|| ब्रह्मविद्या पंचक स्तोत्र ||
नित्यानित्यविवेकतो हि नितरां निर्वेदमापद्य सद्-
विद्वानत्र शमादिषट्कलसितः स्यान्मुक्तिकामो भुवि।
पश्चाद्ब्रह्मविदुत्तमं प्रणतिसेवाद्यैः प्रसन्नं गुरुं
पृच्छेत् कोऽहमिदं कुतो जगदिति स्वामिन्! वद त्वं प्रभो।
त्वं हि ब्रह्म न चेन्द्रियाणि न मनो बुद्धिर्न चित्तं वपुः
प्राणाहङ्कृतयोऽन्यद- प्यसदविद्याकल्पितं स्वात्मनि।
सर्वं दृश्यतया जडं जगदिदं त्वत्तः परं नान्यतो
जातं न स्वत एव भाति मृगतृष्णाभं दरीदृश्यताम्।
व्यप्तं येन चराचरं घटशरावादीव मृत्सत्तया
यस्यान्तःस्फुरितं यदात्मकमिदं जातं यतो वर्तते।
यस्मिन् यत् प्रलयेऽपि सद्घनमजं सर्वं यदन्वेति तत्
सत्यं विध्यमृताय निर्मलधियो यस्मै नमस्कुर्वते।
सृष्ट्वेदं प्रकृतेरनुप्रविशती येयं यया धार्यते
प्राणीति प्रविविक्तभुग्बहिरहं प्राज्ञः सुषुप्तौ यतः।
यस्यामात्मकला स्फुरत्यहमिति प्रत्यन्तरङ्गं जनै-
र्यस्यै स्वस्ति समर्थ्यते प्रतिपदा पूर्णा शृणु त्वं हि सा।
प्रज्ञानं त्वहमस्मि तत्त्वमसि तद् ब्रह्मायमात्मेति सं-
गायन् विप्रचर प्रशान्तमनसा त्वं ब्रह्मबोधोदयात्।
प्रारब्धं क्वनु सञ्चितं तव किमागामि क्व कर्माप्यसत्
त्वय्यध्यस्तमतोऽखिलं त्वमसि सच्चिन्मात्रमेकं विभुः।
Found a Mistake or Error? Report it Now