|| श्रीदक्षिणामूर्तिस्तोत्रम् २ ||
उपासकानां यदुपासनीयमुपात्तवासं वटशाखिमूले ।
तद्धाम दाक्षिण्यजुषा स्वमूर्त्या जागर्तु चित्ते मम बोधरूपम् ॥ १॥
अद्राक्षमक्षीणदयानिधानमाचार्यमाद्यं वटमूलभागे ।
मौनेन मन्दस्मितभूषितेन महर्षिलोकस्य तमो नुदन्तम् ॥ २॥
विद्राविताशेषतमोगणेन मुद्राविशेषेण मुहुर्मुनीनाम् ।
निरस्य मायां दयया विधत्ते देवो महांस्तत्त्वमसीति बोधम् ॥ ३॥
अपारकारुण्यसुधातरङ्गैरपाङ्गपातैरवलोकयन्तम् ।
कठोरसंसारनिदाघतप्तान्मुनीनहं नौमि गुरुं गुरूणाम् ॥ ४॥
ममाद्यदेवो वटमूलवासी कृपाविशेषात्कृतसन्निधानः ।
ओंकाररूपामुपदिश्य विद्यामाविद्यकध्वान्तमपाकरोतु ॥ ५॥
कलाभिरिन्दोरिव कल्पिताङ्गं मुक्ताकलापैरिव बद्धमूर्तिम् ।
आलोकये देशिकमप्रमेयमनाद्यविद्यातिमिरप्रभातम् ॥ ६॥
स्वदक्षजानुस्थितवामपादं पादोदरालंकृतयोगपट्टम् ।
अपस्मृतेराहितपादमङ्गे प्रणौमि देवं प्रणिधानवन्तम् ॥ ७॥
तत्त्वार्थमन्तेवसतामृषीणां युवाऽपि यः सन्नुपदेष्टुमीष्टे ।
प्रणौमि तं प्राक्तनपुण्यजालैराचार्यमाश्चर्यगुणाधिवासम् ॥ ८॥
एकेन मुद्रां परशुं करेण करेण चान्येन मृगं दधानः ।
स्वजानुविन्यस्तकरः पुरस्तादाचार्यचूडामणिराविरस्तु ॥ ९॥
आलेपवन्तं मदनाङ्गभूत्या शार्दूलकृत्त्या परिधानवन्तम् ।
आलोकये कञ्चन देशिकेन्द्रमज्ञानवाराकरवाडवाग्निम् ॥ १०॥
चारुस्मितं सोमकलावतंसं वीणाधरं व्यक्तजटाकलापम् ।
उपासते केचन योगिनस्त्वामुपात्तनादानुभवप्रमोदम् ॥ ११॥
उपासते यं मुनयः शुकाद्या निराशिषो निर्ममताधिवासाः ।
तं दक्षिणामूर्तितनुं महेशमुपास्महे मोहमहार्तिशान्त्यै ॥ १२॥
कान्त्या निन्दितकुन्दकन्दलवपुर्न्यग्रोधमूले वस –
न्कारुण्यामृतवारिभिर्मुनिजनं संभावयन्वीक्षितैः ।
मोहध्वान्तविभेदनं विरचयन्बोधेन तत्तादृशा
देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना ॥ १३॥
अगौरगात्रैरललाटनेत्रैरशान्तवेषैरभुजङ्गभूषैः ।
अबोधमुद्रैरनपास्तनिद्रैरपूर्णकामैरमरैरलं नः ॥ १४॥
दैवतानि कति सन्ति चावनौ नैव तानि मनसो मतानि मे ।
दीक्षितं जडधियामनुग्रहे दक्षिणाभिमुखमेव दैवतम् ॥ १५॥
मुदिताय मुग्धशशिनावतंसिने भसितावलेपरमणीयमूर्तये ।
जगदीन्द्रजालरचनापटीयसे महसे नमोऽस्तु वटमूलवासिने ॥ १६॥
व्यालम्बिनीभिः परितो जटाभिः कलावशेषेण कलाधरेण ।
पश्यँल्ललाटेन मुखेन्दुना च प्रकाशसे चेतसि निर्मलानाम् ॥ १७॥
उपासकानां त्वमुमासहायः पूर्णेन्दुभावं प्रकटीकरोषि ।
यदद्य ते दर्शनमात्रतो मे द्रवत्यहो मानसचन्द्रकान्तः ॥ १८॥
यस्ते प्रसन्नामनुसन्दधानो मूर्तिं मुदा मुग्धशशाङ्कमौलेः ।
ऐश्वर्यमायुर्लभते च विद्यामन्ते च वेदान्तमहारहस्यम् ॥ १९॥
॥ इति दक्षिणामूर्तिस्तोत्रं (२) सम्पूर्णम्॥
Found a Mistake or Error? Report it Now