Download HinduNidhi App
Shri Radha

श्री राधातापिनी स्तुति

Adhatapini Stuti Hindi

Shri RadhaStuti (स्तुति संग्रह)हिन्दी
Share This

|| श्री राधातापिनी स्तुति ||

सहोवाच ।

का सा राधा कीदृशं रूपं का मूर्तिः किं ध्यानं
किं कीलकं किं बीज्ं को मन्त्रः ॥

का निवाहनानि कत्यङ्गानि किं पुरश्चरणं कः समाधिः ॥

किमनेन साध्यते ॥

किं फलं किं बलं गुणो यथा मन्त्रस्तत्सर्वं ब्रूह्हीति ॥

सहोवाच ।

श्रीराधेति परमप्रकृतिः सैव लक्ष्मीः सरस्वती सैव
लोककर्त्री लोकमाता देवजननी ॥

गोलोकवासिनी गोलोकनियन्त्री वैकुण्ठाधिष्ठात्री रूपं
दाहोवतीर्णा सुवर्णवर्णप्रध्वंसनमूर्तिः ॥

सर्वाङ्गसुन्दरी ध्यानं द्विभुजा
कमलनयना त्रैलोक्यमोहिनी ध्यायेदिति ॥

अथर्वणोक्तध्यानं किं कीलकमिति ॥

सहोवाच ॥

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॥

इति महाकीलकमिति किं बीजमिति ॥

सहोवाच ॥

ॐ श्रीराधिकायै हुं फट् ॥

इति कीलकमेष वै परमो मन्त्रः ॥

इति बीजमुच्यते ॥

को मन्त्र इति सहोवाच ॥

ॐ श्रीं ह्रीं क्लीं हुं फट् स्वाहेति मन्त्रः ॥

एतस्य श्रीभगवान् कृष्णः परमात्मा देवतेति षडक्षरोयं मन्त्र इति ॥

ओमिति बीजं फडिति शक्तिः श्रीमिति कीलकं ह्रीमित्यस्रं
क्लीमिति कीलकमिति चतुर्वर्गसिद्धौ विनियोगः ॥

अथ ध्यानं

श‍ृणु सुवर्णकेतकीवर्णाभ्यां द्विभुजां कमलनयनां
बिम्बोष्ठीं राधिकां कृष्णमनोहरवतीं त्रैलोक्यमोहिनीम् ॥

श्रीमद् वृन्दावननिकेतनां ध्यायेदिति यो जपति शतमष्टोत्तरम् ॥

सर्वलोकाञ्जयति सर्वजनान् वशीकरोति सर्वदेवाधिको भवति ॥

वाञ्छति चेत् पुत्रपौत्रादिकमाप्नोति
सस्वर्गलोकमश्नुते ब्रह्मलोके महीयते
दिक् पालत्वमाप्नोति गन्धर्वविद्यानिपुणो
भवति सङ्गीतविद्याचतुरो भवति
सर्ववेदपारायणं लभते सर्वतीर्थफलमश्नुते ॥

सर्वाँल्लोकाञ्जयति सर्वान् देवाञ्जयति लोकाधिपो भवति ॥

सुतलादिलोकमनोहरो भवति ॥

अर्तीव प्रियतरो भगवद्विष्णोर्भवति ॥

इयं श्रीराधातापिनी पठिता श्रुता गृहे लिखित्वा स्थापिता श्रीमतः ॥

श्रीकृष्णस्य प्रेमभक्तिं कारयति श्रीकृष्णवल्लभो भवति ॥

श्रद्धावान् पठनशील इति ॥

सहोवाच ॥

सर्वलोकासाधारण्यं प्राप्नोति ॥

सर्ववेदपाठजनितपुण्यापुण्यतरो भवति ॥

एवं यो वेदसपरमज्ञानी भवति ॥

परमभागवतो भवति परमसन्तुष्टो भवति ॥

परमाह्लादवान् भवति ॥

एतद् गुप्तं गोलोके ततो मनुष्यलोकमवतीर्णम् ॥

इति ह वेदवेदविद्भवति इत्याथर्वणीयम् ॥

इति श्रीराधातापिनीसमाप्तिमगात् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री राधातापिनी स्तुति PDF

श्री राधातापिनी स्तुति PDF

Leave a Comment