Download HinduNidhi App
Misc

श्री दत्तात्रेयाष्टकम्

Dattatreya Ashtakam Hindi

MiscAshtakam (अष्टकम संग्रह)हिन्दी
Share This

|| श्री दत्तात्रेयाष्टकम् ||

श्रीदत्तात्रेयाय नमः ।

आदौ ब्रह्ममुनीश्वरं हरिहरं सत्त्वं-रजस्तामसं
ब्रह्माण्डं च त्रिलोकपावनकरं त्रैमूर्तिरक्षाकरम् ।
भक्तानामभयार्थरूपसहितं सोऽहं स्वयं भावयन्
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥

विश्वं विष्णुमयं स्वयं शिवमयं ब्रह्मामुनीन्द्रोमयं
ब्रह्मेन्द्रादिसुरागणार्चितमयं सत्यं समुद्रोमयम् ।
सप्तं लोकमयं स्वयं जनमयं मध्यादिवृक्षोमयं
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥

आदित्यादिग्रहा स्वधाऋषिगणं वेदोक्तमार्गे स्वयं
वेदं शास्त्र-पुराणपुण्यकथितं ज्योतिस्वरूपं शिवम् ।
एवं शास्त्रस्वरूपया त्रयगुणैस्त्रैलोक्यरक्षाकरं
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥

उत्पत्ति-स्थिति-नाशकारणकरं कैवल्यमोक्षप्रदं
कैलासादिनिवासिनं शशिधरं रुद्राक्षमालागलम् ।
हस्ते चाप-धनुःशराश्च मुसलं खट्वाङ्गचर्माधरं
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥

शुद्धं चित्तमयं सुवर्णमयदं बुद्धिं प्रकाशोमयं
भोग्यं भोगमयं निराहतमयं मुक्तिप्रसन्नोमयम् ।
दत्तं दत्तमयं दिगम्बरमयं ब्रह्माण्डसाक्षात्करं
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥

सोऽहंरूपमयं परात्परमयं निःसङ्गनिर्लिप्तकं
नित्यं शुद्धनिरञ्जनं निजगुरुं नित्योत्सवं मङ्गलम् ।
सत्यं ज्ञानमनन्तब्रह्महृदयं व्याप्तं परोदैवतं
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥

काषायं करदण्डधारपुरुषं रुद्राक्षमालागलं
भस्मोद्धूलितलोचनं कमलजं कोल्हापुरीभिक्षणम् ।
काशीस्नानजपादिकं यतिगुरुं तन्माहुरीवासितं
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥

कृष्णातीरनिवासिनं निजपदं भक्तार्थसिद्धिप्रदं
मुक्तिं दत्तदिगम्बरं यतिगुरुं नास्तीति लोकाञ्जनम् ।
सत्यं सत्यमसत्यलोकमहिमा प्राप्तव्यभाग्योदयं
सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥

इति श्रीमच्छङ्कराचार्यविरचितं श्रीदत्ताष्टकं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
श्री दत्तात्रेयाष्टकम् PDF

Download श्री दत्तात्रेयाष्टकम् PDF

श्री दत्तात्रेयाष्टकम् PDF

Leave a Comment