|| भारवेरर्थगौरवम् ||
संस्कृतवाङ्मये प्रथितमहाकवीनां वैशिष्ट्यमभिलक्ष्य पद्यमेतद् गीयते –
उपमा कालिदासस्य भारवेरर्थगौरवम् ।
दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः ।।
महाकविभारवेः प्रसिद्धिरर्थगौरवाय वर्तते । किं नाम अर्थगौरवम् ? कथं च एतदुपकरोति महाकाव्यम् ? कथं च गुणेन एतेन अद्भुतं यशो भारवे: ? इत्येतदत्र विवेच्यते ।
अर्थगौरवं नाम भावगाम्भीर्यं सद्भावभूषित्वं च, सुदीर्घमपि पन्थानं स्वल्पेनैव प्रयासेन परिणमति । भावमूलकत्वाद् महाकाव्यस्य भावभूषया च काव्यगौरवस्य समभिवृद्धेरर्थगौरवं महदुपकारकं महाकाव्यस्य । पदे पदे समुपलभ्यन्ते महाकाव्येऽस्मिन् अर्थभारभरिता विविधविषयका: सूक्तय: । अनुमीयते च एतेन भारवेवैदुष्यम् । शतशोऽत्र सूक्तिमुक्ता: समुपलभ्यन्ते तासां दिङ्मात्रमिह प्रस्तूयते । अर्थगौरवस्य महत्त्वम् उदीरयता भारविनैव सम्यक् प्रतिपाद्यते यत् तस्य काव्ये सर्वत्र स्फुटताऽर्थगौरवं भावसाङ्कर्याभाव: सामर्थ्यं च प्राप्स्यते ।
यथोच्यते –
स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम् ।
रचिता पृथगर्थता गिरां, न च सामर्थ्यमपोहितं क्वचित् ।। २/२७
सा च एतादृशी भावगाम्भीर्यभरिता भारती सततकृतपुण्यकर्मभिरेव प्रवर्तते, नान्यथा –
प्रवर्तते नाकृतपुण्यकर्मणां प्रसन्नगम्भीरपदा सरस्वती । १४/०३
किं नाम वाग्मित्वम् ? कथं च सभ्येषु ते विशेषत: आद्रियन्ते । इति विवेचयता तेन साधु प्रतिपाद्यते यन् मनोगतस्य गम्भीरस्य अर्थस्य परिष्कृतया प्राञ्जलया च वाचा प्रकाशनेन वाग्मित्वं सामासाद्यते –
भवन्ति ते सभ्यतमा विपश्चिता, मनोगतं वाचि निवेशयन्ति ये ।
नयन्ति तेष्वप्युपपन्ननैपुणा गभीरमर्थं कतिचित्प्रकाशताम् ।। १४/०४
भाषणेऽपि च केचन अर्थगौरवमाद्रियन्ते, केचन भाषासौष्ठवम्, अपरे माधुर्यम् अन्ये भावप्रकाशनशैलीम्, इति महति विरोधे वर्तमाने सर्वमन: प्रसादिनी गी: सुदुर्लभा । अतस्तेनोक्तम् –
सुदुर्लभाः सर्वमनोरमा गिर: । १४/०५
विदुषां कीदृश: स्वभाव इति विवेचयन्नाह विद्वांसो गुणग्रहणे धृतधियो भवन्ति –
गुणगृह्या वचने विपश्चित: । २/५
प्रेम्णो गौरवं प्रतिपादयता तेन उच्यते –
वसन्ति हि प्रेम्णि गुणा न वस्तुनि । ८/३७
स्नेहप्राचुर्यमेव गुणानां निधानं न वस्तु सौन्दर्यमात्रम्, प्रेमी सदैव प्रियस्यानिष्टवारणाय यतते चिन्तयति च । तदाह –
प्रेम पश्यति भयान्यपदेऽपि । ९/७०
मित्रलाभश्च लाभोऽपूर्व: । तदाचष्टे –
मित्रलाभमनु लाभसम्पद: १३/५२
विनय: सुशीलता च किमित्युररीकरणीया इति प्रतिपादयन्नाह विनयेनैव योगिनो मुक्तिं समाधिं चाधिगच्छन्ति –
योगिनां परिणमन्विमुक्तये, केन नास्तु विनय: सतां प्रिय: ।१३/४४
शीलयन्ति यतयः सुशीलताम् । १३/४३
मनोविज्ञानसम्बन्धिसूक्ष्मनिरीक्षणं कुर्वता तेनोच्यते चेतोभावा एव हितैषिणं रिपुं वा प्रकटयन्ति – विमलं कलुषीभवच्च चेत:, कथयत्येव हितैषिणं रिपुं वा । १३/०६
अविज्ञातमपि प्रियमिष्टं वा प्रेक्ष्य जनस्य हृदयं प्रसीदति –
अविज्ञातेऽपि बन्धौ हि बलात् प्रहावते मन: । ११/०८
भौतिकविषयाणां स्वरूपविचारे तेन साधु प्रतिपाद्यते यद् विषया: परिणामे दु:खदा: भवन्ति – आपातरम्या विषया: पर्यन्तपरितापिन: । ११/१२
अत एव कामानां हेयत्वं प्रतिपादयति, तेषां च स्वरूपं विवृणोति –
श्रद्धेया विप्रलब्धार:, प्रिया विप्रियकारिण: ।
सुदुस्त्यजास्त्यजन्तोऽपि, कामा: कष्टा हि शत्रव: ।। ११/३५
भोगा: भुजङ्गफणसदृशा: भोगप्रवृत्तस्य च विपदवाप्ति: सुनिश्चिता भवत्येव –
भोगान्भोगानिवाहेयानध्यास्यापन्न दुर्लभा । ११/२३
अतो विषयान् विहाय गुणार्जने मनो निधेयम् –
सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ।
यतो हि गुणैरेव गौरवं, प्रियत्वं च प्राप्यते सर्वज्ञ जगद् वशीकर्तुं पार्यते ।
स्वाभिमानस्य महत्त्वं प्रतिपादयता साधु अभिधीयते तेन यत् स्वाभिमानरहितस्तृणवदगण्य – जन्मिनो मानहीनस्य तृणस्य च समा गति: । ११/५९
न हि तेजस्विनं कृशानुवद् भान्तं कश्चिद् अविज्ञातुमर्हति । यथोक्तम् –
ज्वलितं न हिरण्यरेतसं चयमास्कन्दति भस्मना जन: । २/२०
स एव पुरुषे यो मानेन जीवति –
पुरुषस्तावदेवासौ यावन्मानान्न हीयते । ११/६१
मनस्विना यदेव ईप्स्यते तदेव अधिगम्यते –
किमिवास्ति यन्न सुकर मनस्विभि: । १२/०६
नीतिविषयकानि अनेकानि सुभाषितानि उपलभ्यन्ते, तानि अतिसूक्ष्मतया उल्लिख्यन्ते । तानि च यथायथं विवेक्तव्यानि –
हितं मनोहारि च दुर्लभं वच: । १/४
सद्भिरेव मैत्रीं विरोधं च कुर्वीत नासद्धि: –
समुन्नयन् भूतिमनार्यसंगमाद्, वरं विरोधोऽपि समं महात्मभि: । १/८
बलीयसा सह युद्धं न कर्त्तव्यम् –
अहो दुरन्ता बलवद्विरोधिता । १/२३
अवन्ध्यकोपस्य उदारसत्त्वस्य च सर्वत्र आदरो भवति –
अवन्ध्यकोपस्य विहन्तुरापदां, भवन्ति वश्या: स्वयमेव देहिन: ।
अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादर: ॥ १/३३
सदा विचार्यैव कर्मणि प्रवर्तितव्यम्, न सहसा कृतिमनुतिष्ठेत् –
सहसा विवधीत न क्रियामविवेक: परमापदां पदम् ।
वृणुते हि विमृश्यकारिणं, गुणलुब्धा: स्वयमेव सम्पद: ।। २/३०
एवं राजनीतिविषयका: बहवोऽत्र सूक्तय: समुपलभ्यन्ते –
शठे शाठ्यमेवाचरेत् इति भाव: अत्र दृश्यते –
व्रजन्ति ते मूढधिय: पराभव, भवन्ति मायाविषु ये न मायिन: । १/३०
युद्ध जयश्री: उत्कर्षशालिनमेव श्रयते, नान्यम् –
प्रकर्षतन्त्रा हि रणे जयश्री: । ३/१७
शत्रो: उत्सादनं परमं कर्त्तव्यम् –
परमं लाभमरातिभङ्गमाहु: । १३/१२
न उत्कृष्टेन सह विग्रहो नयसम्मतो वर्तते, यथोक्तम् –
प्रार्थनाऽधिकबले विपत्फला । १३/६१
विक्रमार्जितसत्वस्य न कोऽपि दोषो भवति –
न दूषित: शक्तिमतां स्वयंग्रह: । १४/२०
नीतिमुत्सृजतो नृपस्य प्रजा न प्रसीदति –
नयहीनादपरज्यते जन: । २/४ ९
नृपस्य अमात्यानाञ्च सामंजस्यमेव श्रेयसे भवति –
सदानुकूलेषु हि कुर्वते रतिं नृपेष्वमात्येषु च सर्वसम्पद: । १/५
राज्ञां कृते शममार्गो न शोभते, इति भाव: प्रोच्यते तेन –
व्रजन्ति शत्रूनवधूय नि:स्पृहा:, शमेन सिद्धिं मुनयो न भूभृत: । १/४२
कानिचिदन्यानि हृद्यानि सूक्तानि प्रस्तूयन्तेऽत्र, तानि यथायथं भवान् जानातु –
स्वपौरुषं परमम् आलम्बनं भवति –
विनिपातनिवर्तनक्षमं मतमालम्बनमात्मपौरुषम् । २/१३
महीयांसो न परकृपाजीविनो भवन्ति –
लघयन् खलु तेजसा जगन्न महानिच्छति भूतिमन्यत: । २/१८
मानिनं श्री: स्वयमनुगच्छति –
अभिमानधनस्य गत्वरैरसुभि: स्थास्नु यशश्चिचीषत: ।
अचिरांशुविलासचञ्चला, ननु लक्ष्मी: फलमानुषङ्गिकम् ।। २/१९
महान् नान्यसमुन्नतिं सहते –
प्रकृति: खलु सा महीयस: सहते नान्यसमुन्नतिं यया । २/२१
अजितेन्द्रियै: श्रियो न रक्षितुं शक्यन्ते –
शरदभ्रचलाश्चलेन्द्रियैरसुरक्षा हि बहुच्छला: श्रिय: । २/३९
दुर्जनानां संगति: सर्वदा दोषाय भवति –
असाधुयोगा हि जयान्तराया:, प्रमाथिनीनां विपदां पदानि । ३/१४
खला: साधुषु अपि दोषदर्शिन: भवन्ति –
मात्सर्यरागोपहतात्मनां हि, स्खलन्ति साधुष्वपि मानसानि । ३/५३
स्वभावसुन्दरं वस्तु न कृत्रिमताम् अपेक्षते –
न रम्यमाहार्यमपेक्षते गुणम् । ४/२३
एवं प्रतिपदम् अर्थगौरवम् उद्वीक्ष्य एव “भारवेरर्थगौरवम्” इति सहर्षमुद्घोष्यते ।