
बाल मुकुंदाष्टकम् PDF संस्कृत
Download PDF of Bal Mukundashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
बाल मुकुंदाष्टकम् संस्कृत Lyrics
|| बाल मुकुंदाष्टकम् ||
करारविंदेन पदारविंदं
मुखारविंदे विनिवेशयंतम् ।
वटस्य पत्रस्य पुटे शयानं
बालं मुकुंदं मनसा स्मरामि ॥
संहृत्य लोकान्वटपत्रमध्ये
शयानमाद्यंतविहीनरूपम् ।
सर्वेश्वरं सर्वहितावतारं
बालं मुकुंदं मनसा स्मरामि ॥
इंदीवरश्यामलकोमलांगं
इंद्रादिदेवार्चितपादपद्मम् ।
संतानकल्पद्रुममाश्रितानां
बालं मुकुंदं मनसा स्मरामि ॥
लंबालकं लंबितहारयष्टिं
शृंगारलीलांकितदंतपंक्तिम् ।
बिंबाधरं चारुविशालनेत्रं
बालं मुकुंदं मनसा स्मरामि ॥
शिक्ये निधायाद्यपयोदधीनि
बहिर्गतायां व्रजनायिकायाम् ।
भुक्त्वा यथेष्टं कपटेन सुप्तं
बालं मुकुंदं मनसा स्मरामि ॥
कलिंदजांतस्थितकालियस्य
फणाग्ररंगेनटनप्रियंतम् ।
तत्पुच्छहस्तं शरदिंदुवक्त्रं
बालं मुकुंदं मनसा स्मरामि ॥
उलूखले बद्धमुदारशौर्यं
उत्तुंगयुग्मार्जुन भंगलीलम् ।
उत्फुल्लपद्मायत चारुनेत्रं
बालं मुकुंदं मनसा स्मरामि ॥
आलोक्य मातुर्मुखमादरेण स्तन्यं
पिबंतं सरसीरुहाक्षम् ।
सच्चिन्मयं देवमनंतरूपं
बालं मुकुंदं मनसा स्मरामि ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowबाल मुकुंदाष्टकम्

READ
बाल मुकुंदाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
