Misc

एकदंत शरणागति स्तोत्र

Ekadanta Sharanagati Stotram Hindi Lyrics

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| एकदंत शरणागति स्तोत्र ||

सदात्मरूपं सकलादि- भूतममायिनं सोऽहमचिन्त्यबोधम्।

अनादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः।

अनन्तचिद्रूपमयं गणेशमभेदभेदादि- विहीनमाद्यम्।

हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः।

समाधिसंस्थं हृदि योगिनां यं प्रकाशरूपेण विभातमेतम्।

सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजामः।

स्वबिम्बभावेन विलासयुक्तां प्रत्यक्षमायां विविधस्वरूपाम्।

स्ववीर्यकं तत्र ददाति यो वै तमेकदन्तं शरणं व्रजामः।

त्वदीयवीर्येण समर्थभूतस्वमायया संरचितं च विश्वम्।

तुरीयकं ह्यात्मप्रतीतिसंज्ञं तमेकदन्तं शरणं व्रजामः।

स्वदीयसत्ताधरमेकदन्तं गुणेश्वरं यं गुणबोधितारम्।

भजन्तमत्यन्तमजं त्रिसंस्थं तमेकदन्तं शरणं व्रजामः।

ततस्वया प्रेरितनादकेन सुषुप्तिसंज्ञं रचितं जगद्वै।

समानरूपं ह्युभयत्रसंस्थं तमेकदन्तं शरणं व्रजामः।

तदेव विश्वं कृपया प्रभूतं द्विभावमादौ तमसा विभान्तम्।

अनेकरूपं च तथैकभूतं तमेकदन्तं शरणं व्रजामः।

ततस्त्वया प्रेरितकेन सृष्टं बभूव सूक्ष्मं जगदेकसंस्थम्।

सुसात्त्विकं स्वप्नमनन्तमाद्यं तमेकदन्तं शरण व्रजामः।

तदेव स्वप्नं तपसा गणेश सुसिद्धरूपं विविधं बभूव।

सदैकरूपं कृपया च तेऽद्य तमेकदन्तं शरणं व्रजामः।

त्वदाज्ञया तेन त्वया हृदिस्थं तथा सुसृष्टं जगदंशरूपम्।

विभिन्नजाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजामः।

तदेव जाग्रद्रजसा विभातं विलोकितं त्वत्कृपया स्मृतेन।

बभूव भिन्नं च सदैकरूपं तमेकदन्तं शरणं व्रजामः।

सदेव सृष्ट्वा प्रकृतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम्।

धियः प्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजामः।

त्वदाज्ञया भान्ति ग्रहाश्च सर्वे प्रकाशरूपाणि विभान्ति खे वै।

भ्रमन्ति नित्यं स्वविहारकार्यास्त- मेकदन्तं शरणं व्रजामः।

त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः।

त्वदाज्ञया संहरको हरोऽपि तमेकदन्तं शरणं व्रजामः।

यदाज्ञया भूमिजलेऽत्र संस्थे यदाज्ञयापः प्रवहन्ति नद्यः।

स्वतीर्थसंस्थश्च कृतः समुद्रस्तमेकदन्तं शरणं व्रजामः।

यदाज्ञया देवगणा दिविस्था यच्छन्ति वै कर्मफलानि नित्यम्।

यदाज्ञया शैलगणाः स्थिरा वै तमेकदन्तं शरणं व्रजामः।

यदाज्ञया शेषधराधरो वै यदाज्ञया मोहप्रदश्च कामः।

यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजामः।

यदाज्ञया वाति विभाति वायुर्यदाज्ञयाग्नि- र्जठरादिसंस्थः।

यदाज्ञयेदं सचराचरं च तमेकदन्तं शरणं व्रजामः।

यदन्तरे संस्थितमेकदन्त- स्तदाज्ञया सर्वमिदं विभाति।

अनन्तरूपं हृदि बोधकं यस्तमेकदन्तं शरणं व्रजामः।

सुयोगिनो योगबलेन साध्यं प्रकुर्वते कः स्तवनेन स्तौति।

अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजामः।

Found a Mistake or Error? Report it Now

एकदंत शरणागति स्तोत्र PDF

Download एकदंत शरणागति स्तोत्र PDF

एकदंत शरणागति स्तोत्र PDF

Leave a Comment

Join WhatsApp Channel Download App