॥श्री सुब्रह्मण्य करावलम्ब स्तोत्रम्॥
हे स्वामिनाथ! करुणाकर दीनबन्धो,
श्रीपार्वतीशमुखपङ्कजपद्मबन्धो ।
श्रीशादिदेवगणपूजितपादपद्म,
वल्लीशनाथ मम देहि करावलम्बम् ॥
देवाधिदेवसुत देवगणाधिनाथ,
देवेन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद ।
देवर्षिनारदमुनीन्द्रसुगीतकीर्ते,
वल्लीशनाथ मम देहि करावलम्बम् ॥
नित्यान्नदाननिरताखिलरोगहारिन्,
भाग्यप्रदानपरिपूरितभक्तकाम ।
शृत्यागमप्रणववाच्यनिजस्वरूप,
वल्लीशनाथ मम देहि करावलम्बम् ॥
क्रौञ्चासुरेन्द्रपरिखण्डन शक्तिशूल-,
चापादिशस्त्रपरिमण्डितदिव्यपाणे ।
श्रीकुण्डलीशधरतुण्डशिखीन्द्रवाहधृततुण्ड,
वल्लीशनाथ मम देहि करावलम्बम् ॥
देवाधिदेवरथमण्डलमध्यवेऽद्य,
देवेन्द्रपीठनकरं दृढचापहस्तम् ।
शूरं निहत्य सुरकोटिभिरीड्यमान,
वल्लीशनाथ मम देहि करावलम्बम् ॥
हारादिरत्नमणियुक्तकिरीटहार,
केयूरकुण्डललसत्कवचाभिरामम् ।
हे वीर तारकजयामरवृन्दवन्द्य,
वल्लीशनाथ मम देहि करावलम्बम् ॥
पञ्चाक्षरादिमनुमन्त्रितगाङ्गतोयैः,
पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ।
पट्टाभिषिक्तहरियुक्त परासनाथ,
वल्लीशनाथ मम देहि करावलम्बम् ॥
श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या,
कामादिरोगकलुषीकृतदुष्टचित्तम् ।
सिक्त्वा तु मामव कलाधरकान्तिकान्त्या,
वल्लीशनाथ मम देहि करावलम्बम् ॥
सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजोत्तमाः ।
ते सर्वे मुक्तिमायान्ति सुब्रह्मण्यप्रसादतः ॥
सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठेत् ।
कोटिजन्मकृतं पापं तत्क्षणादेव नश्यति ॥
॥ इति श्रीसुब्रह्मण्य करावलम्बस्तोत्रं सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now