Misc

अक्रूर कृत दशावतार स्तुतिः

Akrura Kruta Dasavatara Stotram Sanskrit Lyrics

Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| अक्रूर कृत दशावतार स्तुतिः ||

नमः कारणमत्स्याय प्रलयाब्धिचराय च ।
हयशीर्ष्णे नमस्तुभ्यं मधुकैटभमृत्यवे ॥ १ ॥

अकूपाराय बृहते नमो मन्दरधारिणे ।
क्षित्युद्धारविहाराय नमः शूकरमूर्तये ॥ २ ॥

नमस्तेऽद्भुतसिंहाय साधुलोकभयापह ।
वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च ॥ ३ ॥

नमो भृगूणां पतये दृप्तक्षत्रवनच्छिदे ।
नमस्ते रघुवर्याय रावाणान्तकराय च ॥ ४ ॥

नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।
प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ ५ ॥

नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने ।
म्लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे ॥ ६ ॥

इति श्रीमद्भगवते महापुराणे दशमस्कन्धे चत्वारिंशोऽध्याये श्री अक्रूरकृत दशावतारस्तुतिः ॥

Found a Mistake or Error? Report it Now

Download अक्रूर कृत दशावतार स्तुतिः PDF

अक्रूर कृत दशावतार स्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App