ब्रह्म स्तोत्रम् (देव कृतम्) PDF संस्कृत
Download PDF of Brahma Stotram Deva Krutam Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
ब्रह्म स्तोत्रम् (देव कृतम्) संस्कृत Lyrics
|| ब्रह्म स्तोत्रम् (देव कृतम्) ||
देवा ऊचुः ।
ब्रह्मणे ब्रह्मविज्ञानदुग्धोदधि विधायिने ।
ब्रह्मतत्त्वदिदृक्षूणां ब्रह्मदाय नमो नमः ॥ १ ॥
कष्टसंसारमग्नानां संसारोत्तारहेतवे ।
साक्षिणे सर्वभूतानां साक्षिहीनाय ते नमः ॥ २ ॥
सर्वधात्रे विधात्रे च सर्वद्वन्द्वापहारिणे ।
सर्वावस्थासु सर्वेषां साक्षिणे वै नमो नमः ॥ ३ ॥
परात्परविहीनाय पराय परमेष्ठिने ।
परिज्ञानवतामात्तस्वरूपाय नमो नमः ॥ ४ ॥
पद्मजाय पवित्राय पद्मनाभसुताय च ।
पद्मपुष्पैः सुपूज्याय नमः पद्मधराय च ॥ ५ ॥
सुरज्येष्ठाय सूर्यादिदेवता तृप्तिकारिणे ।
सुरासुरनरादीनां सुखदाय नमो नमः ॥ ६ ॥
वेधसे विश्वनेत्राय विशुद्धज्ञानरूपिणे ।
वेदवेद्याय वेदान्तनिधये वै नमो नमः ॥ ७ ॥
विधये विधिहीनाय विधिवाक्यविधायिने ।
विध्युक्त कर्मनिष्ठानां नमो विद्याप्रदायिने ॥ ८ ॥
विरिञ्चाय विशिष्टाय विशिष्टार्तिहराय च ।
विषण्णानां विषादाब्धिविनाशाय नमो नमः ॥ ९ ॥
नमो हिरण्यगर्भाय हिरण्यगिरिवर्तिने ।
हिरण्यदानलभ्याय हिरण्यातिप्रियाय च ॥ १० ॥
शताननाय शान्ताय शङ्करज्ञानदायिने ।
शमादिसहितायैव ज्ञानदाय नमो नमः ॥ ११ ॥
शम्भवे शम्भुभक्तानां शङ्कराय शरीरिणाम् ।
शाङ्करज्ञानहीनानां शत्रवे वै नमो नमः ॥ १२ ॥
नमः स्वयम्भुवे नित्यं स्वयं भूब्रह्मदायिने ।
स्वयं ब्रह्मस्वरूपाय स्वतन्त्राय परात्मने ॥ १३ ॥
द्रुहिणाय दुराचारनिरतस्य दुरात्मनः ।
दुःखदायान्यजन्तूनां आत्मदाय नमो नमः ॥ १४ ॥
वन्द्यहीनाय वन्द्याय वरदाय परस्य च ।
वरिष्ठाय वरिष्ठानां चतुर्वक्त्राय वै नमः ॥ १५ ॥
प्रजापतिसमाख्याय प्रजानां पतये नमः ।
प्राजापत्यविरक्तस्य नमः प्रज्ञाप्रदायिने ॥ १६ ॥
पितामहाय पित्रादिकल्पनारहिताय च ।
पिशुनागम्यदेहाय पेशलाय नमो नमः ॥ १७ ॥
जगत्कर्त्रे जगद्गोप्त्रे जगद्धन्त्रे परात्मने ।
जगद्दृश्यविहीनाय चिन्मात्रज्योतिषे नमः ॥ १८ ॥
विश्वोत्तीर्णाय विश्वाय विश्वहीनाय साक्षिणे ।
स्वप्रकाशैकमानाय नमः पूर्णपरात्मने ॥ १९ ॥
स्तुत्याय स्तुतिहीनाय स्तोत्ररूपाय तत्त्वतः ।
स्तोतृणामपि सर्वेषां सुखदाय नमो नमः ॥ २० ॥
इति स्कान्दपुराणे सूतसंहितायां देवकृत ब्रह्मस्तोत्रम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowब्रह्म स्तोत्रम् (देव कृतम्)

READ
ब्रह्म स्तोत्रम् (देव कृतम्)
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
