|| अश्विनीकुमारस्तोत्रम् ||
श्रीगणेशाय नमः ।
प्रपूर्वगौ पूर्वजौ चित्रभानू गिरा वां शंसामि तपसा ह्यनन्तौ ।
दिव्यौ सुपर्णौ विरजौ विमानावधिक्षिपन्तौ भुवनानि विश्वा ॥ १॥
हिरण्मयौ शकुनी साम्परायौ नासत्यदस्रौ सुनसौ वैजयन्ती ।
शुक्लं वयन्तौ तरसा सुवेमावधिव्ययन्तावसितं विवस्वतः ॥ २॥
ग्रस्तां सुपर्णस्य बलेन वर्तिकाममुञ्चतावश्विनौ सौभगाय ।
तावत्सुवृत्ता वनमन्तमाययावसत्तमा गा अरुणा उदावहत् ॥ ३॥
षष्टिश्च गावस्त्रिशताश्च धेनव एकं वत्सं सुवते तं दुहन्ति ।
नानागोष्ठा विहिता एकदोहनास्तावश्विनो दुहतो धर्ममुक्थ्यम् ॥ ४॥
एकां नाभि सप्तशता अराः श्रिताः प्रधिष्वन्या विंशतिरर्पिता अराः ।
अनेमिचक्रं परिवर्ततेऽजरं मायाश्विनौ समनक्ति चर्षणी ॥ ५॥
एकं चक्रं वर्तते द्वादशारं षण्णाभिमेकाक्षममृतस्य धारणम् ।
यस्मिन्देवा अधिविश्वे विषक्तास्तावश्विनौ मुञ्चतो मा विषीदतम् ॥ ६॥
आश्विनाविन्दुममृतं वृत्तभूयौ तिरोधत्तामश्विनौ दासपत्नी ।
हित्वा गिरिमश्विनौ गामुदाचरन्तौ तद्वृष्टिमह्नात्प्रथितौ बलस्य ॥ ७॥
युवां दिशो जनयथो दशाग्रे समानं मूर्ध्नि रथयानं वियन्ति ।
तासां यातमृषयोऽनुप्रयान्ति देवा मनुष्याः क्षितिमाचरन्ति ॥ ८॥
युवां वणान्विकुरुथो विश्वरूपांस्तेऽधिक्षियन्ते भुवनानि विश्वा ।
ते भानवोऽप्यनुसृताश्चरन्ति देवा मनुष्याः क्षितिमाचरन्ति ॥ ९॥
तौ नासत्यावश्विनौ वां महेऽहं स्रजं च यां बिभृथः पुष्करस्य ।
तौ नासत्यावमृतावृतावृधावृते देवास्तत्प्रमदे न सूते ॥ १०॥
मुखेन गर्भं लभतां युवानौ गतासुरेतत्प्रपदेन सूते ।
सद्यो जातो मातरमत्ति गर्भस्तावश्विनौ मुञ्चथो जीवसे गाम् ॥ ११॥
स्तोतुं न शक्नोमि गुणैभर्वन्तौ चक्षुर्विहीनः पथि सम्प्रमोहः ।
दुर्गेऽहमस्मिन्पतितोऽस्मि कूपे युवां शरण्यौ शरणं प्रपद्ये ॥ १२॥
इति श्रीमन्महाभारत आदिपर्वण्यश्विनीकुमारस्तोत्रं सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now