Misc

श्री भृगुपञ्चकस्तोत्रम्

Bhrigupanchakastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री भृगुपञ्चकस्तोत्रम् ||

द्विजेन्द्रवंशतारकं समस्तदुःखहारकं
दरिद्रताविदारकं स्वधर्मसेतुधारकम् ।
सदैव देवनन्दितं समस्त शास्त्रपण्डितं
भजामि भस्मभूषितं स्वभर्गभासितं भृगुम् ॥ १॥

विरागरागनिर्झरं नमामि वै विदाम्वरं
परम्परारविन्दरेणुषट्पदं सिताम्बारम् ।
सदैव साधनापरं समाधिनिष्ठभूसुरं
भजामि भस्मभूषितं स्वभर्गभासितं भृगुम् ॥ २॥

सनातनं च शाश्वतं समष्टिसौख्यसर्जकं
समुन्नतं सुमानसं शिवादिसङ्गसाधकम् ।
समर्धकं समर्पितं सदैव शान्तिशोधकं
नमामि भस्मभूषितं स्वभर्गभासितं भृगुम् ॥ ३॥

पठामि भार्गवोत्तमं लिखामि तं भृगुं विभु
भजामि तं महागुरुं स्पृशामि तं महाप्रभुम् ।
स्मरामि तं महामुनिं वदामि तं स्वयम्भुवं
नमामि भस्मभूषितं स्वभर्गभासितं भृगुम् ॥ ४॥

अबोधतां विनाशितुं दरिद्रतां विदारितुं
प्रबोधतां प्रवाहितु सुमेधतां सुसाधितुम् ।
विकासवीथि भासितुं भजामि वै भृगुं शिवं
नमामि भस्मभूषितं स्वभर्गभासितं भृगुम् ॥ ५॥

॥ इति श्री भृगुपञ्चकस्तोत्रम् ॥

Found a Mistake or Error? Report it Now

Download श्री भृगुपञ्चकस्तोत्रम् PDF

श्री भृगुपञ्चकस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App