Download HinduNidhi App
Misc

बाल मुकुंद पंचक स्तोत्र

Bala Mukunda Panchaka Stotram Hindi

MiscStotram (स्तोत्र निधि)हिन्दी
Share This

|| बाल मुकुंद पंचक स्तोत्र ||

अव्यक्तमिन्द्रवरदं वनमालिनं तं
पुण्यं महाबलवरेण्यमनादिमीशम्।

दामोदरं जयिनमद्वयवेदमूर्तिं
बालं मुकुन्दममरं सततं नमामि।

गोलोकपुण्यभवने च विराजमानं
पीताम्बरं हरिमनन्तगुणादिनाथम्।

राधेशमच्युतपरं नरकान्तकं तं
बालं मुकुन्दममरं सततं नमामि।

गोपीश्वरं च बलभद्रकनिष्ठमेकं
सर्वाधिपं च नवनीतविलेपिताङ्गम्।

मायामयं च नमनीयमिळापतिं तं
बालं मुकुन्दममरं सततं नमामि।

पङ्केरुहप्रणयनं परमार्थतत्त्वं
यज्ञेश्वरं सुमधुरं यमुनातटस्थम्।

माङ्गल्यभूतिकरणं मथुराधिनाथं
बालं मुकुन्दममरं सततं नमामि।

संसारवैरिणमधोक्षजमादिपूज्यं
कामप्रदं कमलमाभमनन्तकीर्तिम्।

नारायणं सकलदं गरुडध्वजं तं
बालं मुकुन्दममरं सततं नमामि।

कृष्णस्य संस्तवमिमं सततं जपेद्यः
प्राप्नोति कृष्णकृपया निखिलार्थभोगान्।

पुण्यापवर्गसकलान् सकलान् निकामान्
निःशेषकीर्तिगुणगानवरान् नरः सः।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download बाल मुकुंद पंचक स्तोत्र PDF

बाल मुकुंद पंचक स्तोत्र PDF

Leave a Comment