|| बलरामसहस्रनामस्तोत्रम् ||
दुर्योधन उवाच
बलभद्रस्य देवस्य प्राड्विपाक महामुने ।
नाम्नां सहस्रं मे ब्रूहि गुह्यं देवगणैरपि ॥ १॥
प्राड्विपाक उवाच
साधु साधु महाराज साधु ते विमलं यशः ।
यत्पृच्छसे परमिदं गर्गोक्तं देवदुर्लभम् ॥ २॥
नाम्नां सहस्रं दिव्यानां वक्ष्यामि तव चाग्रतः ।
गर्गाचार्येण गोपीभ्यो दत्तं कृष्णातटे शुभे ॥ ३॥
ॐ अस्य श्रीबलभद्रसहस्रनामस्त्रोत्रमन्त्रस्य
गर्गाचार्य ऋषिः अनुष्टुप् छन्दः
सङ्कर्षणः परमात्मा देवता बलभद्र इति बीजं
रेवतीति शक्तिः अनन्त इति कीलकं
बलभद्रप्रीत्यर्थे जपे विनियोगः ॥
अथ ध्यानम् ।
स्फुरदमलकिरीटं किङ्किणीकङ्कणार्हं
चलदलककपोलं कुण्डलश्रीमुखाब्जम् ।
तुहिनगिरिमनोज्ञं नीलमेघाम्बराढ्यं
हलमुसलविशालं कामपालं समीडे ॥ ४॥
अथ स्तोत्रम् ।
ॐ बलभद्रो रामभद्रो रामः सङ्कर्षणोऽच्युतः ।
रेवतीरमणो देवः कामपालो हलायुधः ॥ ५॥
नीलाम्बरः श्वेतवर्णो बलदेवोऽच्युताग्रजः ।
प्रलम्बघ्नो महावीरो रौहिणेयः प्रतापवान् ॥ ६॥
तालाङ्को मुसली हली हरिर्यदुवरो बली ।
सीरपाणिः पद्मपाणिर्लगुडी वेणुवादनः ॥ ७॥
कालिन्दीभेदनो वीरो बलः प्रबल ऊर्ध्वगः ।
वासुदेवकलानन्तः सहस्रवदनः स्वराट् ॥ ८॥
वसुर्वसुमतीभर्ता वासुदेवो वसूत्तमः ।
यदूत्तमो यादवेन्द्रो माधवो वृष्णिवल्लभः ॥ ९॥
द्वारकेशो माथुरेशो दानी मानी महामनाः ।
पूर्णः पुराणः पुरुषः परेशः परमेश्वरः ॥ १०॥
परिपूर्णतमः साक्षात्परमः पुरुषोत्तमः ।
अनन्तः शाश्वतः शेषो भगवान्प्रकृतेः परः ॥ ११॥
जीवात्मा परमात्मा च ह्यन्तरात्मा ध्रुवोऽव्ययः ।
चतुर्व्यूहश्चतुर्वेदश्चतुर्मूर्तिश्चतुष्पदः ॥ १२॥
प्रधानं प्रकृतिः साक्षी सङ्घातः सङ्घवान् सखी ।
महामना बुद्धिसखश्चेतोऽहङ्कार आवृतः ॥ १३॥
इन्द्रियेशो देवातात्मा ज्ञानं कर्म च शर्म च ।
अद्वितीयो द्वितीयश्च निराकारो निरञ्जनः ॥ १४॥
विराट् सम्राट् महौघश्च धारः स्थास्नुश्चरिष्णुमान् ।
फणीन्द्रः फणिराजश्च सहस्रफणमण्डितः ॥ १५॥
फणीश्वरः फणी स्फूर्तिः फूत्कारी चीत्करः प्रभुः ।
मणिहारो मणिधरो वितली सुतली तली ॥ १६॥
अतली सुतलेशश्च पातालश्च तलातलः ।
रसातलो भोगितलः स्फुरद्दन्तो महातलः ॥ १७॥
वासुकिः शङ्खचूडाभो देवदत्तो धनञ्जयः ।
कम्बलाश्वो वेगतरो धृतराष्ट्रो महाभुजः ॥ १८॥
वारुणीमदमत्ताङ्गो मदघूर्णितलोचनः ।
पद्माक्षः पद्ममाली च वनमाली मधुश्रवाः ॥ १९॥
कोटिकन्दर्पलावण्यो नागकन्यासमर्चितः ।
नूपुरी कटिसूत्री च कटकी कनकाङ्गदी ॥ २०॥
मुकुटी कुण्डली दण्डी शिखण्डी खण्डमण्डली ।
कलिः कलिप्रियः कालो निवातकवचेश्वरः ॥ २१॥
संहारकृद्रुर्द्रवपुः कालाग्निः प्रलयो लयः ।
महाहिः पाणिनिः शास्त्रभाष्यकारः पतञ्जलिः ॥ २२॥
कात्यायनः पक्विमाभः स्फोटायन उरङ्गमः ।
वैकुण्ठो याज्ञिको यज्ञो वामनो हरिणो हरिः ॥ २३॥
कृष्णो विष्णुर्महाविष्णुः प्रभविष्णुर्विशेषवित् ।
हंसो योगेश्वरः कूर्मो वाराहो नारदो मुनिः ॥ २४॥
सनकः कपिलो मत्स्यः कमठो देवमङ्गलः ।
दत्तात्रेयः पृथुर्वृद्ध ऋषभो भार्गवोत्तमः ॥ २५॥
धन्वन्तरिर्नृसिंहश्च कलिर्नारायणो नरः ।
रामचन्द्रो राघवेन्द्रः कोशलेन्द्रो रघूद्वहः ॥ २६॥
काकुत्स्थः करुणासिन्धू राजेन्द्रः सर्वलक्षणः ।
शूरो दाशरथिस्त्राता कौसल्यानन्दवर्द्धनः ॥ २७॥
सौमित्रिर्भरतो धन्वी शत्रुघ्नः शत्रुतापनः ।
निषङ्गी कवची खड्गी शरी ज्याहतकोष्ठकः ॥ २८॥
बद्धगोधाङ्गुलित्राणः शम्भुकोदण्डभञ्जनः ।
यज्ञत्राता यज्ञभर्ता मारीचवधकारकः ॥ २९॥
असुरारिस्ताटकारिर्विभीषणसहायकृत् ।
पितृवाक्यकरो हर्षी च विराधारिर्वनेचरः ॥ ३०॥
मुनिर्मुनिप्रियश्चित्रकूटारण्यनिवासकृत् ।
कबन्धहा दण्डकेशो रामो राजीवलोचनः ॥ ३१॥
मतङ्गवनसञ्चारी नेता पञ्चवटीपतिः ।
सुग्रीवः सुग्रीवसखो हनुमत्प्रीतमानसः ॥ ३२॥
सेतुबन्धो रावणारिर्लङ्कादहनतत्परः ।
रावण्यरिः पुष्पकस्थो जानकीविरहातुरः ॥ ३३॥
अयोध्याधिपतिः श्रीमाँल्लवणारिः सुरार्चितः ।
सूर्यवंशी चन्द्रवंशी वंशीवाद्यविशारदः ॥ ३४॥
गोपतिर्गोपवृन्देशो गोपो गोपीशतावृतः ।
गोकुलेशो गोपपुत्रो गोपालो गोगणाश्रयः ॥ ३५॥
पूतनारिर्बकारिश्च तृणावर्तनिपातकः ।
अघारिर्धेनुकारिश्च प्रलम्बारिर्व्रजेश्वरः ॥ ३६॥
अरिष्टहा केशिशत्रुर्व्योमासुरविनाशकृत् ।
अग्निपानो दुग्धपानो वृन्दावनलताश्रितः ॥ ३७॥
यशोमतिसुतो भव्यो रोहिणीलालितः शिशुः ।
रासमण्डलमध्यस्थो रासमण्डलमण्डनः ॥ ३८॥
गोपिकाशतयूथार्थी शङ्खचूडवधोद्यतः ।
गोवर्धनसमुद्धर्ता शक्रजिद्व्रजरक्षकः ॥ ३९॥
वृषभानुवरो नन्द आनन्दो नन्दवर्धनः ।
नन्दराजसुतः श्रीशः कंसारिः कालियान्तकः ॥ ४०॥
रजकारिर्मुष्टिकारिः कंसकोदण्डभञ्जनः ।
चाणूरारिः कूटहन्ता शलारिस्तोशलान्तकः ॥ ४१॥
कंसभ्रातृनिहन्ता च मल्लयुद्धप्रवर्तकः ।
गजहन्ता कंसहन्ता कालहन्ता कलङ्कहा ॥ ४२॥
मागधारिर्यवनहा पाण्डुपुत्रसहायकृत् ।
चतुर्भुजः श्यामलाङ्गः सौम्यश्चौपगविप्रियः ॥ ४३॥
युद्धभृदुद्धवसखा मन्त्री मन्त्रविशारदः ।
वीरहा वीरमथनः शङ्खचक्रगदाधरः ॥ ४४॥
रेवतीचित्तहर्ता च रेवतीहर्षवर्द्धनः ।
रेवतीप्राणनाथश्च रेवतीप्रियकारकः ॥ ४५॥
ज्योतिर्ज्योतिष्मतीभर्ता रैवताद्रिविहारकृत् ।
धृतिनाथो धनाध्यक्षो दानाध्यक्षो धनेश्वरः ॥ ४६॥
मैथिलार्चितपादाब्जो मानदो भक्तवत्सलः ।
दुर्योधनगुरुर्गुर्वी गदाशिक्षाकरः क्षमी ॥ ४७॥
मुरारिर्मदनो मन्दोऽनिरुद्धो धन्विनां वरः ।
कल्पवृक्षः कल्पवृक्षी कल्पवृक्षवनप्रभुः ॥ ४८॥
स्यमन्तकमणिर्मान्यो गाण्डीवी कौरवेश्वरः ।
कुम्भाण्डखण्डनकरः कूपकर्णप्रहारकृत् ॥ ४९॥
सेव्यो रैवतजामाता मधुमाधवसेवितः ।
बलिष्ठपुष्टसर्वाङ्गो हृष्टः पुष्टः प्रहर्षितः ॥ ५०॥
वाराणसीगतः क्रुद्धः सर्वः पौण्ड्रकघातकः ।
सुनन्दी शिखरी शिल्पी द्विविदाङ्गनिषूदनः ॥ ५१॥
हस्तिनापुरसङ्कर्षी रथी कौरवपूजितः ।
विश्वकर्मा विश्वधर्मा देवशर्मा दयानिधिः ॥ ५२॥
महाराजच्छत्रधरो महाराजोपलक्षणः ।
सिद्धगीतः सिद्धकथः शुक्लचामरवीजितः ॥ ५३॥
ताराक्षः कीरनासश्च बिम्बोष्ठः सुस्मितच्छविः ।
करीन्द्रकरदोर्दण्डः प्रचण्डो मेघमण्डलः ॥ ५४॥
कपाटवक्षाः पीनांसः पद्मपादस्फुरद्द्युतिः ।
महविभूतिर्भूतेशो बन्धमोक्षी समीक्षणः ॥ ५५॥
चैद्यशत्रुः शत्रुसन्धो दन्तवक्त्रनिषूदकः ।
अजातशत्रुः पापघ्नो हरिदाससहायकृत् ॥ ५६॥
शालबाहुः शाल्वहन्ता तीर्थयायी जनेश्वरः ।
नैमिषारण्ययात्रार्थी गोमतीतीरवासकृत् ॥ ५७॥
गण्डकीस्नानवान्स्रग्वी वैजयन्तीविराजितः ।
अम्लानपङ्कजधरो विपाशी शोणसम्प्लुतः ॥ ५८॥
प्रयागतीर्थराजश्च सरयूः सेतुबन्धनः ।
गयाशिरश्च धनदः पौलस्त्यः पुलहाश्रमः ॥ ५९॥
गङ्गासागरसङ्गार्थी सप्तगोदावरीपतिः ।
वेणि भीमरथी गोदा ताम्रपर्णी वटोदका ॥ ६०॥
कृतमाला महापुण्या कावेरी च पयस्विनी ।
प्रतीची सुप्रभा वेणी त्रिवेणी सरयूपमा ॥ ६१॥
कृष्णा पम्पा नर्मदा च गङ्गा भागीरथी नदी ।
सिद्धाश्रमः प्रभासश्च बिन्दुर्बिन्दुसरोवरः ॥ ६२॥
पुष्करः सैन्धवो जम्बू नरनारायणाश्रमः ।
कुरुक्षेत्रपती रामो जामदग्न्यो महामुनिः ॥ ६३॥
इल्वलात्मजहन्ता च सुदामासौख्यदायकः ।
विश्वजिद्विश्वनाथश्च त्रिलोकविजयी जयी ॥ ६४॥
वसन्तमालतीकर्षी गदो गद्यो गदाग्रजः ।
गुणार्णवो गुणनिधिर्गुणपात्रो गुणाकरः ॥ ६५॥
रङ्गवल्लीजलाकारो निर्गुणः सगुणो बृहत् ।
दृष्टः श्रुतो भवद्भूतो भविष्यच्चाल्पविग्रहः ॥ ६६॥
अनादिरादिरानन्दः प्रत्यग्धामा निरन्तरः ।
गुणातीतः समः साम्यः समदृङ्निर्विकल्पकः ॥ ६७॥
गूढाव्यूढो गुणो गौणो गुणाभासो गुणावृतः ।
नित्योऽक्षरो निर्विकारोऽक्षरोऽजस्रसुखोऽमृतः ॥ ६८॥
सर्वगः सर्ववित्सार्थः समबुद्धिः समप्रभः ।
अक्लेद्योऽच्छेद्य आपूर्णोऽशोष्योऽदाह्योणऽनिवर्तकः ॥ ६९॥
ब्रह्म ब्रह्मधरो ब्रह्मा ज्ञापको व्यापकः कविः ।
अध्यात्मकोऽधिभूतश्चाधिदैवः स्वाश्रयाश्रयः ॥ ७०॥
महावायुर्महावीरश्चेष्टारूपतनुस्थितः ।
प्रेरको बोधको बोधी त्रयोविंशतिको गणः ॥ ७१॥
अंशांशश्च नरावेशोऽवतारो भूपरिस्थितः ।
महर्जनस्तपःसत्यं भूर्भुवःस्वरिति त्रिधा ॥ ७२॥
नैमित्तिकः प्राकृतिक आत्यन्तिकमयो लयः ।
सर्गो विसर्गः सर्गादिर्निरोधो रोध ऊतिमान् ॥ ७३॥
मन्वन्तरावतारश्च मनुर्मनुसुतोऽनघः ।
स्वयम्भूः शाम्भवः शङ्कुः स्वायम्भुवसहायकृत् ॥ ७४॥
सुरालयो देवगिरिर्मेरुर्हेमार्चितो गिरिः ।
गिरीशो गणनाथश्च गौरीशो गिरिगह्वरः ॥ ७५॥
विन्ध्यस्त्रिकूटो मैनाकः सुवेलः पारिभद्रकः ।
पतङ्गः शिशिरः कङ्को जारुधिः शैलसत्तमः ॥ ७६॥
कालञ्जरो बृहत्सानुर्दरीभृन्नन्दिकेश्वरः ।
सन्तानस्तरुराजश्च मन्दारः पारिजातकः ॥ ७७॥
जयन्तकृज्जयन्ताङ्गो जयन्तीदिग्जयाकुलः ।
वृत्रहा देवलोकश्च शशी कुमुदबान्धवः ॥ ७८॥
नक्षत्रेशः सुधासिन्धुर्मृगः पुष्यः पुनर्वसुः ।
हस्तोऽभिजिच्च श्रवणो वैधृतिर्भास्करोदयः ॥ ७९॥
ऐन्द्रः साध्यः शुभः शुक्लो व्यतीपातो ध्रुवः सितः ।
शिशुमारो देवमयो ब्रह्मलोको विलक्षणः ॥ ८०॥
रामो वैकुण्ठनाथश्च व्यापी वैकुण्ठनायकः ।
श्वेतद्वीपो जितपदो लोकालोकाचलाश्रितः ॥ ८१॥
भूमिर्वैकुण्ठदेवश्च कोटिब्रह्माण्डकारकः ।
असङ्ख्यब्रह्माण्डपतिर्गोलोकेशो गवां पतिः ॥ ८२॥
गोलोकधामधिषणो गोपिकाकण्ठभूषणः ।
श्रीधारः श्रीधरो लीलाधरो गिरिधरो धुरी ॥ ८३॥
कुन्तधारी त्रिशूली च बीभत्सी घर्घरस्वनः ।
शूलसूच्यर्पितगजो गजचर्मधरो गजी ॥ ८४॥
अन्त्रमाली मुण्डमाली व्याली दण्डकमण्डलुः ।
वेतालभृद्भूतसङ्घः कूष्माण्डगणसंवृतः ॥ ८५॥
प्रमथेशः पशुपतिर्मृडानीशो मृडो वृषः ।
कृतान्तकालसङ्घारिः कूटः कल्पान्तभैरवः ॥ ८६॥
षडाननो वीरभद्रो दक्षयज्ञविघातकः ।
खर्पराशी विषाशी च शक्तिहस्तः शिवार्थदः ॥ ८७॥
पिनाकटङ्कारकरश्चलज्झङ्कारनूपुरः ।
पण्डितस्तर्कविद्वान्वै वेदपाठी श्रुतीश्वरः ॥ ८८॥
वेदान्तकृत्साङ्ख्यशास्त्री मीमांसी कणनामभाक् ।
काणादिर्गौतमो वादी वादो नैयायिको नयः ॥ ८९॥
वैशेषिको धर्मशास्त्री सर्वशास्त्रार्थतत्त्वगः ।
वैयाकरणकृच्छन्दो वैयासः प्राकृतिर्वचः ॥ ९०॥
पाराशरीसंहितावित्काव्यकृन्नाटकप्रदः ।
पौराणिकः स्मृतिकरो वैद्यो विद्याविशारदः ॥ ९१॥
अलङ्कारो लक्षणार्थो व्यङ्ग्यविद्धनवद्ध्वनिः ।
वाक्यस्फोटः पदस्फोटः स्फोटवृत्तिश्च सार्थवित् ॥ ९२॥
शृङ्गार उज्ज्वलः स्वच्छोऽद्भुतो हास्यो भयानकः ।
अश्वत्थो यवभोजी च यवक्रीतो यवाशनः ॥ ९३॥
प्रह्लादरक्षकः स्निग्ध ऐलवंशविवर्द्धनः ।
गताधिरम्बरीषाङ्गो विगाधिर्गाधिनां वरः ॥ ९४॥
नानामणिसमाकीर्णो नानारत्नविभूषणः ।
नानापुष्पधरः पुष्पी पुष्पधन्वा प्रपुष्पितः ॥ ९५॥
नानाचन्दनगन्धाढ्यो नानापुष्परसार्चितः ।
नानावर्णमयो वर्णो नानावस्त्रधरः सदा ॥ ९६॥
नानापद्मकरः कौशी नानाकौशेयवेषधृक् ।
रत्नकम्बलधारी च धौतवस्त्रसमावृतः ॥ ९७॥
उत्तरीयधरः पर्णो घनकञ्चुकसङ्घवान् ।
पीतोष्णीषः सितोष्णीषो रक्तोष्णीषो दिगम्बरः ॥ ९८॥
दिव्याङ्गो दिव्यरचनो दिव्यलोकविलोकितः ।
सर्वोपमो निरुपमो गोलोकाङ्गीकृताङ्गणः ॥ ९९॥
कृतस्वोत्सङ्गगोलोकः कुण्डलीभूत आस्थितः ।
माथुरो माथुरादर्शी चलत्खञ्जनलोचनः ॥ १००॥
दधिहर्ता दुग्धहरो नवनीतसिताशनः ।
तक्रभुक् तक्रहारी च दधिचौर्यकृतश्रमः ॥ १०१॥
प्रभावतीबद्धकरो दामी दामोदरो दमी ।
सिकताभूमिचारी च बालकेलिर्व्रजार्भकः ॥ १०२॥
धूलिधूसरसर्वाङ्गः काकपक्षधरः सुधीः ।
मुक्तकेशो वत्सवृन्दः कालिन्दीकूलवीक्षणः ॥ १०३॥
जलकोलाहली कूली पङ्कप्राङ्गणलेपकः ।
श्रीवृन्दावनसञ्चारी वंशीवटतटस्थितः ॥ १०४॥
महावननिवासी च लोहार्गलवनाधिपः ।
साधुः प्रियतमः साध्यः साध्वीशो गतसाध्वसः ॥ १०५॥
रङ्गनाथो विठ्ठलेशो मुक्तिनाथोऽघनाशकः ।
सुकिर्तिः सुयशाः स्फीतो यशस्वी रङ्गरञ्जनः ॥ १०६॥
रागषट्को रागपुत्रो रागिणीरमणोत्सुकः ।
दीपको मेघमल्हारः श्रीरागो मालकोशकः ॥ १०७॥
हिन्दोलो भैरवाख्यश्च स्वरजातिस्मरो मृदुः ।
तालो मानप्रमाणश्च स्वरगम्यः कलाक्षरः ॥ १०८॥
शमी श्यामी शतानन्दः शतयामः शतक्रतुः ।
जागरः सुप्त आसुप्तः सुषुप्तः स्वप्न उर्वरः ॥ १०९॥
ऊर्जः स्फूर्जो निर्जरश्च विज्वरो ज्वरवर्जितः ।
ज्वरजिज्ज्वरकर्ता च ज्वरयुक् त्रिज्वरो ज्वरः ॥ ११०॥
जाम्बवान् जम्बुकाशङ्की जम्बूद्वीपो द्विपारिहा ।
शाल्मलिः शाल्मलिद्वीपः प्लक्षः प्लक्षवनेश्वरः ॥ १११॥
कुशधारी कुशः कौशी कौशिकः कुशविग्रहः ।
कुशस्थलीपतिः काशीनाथो भैरवशासनः ॥ ११२॥
दाशार्हः सात्वतो वृष्णिर्भोजोऽन्धकनिवासकृत् ।
अन्धको दुन्दुभिर्द्योतः प्रद्योतः सात्वतां पतिः ॥ ११३॥
शूरसेनोऽनुविषयो भोजवृष्ण्यन्धकेश्वरः ।
आहुकः सर्वनीतिज्ञ उग्रसेनो महोग्रवाक् ॥ ११४॥
उग्रसेनप्रियः प्रार्थ्यः पार्थो यदुसभापतिः ।
सुधर्माधिपतिः सत्त्वं वृष्णिचक्रावृतो भिषक् ॥ ११५॥
सभाशीलः सभादीपः सभाग्निश्च सभारविः ।
सभाचन्द्रः सभाभासः सभादेवः सभापतिः ॥ ११६॥
प्रजार्थदः प्रजाभर्ता प्रजापालनतत्परः ।
द्वारकादुर्गसञ्चारी द्वारकाग्रहविग्रहः ॥ ११७॥
द्वारकादुःखसंहर्ता द्वारकाजनमङ्गलः ।
जगन्माता जगत्त्राता जगद्भर्ता जगत्पिता ॥ ११८॥
जगद्बन्धुर्जगद्भ्राता जगन्मित्रो जगत्सखः ।
ब्रह्मण्यदेवो ब्रह्मण्यो ब्रह्मपादरजो दधत् ॥ ११९॥
ब्रह्मपादरजःस्पर्शी ब्रह्मपादनिषेवकः ।
विप्राङ्घ्रिजलपूताङ्गो विप्रसेवापरायणः ॥ १२०॥
विप्रमुख्यो विप्रहितो विप्रगीतमहाकथः ।
विप्रपादजलार्द्राङ्गो विप्रपादोदकप्रियः ॥ १२१॥
विप्रभक्तो विप्रगुरुर्विप्रो विप्रपदानुगः ।
अक्षौहिणीवृतो योद्धा प्रतिमापञ्चसंयुतः ॥ १२२॥
चतुरोंऽगिराः पद्मवर्ती सामन्तोद्धृतपादुकः ।
गजकोटिप्रयायी च रथकोटिजयध्वजः ॥ १२३॥
महारथश्चातिरथो जैत्रं स्यन्दनमास्थितः ।
नारायणास्त्री ब्रह्मास्त्री रणश्लाघी रणोद्भटः ॥ १२४॥
मदोत्कटो युद्धवीरो देवासुरभङ्करः ।
करिकर्णमरुत्प्रेजत्कुन्तलव्याप्तकुण्डलः ॥ १२५॥
अग्रगो वीरसम्मर्दो मर्दलो रणदुर्मदः ।
भटः प्रतिभटः प्रोच्यो बाणवर्षी सुतोयदः ॥ १२६॥
खड्गखण्डितसर्वाङ्गः षोडशाब्दः षडक्षरः ।
वीरघोषः क्लिष्टवपुर्वज्राङ्गो वज्रभेदनः ॥ १२७॥
रुग्णवज्रो भग्नदण्डः शत्रुनिर्भर्त्सनोद्यतः ।
अट्टहासः पट्टधरः पट्टराज्ञीपतिः पटुः ॥ १२८॥
कलः पटहवादित्रो हुङ्कारो गर्जितस्वनः ।
साधुर्भक्तपराधीनः स्वतन्त्रः साधुभूषणः ॥ १२९॥
अस्वतन्त्रः साधुमयः साधुग्रस्तमना मनाक् ।
साधुप्रियः साधुधनः साधुज्ञातिः सुधाघनः ॥ १३०॥
साधुचारी साधुचित्तः साधुवासी शुभास्पदः ।
इति नाम्नां सहस्रं तु बलभद्रस्य कीर्तितम् ॥ १३१॥
सर्वसिद्धिप्रदं नॄणां चतुर्वर्गफलप्रदम् ।
शतवारं पठेद्यस्तु स विद्यावान् भवेदिह ॥ १३२॥
इन्दिरां च विभूतिं चाभिजनं रूपमेव च ।
बलमोजश्च पठनात्सर्वं प्राप्नोति मानवः ॥ १३३॥
गङ्गाकूलेऽथ कालिन्दिकूले देवालये तथा ।
सहस्रावर्तपाठेन बलात्सिद्धिः प्रजायते ॥ १३४॥
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ।
बन्धात्प्रमुच्यते बद्धो रोगी रोगान्निवर्तते ॥ १३५॥
अयुतावर्तपाठे च पुरश्चर्याविधानतः ।
होमतर्पणगोदानविप्रार्चनकृतोद्यमात् ॥ १३६॥
पटलं पद्धतिं स्तोत्रं कवचं तु विधाय च ।
महामण्डलभर्ता स्यान्मण्डितो मण्डलेश्वरैः ॥ १३७॥
मत्तेभकर्णप्रहिता मदगन्धेन विह्वला ।
अलङ्करोति तद्द्वारां भ्रमद्भृङ्गावली भृशम् ॥ १३८॥
निष्कारणः पठेद्यस्तु प्रीत्यर्थं रेवतीपतेः ।
नाम्नां सहस्रं राजेन्द्र स जीवन्मुक्त उच्यते ॥ १३९॥
सदा वसेत्तस्य गृहे बलभद्रोऽच्युताग्रजः ।
महापातक्यपि जनः पठेन्नामसहस्रकम् ॥ १४०॥
छित्त्वा मेरुसमं पापं भुक्त्वा सर्वसुखं त्विह ।
परात्परं महाराज गोलोकं धाम याति हि ॥ १४१॥
श्रीनारद उवाच –
इति श्रुत्वाच्युताग्रजस्य बलदेवस्य पञ्चाङ्गं
धृतिमान् धार्तराष्ट्रः सपर्यया सहितया परया
भक्त्या प्राड्विपाकं पूजयामास ।
तमनुज्ञाप्याशिषं दत्वा प्राड्विपाको मुनीन्द्रो
गजाह्वयात्स्वाश्रमं जगाम ॥ १४२॥
भगवतोऽनन्तस्य बलभद्रस्य परब्रह्मणः कथां
यः शृणुते श्रावयते तयाऽऽनन्दमयो भवति ॥ १४३॥
इदं मया ते कथितं नृपेन्द्र सर्वार्थदं श्रीबलभद्रखण्डम् ।
शृणोति यो धाम हरेः स याति विशोकमानन्दमखण्डरूपम् ॥ १४४॥
इति श्रीगर्गसंहितायां बलभद्रखण्डे प्राड्विपाकदुर्योधनसंवादे
बलभद्रसहस्रनामवर्णनं नाम त्रयोदशोऽध्यायः ॥ ग. सं. अधाय १३॥
Found a Mistake or Error? Report it Now