Misc

अष्टदिक्पालकस्तोत्रम्

Ashtadikpalakastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| अष्टदिक्पालकस्तोत्रम् ||

श्री इन्द्रस्तुतिः – पूर्व (East)
ऐरावतगजारूढं स्वर्णवर्णं किरीटिनम् ।
सहस्रनयनं शक्रं वज्रपाणिं विभावयेत् ॥ १॥

श्री अग्निस्तुतिः – आग्नेय (Southeast)
सप्तार्चिषं च बिभ्राणमक्षमालां कमण्डलुम् ।
ज्वालमालाकुलं रक्तं शक्तिहस्तं चकासतम् ॥ २॥

श्री यमस्तुतिः – दक्षिण (South)
कृतान्तं महिषारूढं दण्डहस्तं भयानकम् ।
कालपाशधरं कृष्णं ध्यायेत् दक्षिणदिक्पतिम् ॥ ३॥

श्री निरृत्यस्तुतिः – नैरृत्य (Southwest)
रक्तनेत्रं शवारूढं नीलोत्पलदलप्रभम् ।
कृपाणपाणिमस्रौघं पिबन्तं राक्षसेश्वरम् ॥ ४॥

श्री वरुणस्तुतिः – पश्चिम (West)
नागपाशधरं हृष्टं रक्तौघद्युतिविग्रहम् ।
शशाङ्कधवलं ध्यायेत् वरुणं मकरासनम् ॥ ५॥

श्री वायुस्तुतिः – वायव्य (Northwest)
आपीतं हरितच्छायं विलोलध्वजधारिणम् ।
प्राणभूतं च भूतानां हरिणस्थं समीरणम् ॥ ६॥

श्री कुबेरस्तुतिः – उत्तर (North)
कुबेरं मनुजासीनं सगर्वं गर्वविग्रहम् ।
स्वर्णच्छायं गदाहस्तमुत्तराधिपतिं स्मरेत् ॥ ७॥

श्री ईशानस्तुतिः – ईशान्य (Northeast)
वृषभारूढं त्रिशूलं व्यालधारिणम् ।
शरच्चन्द्रसमाकारं त्रिनेत्रं नीलकण्ठकम् ॥ ८॥

इति अष्टदिक्पालकस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download अष्टदिक्पालकस्तोत्रम् PDF

अष्टदिक्पालकस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App