गोपबालसमावृतम् ॥ २०॥

लीलानरं केलिसक्तं करुणारसवत्सलम् ।
कुञ्जानुकुञ्जसुक्रीडं पादविन्यासशोभितम् ॥ २१॥

वनमालाशोभिताङ्गं दिव्यगात्रप्रभोज्ज्वलम् ।
दिव्यगन्धानुलिप्तं च श्रीवत्साङ्कितवक्षसम् ॥ २२॥

गानलोलं रसोन्मत्तं नवनीतरसप्रियम् ।
गोपीमानसचोरं च दिव्यशोभातिभासुरम् ॥ २३॥

दिव्यनृत्तरसोल्लासं काममोहनसुन्दरम् ।
कुटिलालकबर्हाभं रत्नकिङ्किणिभूषितम् ॥ २४॥

सौन्दर्योदयसूक्ष्माङ्गं सुस्मेरवदनाम्बुजम् ।
अलिवृन्दाकर्षणं च वनमालाविभूषितम् ॥ २५॥

अतुलप्रेमसारं श्री राधिकाप्रेमसागरम् ।
नटनाकृतिरम्यं च दिव्यप्रेमरसामृतम् ॥ २६॥

सुजातं सुप्रियं सूक्ष्मं मनोमन्दिरवासिनम् ।
स्वयंञ्ज्योतिःश्यामवर्णं शारदेन्दुनिभाननम् ॥ २७॥

चराचर जगन्नाथं जगद्वन्द्यं जगद्गुरुम् ।
प्रणतक्लेशनाशं च भक्तमानसरञ्जनम् ॥ २८॥

राधेश्वरं रसक्रीडं कलवेणुसुकूचितम् ।
करीन्द्रपूजितं मूलं करिवीरवरप्रदम् ॥ २९॥

जितकामं जितक्रोधं कलिकन्मषनाशनम् ।
रामानुजं हृषीकेशं वेणुगोपालसुन्दरम् ॥ ३०॥

फणार्त्तिदं बालकृष्णं फणिदर्पविनाशकम् ।
गन्धर्वाप्सरसां पूज्यं सुरवृन्दनिषेवितम् ॥ ३१॥

कलादिनाथं सम्पूर्णं सङ्गीतरसलोलुपम् ।
व्रजनारीसमाकृष्टं मणिकङ्कणभूषितम् ॥ ३२॥

नन्दगोपसदानन्दं यशोदानन्दसागरम् ।
सर्वलोकैकवन्द्यं च नित्यनिर्मलमानुषम् ॥ ३३॥

चन्द्राननं चारुहासं चारुचन्दनचर्चितम् ।
भक्तप्रियं भक्तपूज्यं भक्तिगम्यं भयापहम् ॥ ३४॥

सच्चिन्मयं सत्स्वरूपं सर्वसङ्गविवर्जितम् ।
सर्वारम्भनिदानं चिदानन्दामृतपूरितम् ॥ ३५॥

लीलाधृतगिरिश्रेष्ठं इन्द्रदर्पहरं शमम् ।
आबालवृन्दसम्पूज्यं सुरधेनुसुपूजितम् ॥ ३६॥

सर्वाभीष्टप्रदातारं कालियाहिविमर्दकम् ।
गीतकीर्त्तिविशेषं च नीलवर्णवराननम् ॥ ३७॥

सत्यव्रतं सच्चरितं सच्चिदानन्दविग्रहम् ।
गोवृन्दानुचरं पूज्यं गोपबालाग्रगामिनम् ॥ ३८॥

सुचारुनटनं रम्यं सर्वसारं सुखोदयम् ।
उलूखलनिबद्धं च सर्वबन्धविमोचकम् ॥ ३९॥

पुष्पसौन्दर्यलोलं च पुष्पगन्धानुसेवितम् ।
राजीवचरणं नानावनराजिनिषेवितम् ॥ ४०॥

निस्तुलं निर्ममं शान्तं निरालम्बं निराशयम् ।
आनन्दाब्धिं दयासिन्धुं वरेण्यं वरदं विभुम् ॥ ४१॥

वृन्दावनेश्वरं श्रेष्ठं प्रेमानन्दविवर्षणम् ।
नित्यमुक्तस्वरूपं च नित्यानन्दवरपदम् ॥ ४२॥

अखिलेशममेयं च सत्यं त्रिभुवनेश्वरम् ।
चिदाकाशस्थितं सर्वचित्तगूढनिवासिनम् ॥ ४३॥

पद्मपत्रविशालाक्षं बर्हालङ्कृतकुन्तलम् ।
सुन्दरभ्रूविलासं च बिम्बाधरसुमोहनम् ॥ ४४॥

धृतवेणुं गानरम्यं नृत्तसुन्दरमानुषम् ।
स्वररूपं नादरूपं शब्दब्रह्मामृतं सुखम् ॥ ४५॥

नानारत्नालङ्कृताङ्गं सुन्दरालकसंवृतम् ।
गोपनारीचित्तचोरं कृष्णं गोपालसुन्दरम् ॥ ४६॥

पुण्यगन्धातिदिव्याङ्गं दिव्याभापरिपूरितम् ।
लम्बमालाविलसितं वन्दनीयममानुषम् ॥ ४७॥

परानन्दं परासेव्यं पद्मकेसरसुन्दरम् ।
सरोजदलनेत्राभं वन्दितं वनचारिणम् ॥ ४८॥

पुरुषं शाश्वतं सूक्ष्मं निगूढं पुरुषोत्तमम् ।
हृदयस्थं गुहावासं सर्वभूतनिकेतनम् ॥ ४९॥

सर्वभूतान्तरात्मानं नरं नारायणं परम् ।
सर्वभूताधिवासं च सर्वभूतहृदिस्थितम् ॥ ५०॥

अच्युतानन्दगोविन्दं कृष्णं गोपालविग्रहम् ।
दिव्यानन्दं निजानन्दं गोपीमानसमोहनम् ॥ ५१॥

यशोदानन्दनं जिष्णुं देवकीगर्भसम्भवम् ।
श्यामकोमलगोपालं वसुदेवप्रियात्मजम् ॥ ५२॥

गोपगोपीसदासेव्यं यमुनापुलिनेचरम् ।
गोपनारीजनप्रेष्ठं चञ्चलेक्षणसुन्दरम् ॥ ५३॥

दिव्यज्योतिःस्वरूपं चिदानन्दरसरूपिणम् ।
आत्मानन्दं परानन्दं चिदेकरसपूरितम् ॥ ५४॥

प्रेमानन्दं सुखानन्दं करुणारससागरम् ।
पवित्रं परमानन्दं श्यामलाभाप्रपूरितम् ॥ ५५॥

राधाप्रेमसुधासारं प्रेममाधुर्यवर्षणम् ।
नाट्यनर्त्तनहृद्यं च नटनाकृतिसुन्दरम् ॥ ५६॥

करवेणुरवानन्दं पादपांसुसुमङ्गलम् ।
सुचारुचरणं कर्णपीयूषस्वरनादनम् ॥ ५७॥

नीलप्रभापूर्णगात्रं नीलद्युति समावृतम् ।
नीलाम्बुदघनश्यामं प्रेमास्वादनलोलुपम् ॥ ५८॥

प्रेममानससम्पूज्यं मनोमन्दिरवासिनम् ।
भक्तिरूपं भक्तसेव्यं भक्तमानसपूजितम् ॥ ५९॥

गोकुलेश्वरसर्वेशं गोपराजकुमारकम् ।
धेनुवृन्दानुगमनं व्रजगोपालबालकम् ॥ ६०॥

जन्ममृत्युविनिर्मुक्तं नानालीलावतारकम् ।
यशोदानन्दपुत्राख्यं नरजन्मविनोदकम् ॥ ६१॥

मातृप्रेमपयःप्रीतं राधिकाप्रेमलोलुपम् ।
क्रीडन्तं नन्दगेहस्थं बालगोपालविग्रहम् ॥ ६२॥

पूतनाघातकं सर्वजीवचित्तप्रशामकम् ।
बालक्रीडासमासक्तं यशोदाप्रियवत्सलम् ॥ ६३॥

गोवत्सवृन्दानुचरं गोवृन्दान्वेषणोत्सुकम् ।
वेणुगानरसोल्लासं गोपकन्याप्रसादकम् ॥ ६४॥

वनमालालङ्कृताङ्गं रत्नकङ्कणभूषितम् ।
तमालसुन्दरश्यामं करवेणुसुशोभनम् ॥ ६५॥

फणीन्द्रमर्दनाक्रीडं सहस्रफणमर्दकम् ।
फणरत्नद्युतिव्याप्तपादपङ्कजशोभितम् ॥ ६६॥

नृत्तलीलाविशेषाभं कालियार्त्तिविनाशकम् ।
सुगीतकीर्त्तिसम्पूज्यं पुण्यश्रवणकीर्त्तनम् ॥ ६७॥

गोपालाख्यं दैत्यकालं शकटासुरभञ्जनम् ।
गोवर्धनाचलोद्धारं गोपगोवृन्दसौख्यदम् ॥ ६८॥

यशोदानन्ददातारं नितान्तसुखदायकम् ।
श्रीधरं श्रीमुखाम्भोजं राधामाधवसुन्दरम् ॥ ६९॥

तृणावर्त्तमतिक्रान्तं यमलार्जुनभञ्जनम् ।
दामोदरं दामबद्धं व्रजनारीजनप्रियम् ॥ ७०॥

निरञ्जनं नित्यशुद्धं नित्यानन्दसुखास्पदम् ।
नारायणमनाद्यन्तं निरपेक्षं निजाश्रितम् ॥ ७१॥

कृतनानावतारं च लीलागोपालविग्रहम् ।
नानायोनिसमासीनं ब्रह्मयोनिमयोनिजम् ॥ ७२॥

गोपराजं नरश्रेष्ठं नृत्तगोपालसुन्दरम् ।
वेणुगोपालबालं च नन्दगोकुलनायकम् ॥ ७३॥

अङ्गलावण्यसम्पूर्णं यशोदाप्रीतिभाजनम् ।
राधाप्रेमरसानन्दं प्रोन्मुखं ह्लादिनीप्रियम् ॥ ७४॥

चन्दनालिप्तनीलाङ्गं महोरस्कं सुमालिनम् ।
गोपिकाप्रेमसौभाग्यं प्रेमचोरं सुखाश्रयम् ॥ ७५॥

अपारमहिमानं च प्रोज्ज्वलं मूलकारणम् ।
अभीष्टवरदातारमप्रमेयमगोचरम् ॥ ७६॥

किङ्किणीजालवीताङ्गं पीतकौशेयवाससम् ।
नीलवर्णविशेषाभं तटिद्वर्णाम्बरप्रभम् ॥ ७७॥

कौस्तुभद्युतिसंव्याप्तं कर्णाभरणभूषितम् ।
नीलस्फटिकतुल्याभं पूर्णचन्द्रप्रभाननम् ॥ ७८॥

आलोलकुण्डलद्वन्द्वं अच्छस्फटिकनिर्मलम् ।
जगन्मोहनलावण्यं कृतपुण्यवरप्रदम् ॥ ७९॥

अतीन्द्रियमनोवाचं निखिलं चेतसाम्परम् ।
चराचरात्मकं व्यक्तं सर्वजीवसमाश्रयम् ॥ ८०॥

नित्यज्ञानं निरुपमं गीताधर्मप्रबोधकम् ।
संसारसागरोत्तारं करुणारससागरम् ॥ ८१॥

वन्यभोज्यरसानन्दं गोपबालकनायकम् ।
खगवृन्दसमाकर्षं मल्लिकाकुसुमप्रियम् ॥ ८२॥

नानालताकृष्टचित्तं पुष्पसौन्दर्यलालसम् ।
वृक्षमूलसुखासीनं शीतलछाययावृतम् ॥ ८३॥

फलमाधुर्यलोलं च सर्वकर्मफलप्रदम् ।
धेनुकासुरसंहारं तालपक्वफलाशनम् ॥ ८४॥

मल्लवीरविजेतारं मल्लविद्याविशारदम् ।
कंसमुक्तिप्रदातारं हस्तिवीरप्रपीडनम् ॥ ८५॥

सत्यधर्मपरित्राणं मर्त्त्यधर्मप्रबोधकम् ।
चोराग्रगण्यगोपालं पापचोरं कृपाकरम् ॥ ८६॥

अन्तर्बहिःस्थितं विश्वं स्थूलसूक्ष्मं च कारणम् ।
व्यक्ताव्यक्तस्वरूपं च परमात्मप्रकाशकम् ॥ ८७॥

केशवं कमलानाथं सुकेशं केशिसूदनम् ।
नित्यनिर्मुक्तमेकं च निस्तुलं निरतिक्रमम् ॥ ८८॥

गिरिराजधरं बालं देवेन्द्रमखभञ्जनम् ।
वर्षधाराप्रशमनं प्रेमधाराविवर्षणम् ॥ ८९॥

कामधेनुपयस्सिक्तं गोविन्दं गिरिगोचरम् ।
हृतदर्पेन्द्रसम्पूज्यं गोकुलप्रीतिवर्धनम् ॥ ९०॥

ब्रह्माण्डकोटिगर्भस्थं मृद्भक्षकमनामयम् ।
मुखान्तःस्थत्रिभुवनं यशोदाद्भुतदर्श्शनम् ॥ ९१॥

सनातनं नित्यसत्यममरं सुरनायकम् ।
निरवद्यं निष्प्रपञ्चं प्रपञ्चं निखिलेश्वरम् ॥ ९२॥

यदुश्रेष्ठं रमानाथं कृष्णं प्राणाधिकप्रियम् ।
राधानन्दं सदानन्दं बालगोपं यदूत्तमम् ॥ ९३॥

पार्त्थिवं पृथिवीनाथं मृदुलं पार्त्थसारथिम् ।
बकारिमघसंहारं ब्रह्मदेवनमस्कृतम् ॥ ९४॥

बालवेषं वत्सरूपं धेनुरूपं शिशुं प्रियम् ।
कृतनानारूपरम्यं ब्रह्ममोहनिवारणम् ॥ ९५॥

दैवसम्पत्तिदातारं मुचुकुन्दप्रसादकम् ।
असुरघ्नं शिष्टपालं सुस्मृतं शोकनाशनम् ॥ ९६॥

गजेन्द्रसंस्तुतं स्तव्यं हस्तिहस्तप्रपूजितम् ।
आदिमूलं सर्वमूलं निर्मूलं विश्वमूलकम् ॥ ९७॥

अक्रूरवरदं पूज्यं वैकुण्ठनिलयं श्रुतम् ।
जलान्तर्निलयं चारुदर्श्शनं सुखदर्श्शनम् ॥ ९८॥

प्रेमोन्मुखमनःप्रेष्ठं प्रेमपीयूषसागरम् ।
राधिकाप्रेमराज्यं च प्रेमानन्दविधायकम् ॥ ९९॥

कृष्णचन्द्रं यादवेन्द्रं यदुराजकुमारकम् ।
यमुनातीरसञ्चारं जलक्रीडारतं चरम् ॥ १००॥

गोपिकारमणं राजं रसिकं रसिकेश्वरम् ।
रसिकोन्मत्तं रसोल्लासं तुलसीदामशोभितम् ॥ १०१॥ (रसोन्मत्तं)

कर्णानन्दं रसानन्दं सर्वेन्द्रियसुखप्रदम् ।
मनोवाक्कर्मजेतारं चित्तगं चित्तरञ्जनम् ॥ १०२॥

अनिमित्तं तुल्ल्यहीनं चिद्भवं भवनाशनम् ।
अमोघममरश्रेष्ठं कृष्णं निस्तुलविक्रमम् ॥ १०३॥

दैवसम्पद्विधातारं वराहादिस्वरूपिणम् ।
मत्स्यरूपं कूर्मरूपं भार्गवं भरताग्रजम् ॥ १०४॥

हलायुधं बालरामं वारुणीमदविह्वलम् ।
यमुनाकर्षणं वीरं सुप्रीतिरसवर्धनम् ॥ १०५॥

असुरश्रेष्ठसंहारं नृसिंहं भयहारिणम् ।
हरिं प्रह्लादवरदं सर्वलोकसुखावहम् ॥ १०६॥

कृष्णं कपटगोपालं कमनीयं वराननम् ।
सुकुमारं सुस्मिताभं सुन्दरं सुकलेवरम् ॥ १०७॥

नादान्तं बिन्दुरूपं च गुणरूपं कलात्मकम् ।
आदिरूपं कलारूपं चतुर्वगात्मकं स्वरम् ॥ १०८॥

वेणुगानं रम्यनादं क्लीङ्कारं वैखरीरवम् ।
कलापूर्णं कलातीतं ओङ्कारनिनदं कलम् ॥ १०९॥

आदिनाथं बीजरूपं गीतामृतकलामृतम् ।
स्वरामृतं शब्दसारं भावरूपं कृपामृतम् ॥ ११०॥

सुगुणं कालसङ्कल्पं गुणातीतं गुणोत्भवम् ।
सदसत्सर्वरूपं च शब्दब्रह्मादिकं भवम् ॥ १११॥

हैयङ्गवाशनासक्तं मिष्टान्नसुखलोलुपम् ।
सुस्वादुरसलोलं च गोपिकाप्रेमभाजनम् ॥ ११२॥

बालकेलिरसोन्मत्तं नवकेलिरसप्रियम् ।
अचलं निश्चलं शुद्धं चपलं चञ्चलं चलम् ॥ ११३॥

चिदाकाशं चिदादित्यं चित्प्रसन्नं चिदात्मकम् ।
चित्ताकाशं चित्प्रकाशं चिज्ज्योतिश्चेतनामृतम् ॥ ११४॥

गोपिकाप्रेमकामं च राधिकाहृदयेश्वरम् ।
नित्यकामं निकामं च कामसङ्कल्पवर्जितम् ॥ ११५॥

जीवामृतं कृपालुं च सौम्यरूपं दयापरम् ।
शान्तिदं शान्तशीलं च शमिनं करुणाकरम् ॥ ११६॥

वेणुसञ्जुष्टरम्याङ्गं अधरामृतशोभनम् ।
तुलसीदलमालाभं नूपुरद्वयभूषणम् ॥ ११७॥

परञ्ज्योतिः परन्धाम परमाणुं परात्परम् ।
अणीयांसं महीयांसं स्थूलसूक्ष्मादिमूलकम् ॥ ११८॥

कर्माद्ध्यक्षं कर्महीनं कर्मातीतमकर्मकम् ।
सकर्मकं निष्क्रियं च कर्मगं कर्ममोचकम् ॥ ११९॥

सज्जनाभीष्टदं शिष्टं धेनुकासुरमर्दनम् ।
व्रजबालं प्रीतिरूपं कृष्णमात्मसखं गुरुम् ॥ १२०॥

प्रलम्बवधकामं च बलरामानुजं बलम् ।
पूतनाप्राणहर्तारं हलायुधगदायुधम् ॥ १२१॥

मनोबुद्धीन्द्रियप्राणं प्रज्ञानं परमं फलम् ।
ज्ञानदं ज्ञानगम्यं च विज्ञानानन्दमण्डलम् ॥ १२२॥

श्रीकृष्णं जगदद्ध्यक्षं राधिकाप्राणवल्लभम् ।
सर्वेन्द्रियप्राणधर्मं सर्वगं सर्वकर्षणम् ॥ १२३॥

सुशीलं राजगोपालं शीतलं श्यामलप्रभम् ।
धृतवाद्यं शब्दसारं गायकं कीर्त्तिदायकम् ॥ १२४॥

गोवर्धनाद्रिसञ्चारं तृणान्वेषणतत्परम् ।
गोवत्साननुधावन्तं गोधनं गोपरिग्रहम् ॥ १२५॥

मर्क्कटप्लवनोद्युक्तं बालकं केलिलालसम् ।
तमालनीलं सुश्यामं कारुण्यद्रुतमानसम् ॥ १२६॥

अमोघदर्श्शनं प्रीतं परिपावनकीर्त्तिदम् ।
रसं सारं सर्वसारं रससारसुधामयम् ॥ १२७॥

मयूरसमनृत्तं च बर्हाभावृतकुन्तलम् ।
हंसनृत्तं हंसगतिं कोकिलारवकूजितम् ॥ १२८॥

पद्मनाभं पद्मनेत्रं पद्माभं पद्मजार्चितम् ।
नीलपद्मसमानाभं पादपद्मसुपूजितम् ॥ १२९॥

दिव्याङ्गं दिव्यनटनं दिव्यप्रेमप्रहर्षणम् ।
दिव्याभापूरिताङ्गं च दिव्यभावनिवेशनम् ॥ १३०॥

कृतकृत्यं कर्महेतुं साक्षिणं कर्मनिष्कृतिम् ।
सन्निकर्षं विदूरं च कूटस्थं कपटाकृतिम् ॥ १३१॥

सत्वयोनिं सङ्गहीनं साधुपूज्यं सुमानसम् ।
सत्वशुद्धं सत्यरूपं सत्वाकारं सदाशुभम् ॥ १३२॥

श्रीकृष्णं गोकुलप्रेष्ठं वृन्दारण्यनिवासिनम् ।
वन्यजीविसमाकृष्टं मर्क्कटाद्यनुकारिणम् ॥ १३३॥

कोकिलाननुकूजन्तं शब्दघोषरसप्रियम् ।
क्रीडोन्मत्तं चारुनृत्तमाद्यन्तं नरनायकम् ॥ १३४॥

लीलाकृतिं सुनृतं च सकलं सन्नुतं शिवम् ।
हेमाङ्गिनीप्रियं नाथं निर्वैरं पद्ममालिनम् ॥ १३५॥

मणिकण्ठं हंसरूपं वैकुण्ठं पक्षिवाहनम् ।
हंसाधिरूढं लक्ष्मीशं जयं च विजयं शुचि ॥ १३६॥

सुदर्शनं योगिपूज्यं योगेशं च युगेश्वरम् ।
योगेश्वरं योगगम्यं कृष्णं योगेश्वरेश्वरम् ॥ १३७॥

आदिमद्ध्यान्तसंव्याप्तं कालान्तं युगसम्भवम् ।
योगमार्गप्रणेतारं सुकृतं ब्रह्मचारिणम् ॥ १३८॥

कामकोटिविजेतारमानकदुन्दुभिप्रियम् ।
प्रेमसूत्रनिबद्धं च भवबन्धविमोचकम् ॥ १३९॥

गीताचार्यं कालरूपं विश्वरूपप्रदर्श्शकम् ।
ज्ञानविज्ञानरूपं च मधुरप्रेमभाषणम् ॥ १४०॥

ऋतुराजं वसन्ताभं शरद्वन्द्यं प्रवर्षणम् ।
ग्रीष्मवेगं च हेमन्तं शिशिरं शिशुसन्निभम् ॥ १४१॥

मयूरकुक्कुटसखं मेघगर्जनघोषणम् ।
मेघनादं मेघनिभं मयूरप्रियकारिणम् ॥ १४२॥

कालिन्दीसलिलोन्मज्जं केयूराद्यैरलङ्कृतम् ।
हस्तताडनसुक्रीडं गोपकन्याप्रपूजितम् ॥ १४३॥

कात्त्यायनीनुतं कीर्त्तिं कात्त्यायन्यर्चितं श्रियम् ।
इष्टदेवं पूजनीयं प्रार्त्थितं च पतिं प्रभुम् ॥ १४४॥

कन्यार्चितं कामवरमकामं कामनाशनम् ।
सम्मोहनं वरिष्टं च कामिनीकामदं जितम् ॥ १४५॥

जितमोहं कामरूपं मोहिनीवेषधारिणम् ।
जितदैत्यं देवदूतं देवकार्यसुरक्षकम् ॥ १४६॥

प्रेमामृतं चिदमृतं ज्ञानामृतविवर्षणम् ।
निर्मोहं निस्पृहं युक्तं निरासक्तं निजाशयम् ॥ १४७॥

भूतं भूतादिकं भव्यं निर्दोषं दोषवर्जितम् ।
निरीहं नन्दपुत्रं च यशोदानन्दवर्धनम् ॥ १४८॥

भवोन्मुखं भवातीतं भविष्यन्तं भवाश्रितम् ।
भवमोहविनिर्मुक्तं निर्भवं भवरूपिणम् ॥ १४९॥

तैजसं ज्योतिरादित्यं प्रकाशं तेजसाम्पतिम् ।
ज्योतिर्मुखं च चिज्ज्योतिर्भास्करं रविमण्डलम् ॥ १५०॥

चन्द्रप्रभं मेघनीलमनन्तकिरणोद्भवम् ।
दिव्याकाशं नीलजालमानीलं नीलवर्षणम् ॥ १५१॥

नीलार्णवं नीलनीलं सुनीलं नीलसुन्दरम् ।
नीलं च नीलसर्वाङ्गं नीलारम्भं सुनीलकम् ॥ १५२॥

कामारिं कामवेगं च सर्वकामवरं स्मरम् ।
कंसारिं कालकालं च कंससौभाग्यपूरकम् ॥ १५३॥

द्वारकाधिपतिं श्रीशं रुक्मिणीसहितं श्रियम् ।
जगदीशं पार्त्थसखं सत्यभामारतं पतिम् ॥ १५४॥

सर्वलोककुटुम्बस्थं प्रेमसाम्राज्यनायकम् ।
षोडशस्त्रीसहस्रेशं मानिनीमानसप्रियम् ॥ १५५॥

पयोधिवासिनं कृष्णं पयञ्चोरं पयोनिधिम् ।
राधाप्रेमपयःप्रीतं प्रेमपायसलोलुपम् ॥ १५६॥

प्रणवं प्रणवावन्तःस्थं नादबिन्दुकलादिकम् ।
नादान्तःस्थं नादसूक्ष्मं बिन्दुं नादसुमङ्गलम् ॥ १५७॥

ओङ्कारं स्वरसम्पुष्टं क्लीन्नादं स्वरसंयुतम् ।
स्वररागसुधासेव्यं वैखरीरवकूजनम् ॥ १५८॥

भावयुक्तं भाववेगं भावपूर्णं भवच्छिदम् ।
भावोज्ज्वलं भावरूपं भववेगविमोचकम् ॥ १५९॥

भवोत्तारं भगवतं भवमोक्षं भवेतरम् ।
भवोपेतं भवान्तःस्थं भजनीयं पराङ्मुखम् ॥ १६०॥

अनिष्टमिष्टं सम्पुष्टं सुस्वरं कलकूजनम् ।
रासक्रीडासमासक्तं गोपिकाप्रेष्ठनायकम् ॥ १६१॥

प्रज्ञानं सुप्रधानं च प्रकटं पुरुषेश्वरम् ।
विरजस्कं सत्वपूर्णं मनोनिलयमद्भुतम् ॥ १६२॥

वाचामगोचरं व्यक्तनजनिं जन्मनाशनम् ।
मर्त्त्यं मृत्युविहीनं च नृरूपं यादवोत्भवम् ॥ १६३॥

अरण्यवासं योगेन्द्रमभिवन्द्यं सुदर्शनम् ।
आत्माभिधं श्रुतिस्तुत्यं कूटस्थं कूटपूरुषम् ॥ १६४॥

दिग्विलासं दैविकं च देवकार्यवरप्रदम् ।
उपेन्द्रं हृदयान्तःस्थं वामनं दानवार्चितम् ॥ १६५॥

बलिदर्पहरं ह्रस्वं यज्ञवाटसमागतम् ।
त्रिपदं भुवनव्याप्तं विप्रं कपटभाषिणम् ॥ १६६॥

त्रिपदाक्रान्तभुवनं विक्रमं च त्रिविक्रमम् ।
अहम्ममादिहन्तारं वटुवामनरूपिणम् ॥ १६७॥

ब्रह्म ब्रह्ममयं विष्णुं ब्रह्माख्यं जगदीश्वरम् ।
शिवं शिवकरं शुद्धं मार्क्काण्डेयवरप्रदम् ॥ १६८॥

मायातीतं मायिनं च मायाश्रितममायकम् ।
नित्यमुक्तस्वभावं च मायागुणविवर्जितम् ॥ १६९॥

मायागुणं निमायं च मायेशं त्रिगुणात्मकम् ।
त्रिमूर्त्तिं त्रिगुणोद्भूतं मायासङ्गविमोचकम् ॥ १७०॥

आनन्दं च प्रमोदं च मङ्गलं सर्वमङ्गलम् ।
सूक्ष्मादिसूक्ष्मं प्रकटं सूक्ष्मतत्त्वं च सूक्ष्मगम् ॥ १७१॥

श्रीकृष्णचन्द्रं श्रीनाथं राधाप्रेमाधिकप्रियम् ।
श्रीवत्साङ्कं श्रीनिकेतं व्रजनारीविमोहनम् ॥ १७२॥

श्यामलं कोमलं वन्दे, यदुनाथं यदूत्तमम् ।
सुन्दरं वेणुगोपालं चिन्मयं सुमनोहरम् ॥ १७३॥

हृदयस्थं सदा वन्दे, वन्दे प्रेमपयोनिधिम् ।
कृष्णं वन्दे प्रियात्मानं, वन्दे राधेशसुन्दरम् ॥ १७४॥

इति स्वामि ईश्वरानन्दसरस्वती विरचितं
श्री श्रीकृष्णसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीकृष्णसहस्रनामस्तोत्रम् PDF

श्रीकृष्णसहस्रनामस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App