Misc

अघोरमूर्तिस्तोत्रम्

Aghoramurtistotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| अघोरमूर्तिस्तोत्रम् ||

अघोरस्तोत्रं
ॐ श्रीगणेशाय नमः ।
श्रीभैरव उवाच-
कैलाशशिखरासीनं भक्तानुग्रहकाम्यया ।
पप्रच्छ प्रणता देवी भैरवं विगतामयम् ॥ १॥

ब्रह्मादिकारणातीतं स्वशक्त्या नन्दिनिर्भरम् ।
नमामि परमेशानं स्वच्छन्दं वीरनायकम् ॥ २॥

श्रीदेवी उवाच-
प्रायश्चित्तेषु सर्वेषु समयोल्लङ्घनेषु च ।
महाभयेषु घोरेषु तीव्रोपद्रवभूमिषु ॥ ३॥

छिद्रस्थानेषु सर्वेषु उपायं वद मे प्रभो ।
येनायासेन रहितो निर्दोषश्च भवेन्नरः ॥ ४॥

श्रीभैरव उवाच –
श‍ृणु देवि परं गुह्यं रहस्यं परमाद्भुतम् ।
सर्वपापप्रशमनं सर्वदुःखाभयप्रदम् ॥ ५॥

प्रायश्चित्तेषु सर्वेषु तीव्रेष्वपि विशोधनम् ।
सर्वच्छिद्रापहरणं सर्वार्तिविनिवारणम् ॥ ६॥

समयोल्लङ्घने घोरे जपादेव विमोचनम् ।
भोगमोक्षप्रदं चैव सर्वसिद्धिफलावहम् ॥ ७॥

शतं जाप्येन शुद्ध्यन्ति महापातकिनोऽपि ये ।
तदर्द्धं पातकं हन्ति तत्पादेनोपपातकम् ॥ ८॥

कायिकं वाचिकं चैव मानसं स्पर्शदोषजम् ।
प्रसादादिच्छया वापि सकृज्जपेन शुद्ध्यति ॥ ६॥

यागारम्भे च यागान्ते पठितव्यं प्रयत्नतः ।
नित्ये नैमित्तके काम्ये परस्याप्यात्मनोऽपि वा ॥ १०॥

निछिद्रकरणं प्रोक्तमभावपरिपूरकम् ।
द्रव्यहीने मन्त्रहीने ज्ञानयोगविवर्जिते ॥ ११॥

भक्तिश्रद्धाविरहिते शुद्धिशून्ये विशेषतः ।
मनोविक्षेपदोषे च विलोमे पशुवीक्षिते ॥ १२॥

विधिहीने प्रमादे च जप्तव्यं सर्वकर्मसु ।
नातः परतरो मन्त्रो नातः परतरा स्तुतिः ॥ १३॥

नातः परतरा काचित्सम्यक् सत्यं गिरा प्रिये ।
इयं समयविद्यानां राजराजेश्वरी स्तुतिः ॥ १४॥

परमाप्यायनं देवि भैरवस्य प्रकीर्तितम् ।
प्रीणनं सर्वदेवानां सर्वसौभाग्यवर्धनम् ॥ १५॥

स्तवराजमिमं पुण्यं श‍ृणुष्वावहिता प्रिये ।
ॐ नमः परमाकाशशायिने परमात्मने ॥ १६॥

शिवाय परमं शान्तं गिरानन्दपदाय ते ।
अवाच्याय प्रमेयाय प्रमात्रे विश्वहेतवे ॥ १७॥

महासामान्यरूपाय सत्तामात्रैकरूपिणे ।
घोषादिदशधा शब्दबीजभूताय शम्भवे ॥ १८॥

नमः शान्तोग्रघोरादि मन्त्रसंरम्भगर्भिणे ।
रेवतीस्रज विश्रम्भ समाश्लेषविलासिने ॥ १६॥

नमः समरसास्वादपरानन्दोपभोगिने ।
भोगपाणये नमस्तुभ्यं योगीश पूजितात्मने ॥ २०॥

द्वयनिर्मूलनोद्योगसमुल्लासितमूर्तये ।
हरप्रसरविक्षोभविस्पष्टाक्षरमूर्त्तये ॥ २१॥

नमो मायास्वरूपाय स्थाणवे परमेष्ठिने ।
घोरसंसारसम्भोगदायिने स्थितिकारिणे ॥ २२॥

कालादि क्षितिपर्यन्तं पालिने विभवे नमः ।
रोहणाय महामोहध्वान्तविध्वंसहेतवे ॥ २३॥

हृदयाम्बुजसङ्कोचभेदिने शिव मानवे ।
भोगमोक्षफलप्राप्तिहेतुयोगविधायिने ॥ २४॥

नमः परमनिर्वाणदायिने चन्द्रमौलये ।
घोष्याय सर्वमन्त्राणां सर्ववाङ्मयमूर्तये ॥ २५॥

नमः शर्वाय सर्वाय सर्वपापापहारिणे ।
रवणाय रवान्ताय नमोऽतरावराविणे ॥ २६॥

नित्याय सुप्रबुद्धाय सर्वान्तरतमाय ते ।
घोषाय परनादान्तचराय खचराय ते ॥ २७॥

नमो वाक्पतये तुभ्यं भगाय पररूपिणे ।
रवणाय रतीशार्ङ्गदेहिने चित्रकर्मणे ॥ २८॥

नमः शैलसुतामात्रे विश्वकर्त्रे महात्मने ।
नमो मारप्रतिष्ठाय सर्वन्तिपदगाय ते ॥ २६॥

नमः समस्ततत्त्वाय व्यापिने चित्स्वरूपिणे ।
खेद्वाराय भद्राय नमस्ते रूपरूपिणे ॥ ३०॥

परापरपरिस्पन्दमन्दिराय नमोऽस्तु ते ।
भरिताखिलविश्वाय योगगम्याय योगिने ॥ ३१॥

नमः सर्वेश्वरेशाय महाहंसाय शम्भवे ।
चर्व्याय चर्वणीयाय चर्वकाय चराय च ॥ ३२॥

रवीन्दुसन्धिसंस्थाय महाचक्रेश ते नमः ।
सर्वानुस्यूतरूपाय सर्वाच्छादकशक्तये ॥ ३३॥

सर्वभक्षाय शर्वाय नमस्ते सर्वरूपिणे ।
रम्याय वल्लभाक्रान्तदेहार्धाय विनोदिने ॥ ३४॥

नमः प्रसन्नदुष्प्रापसौभाग्यफलदायिने ।
तन्महेशाय तत्त्वाय वेदिने भवभेदिने ॥ ३५॥

महाभैरवनाथाय भक्तिगम्याय ते नमः ।
शक्तिगर्भप्रबोधाय शरण्याय शरीरिणे ॥ ३६॥

शान्तिपुष्ट्यादिसाध्याय साधकाय नमो नमः ।
रवत्कुण्डलिनीगर्भप्रबोधप्राप्तशक्तये ॥ ३७॥

तत्स्फोटनपटुप्रौढपरमाक्षररूपिणे ।
समस्तव्यस्तसङ्ग्रस्तरश्मिजालोदयात्मने ॥ ३८॥

नमस्तुभ्यं महासेनरूपिणे विश्वगर्भिणे ।
रेवारवसमुद्भूतवह्निज्वालावभासिने ॥ ३६॥

घनीभूतविकल्पान्ध्यविश्वबन्धविलापिने ।
भोगिनीस्पन्दनारूढप्रौढमालब्धगर्विणे ॥ ४०॥

नमस्ते सर्वभक्षाय परमामृतलोभिने ।
नभकोटिसमावेशभरिताखिलसृष्टये ॥ ४१॥

नमः शक्तिशरीराय कोटिद्वितयसङ्गिने ।
महामोहसमाक्रान्तजीववर्गविबोधिने ॥ ४२॥

महेश्वराय जगतां नमः कारणबन्धवे ।
स्तेनोन्मूलनदक्षैकत्रितये विश्वमूर्त्तये ॥ ४३॥

नमस्तेऽस्तु महादेवनाम्ने परसुधात्मने ।
रुग्द्राविणे महावीर्य रुरुवंशविनाशिने ॥ ४४॥

रुद्राय द्राविताशेषबन्धनाय नमो नमः ।
द्रवत्यररसास्वादचर्वणोद्युक्तये नमः ॥ ४५॥

नमस्त्रिदशपूज्याय सर्वकारणहेतवे ।
रूपातीत नमस्तुभ्यं नमस्ते बहुरूपिणे ॥ ४६॥

त्र्यम्बकाय त्रिधा मातश्चारिणे च त्रिचक्षुषे ।
पेशलोपायलभ्याय भक्तिभाजां महात्मनाम् ॥ ४७॥

दुर्लभाय महाक्रान्तचेतसां तु नमो नमः ।
भयप्रदाय दुष्टानां भवाय भयभेदिने ॥ ४८॥

भव्याय त्वन्मयानां तु सर्वदाय नमो नमः ।
अणूनां मुक्तये घोरघोरसंसारदायिने ॥ ४६॥

घोरातिघोरमूढानां तिरस्कर्त्रे नमोऽस्तु ते ।
इत्येवं स्तोत्रराजेन्द्रं महाभैरवभाषितम् ॥ ५०॥

योगिनीनां परं सारं न दद्याद्यस्य कस्याचित् ।
अदीक्षिते शठे क्रूरे निस्सत्ये शुचिवर्जिते ॥ ५१॥

नास्तिके च खले मूर्खे प्रमत्ते विलुप्तेऽलसे ।
गुरुशास्त्रसदाचारदूषके कलहप्रिये ॥ ५२॥

निर्दये चुम्बके क्षुद्रे समयघ्नेऽथ दाम्भिके ।
दाक्षिण्यरहिते पापे धर्महीनेऽथ गर्विते ॥ ५३॥

पशूनां सन्निधौ देवि नोच्चार्यं सर्वथा क्वचित् ।
अस्य संस्मृतमात्रस्य विघ्ना नश्यन्ति सर्वशः ॥ ५४॥

गुह्यका यातुधानाश्च वेताला राक्षसादयः ।
डामराश्च पिशाचाश्च क्रूरसत्त्वाश्च पूतनाः ॥ ५५॥

ब्याधिदुर्भिक्षदौर्भाग्यमारिमोहविषादयः ।
गजव्याघ्रादयो दुष्टाः पलायन्ते च सर्वशः ।
सर्वे दुष्टाः प्रणश्यन्ति इत्याज्ञा पारमेश्वरी ॥ ५६॥

॥ इति अघोरस्तोत्रं समाप्तम् ॥

Found a Mistake or Error? Report it Now

Download अघोरमूर्तिस्तोत्रम् PDF

अघोरमूर्तिस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App